________________
काण्डम् ]
शक्तिवादः। वस्तुतो घटत्वाद्युपलक्षितवाचकाइ द्रव्यादिपदाच्छत्तयाऽभ्रान्तस्य घटत्वादिप्रकारकशाब्दबोधवारणाय तद्धर्मप्रकारकशाब्दबोधे शक्तौ तद्धर्मविशिष्टनिरूपितत्वावगाहित्वेन शक्तिज्ञानस्योपयोगिता वाच्या तथा च तत्संबन्धिशतत्वावगाहिनो लक्षणाग्रहस्य तेन रूपेणाऽसंग्रहादऽननुगमेन व्यभिचारप्रसक्तया उक्तकार्यकारणभावे कारणानन्तर्यप्रवेश आवश्यकः ।
न स्यादव । उक्त हेतुमाह-तत्रेति, नत्र' स्वशक्तत्वसंबन्धन घटविशिष्टं घटपदम् ' इत्याकारकशक्तिज्ञाने पदेऽर्थसंसर्गतया घटप्रतियोगिकसंबन्धत्वेन या शक्तिीसते तस्यामर्थस्य घटस्य निरूपितत्वरूपसंबन्धस्पाऽभानात् । अत्र शक्ती घटस्प स्वनिरूपितत्वसंबन्धनाऽन्वयाभावादितियायत, त्यया चोक्तरीत्या शक्तिज्ञाने शक्तौ यस्य स्वनिरूपितत्वसंबन्धेनान्वयो भवति तद्विपकशाब्दबोधस्यैव नियमितत्वात् । तदनुपपत्तिः उक्तघटादिविषयकशाब्दबोधानुपपत्तिः ।
कार्यतावच्छेदककोटौ कारणानन्तर्यप्रवेशस्यावश्यकत्वे हेत्वन्तरमाह-वस्तुत इति,द्रव्यपदं घटस्य घटत्वोपलक्षितत्वेन रूपेण वाचकं भवति न तु घटत्वविशिष्टत्वेन रूपेण द्रव्यपदस्य द्रव्यत्वमात्र. विशिष्टवाचकवाद् द्रव्यपदशक्तिज्ञानीयविषयतावच्छेदकत्वस्य द्रव्यत्वे एवं स्वीकारादू घटत्वे च द्रव्यपदशक्तिज्ञानीयविषयतासामानाधिकरण्यमात्रस्यैव सत्त्वात्, तथा च द्रव्यपदाच्छत्या घटत्वप्रकारकशाब्दबोधोऽभ्रान्तस्य नेष्ट इति तदारणाय तद्धर्मप्रकारकशाब्दबोधे-तद्धर्मप्रकारकशाब्दवोध प्रति शक्तौ शक्तिविषयकं यत् तद्वर्मविशिष्टनिरूपितत्वावगाहित्येन नाम शक्तिनिष्ट यद् घटत्यादिधर्मविशिष्ट्वटादिपदार्थनिरूपितत्रं तदवमाहि यत् 'द्रव्यपदं द्रव्यत्वविशिष्टनिरूपितशक्तिविशिष्टम्' 'घरपदं घटत्वविशिष्टनिरूपितशक्तिविशिष्टम् ' इत्याद्याकारकं शक्तिज्ञानं तस्यैवोपयोगिता कारणता वक्तव्या एवं हि द्रव्यपदादऽभ्रान्तस्य शक्त्या घटत्वप्रकारकशाब्दबोधापत्तिनास्ति-द्रव्यपदस्य घरव्यविशिष्टनिरूपितशक्तिविशिष्टत्वाभावात् द्रव्यत्व विशिष्टनिरूपितशक्तिविशिष्टत्वाचेत्यर्थः। उपसंहरति-तथा चति, शक्तिज्ञानं हि शक्तौ तद्धर्मविशिष्टनिरूपितत्वावगाहकमेव शाब्दबोधजनक भवति लक्षणाज्ञानं च तत्संबन्धिशक्तवावगाहि-लक्ष्यतीरादिसंबन्धिप्रवाहादिनिरूपितत्वावगोत्र लक्ष्यार्थविषयकशाब्दबोधजनकं भवतीति शक्तिज्ञानलक्षणाज्ञानयोः स्वरूपभे. दात् तेन रूपेण सद्धर्मविशिष्टनिरूपितत्वावगाहित्वेन रूपेण लक्षणाज्ञानस्याऽसंग्रहाच्छक्तिज्ञानलक्षणाज्ञानयोरननुगमः प्राप्तस्तेन चाननुगमेन टक्षगाज्ञान जन्यशाब्दबोधे शक्तिज्ञानस्य शक्तिज्ञानजन्यशाब्दबोधे च लक्षणाज्ञानस्य व्यभिचारः प्राप्तस्तादृशव्यभिचारस्य निवृत्त्यर्थं हि (२७ पूर्वोक्तरीत्योक्तकार्यकारणभावे कार्यतावच्छेदककोटौ कारणानन्तर्यस्य प्रवेश आवश्यक एव तथा च वृत्त्यनुपस्थितस्यापि संसर्गस्य शाब्दबोधस्वीकारे व्यभिचाराप्रसक्त्या संसर्गस्य घटादिपदवाच्यत्वं वृत्तिज्ञानविषयत्वं च न स्वीकार्यमित्यर्थः । सर्वं चैतत् पूर्वमेव व्याख्यातम् ।