________________
(३४) सादर्शः
[सामान्यपदार्थोपस्थितेहेतुत्वोपगमान्नायमतिप्रसङ्ग:- शक्तयंशे उदासीनस्य पटनिरूपितत्वादेर्भानेपि घटकालीनशक्तिरूपघटीयपरम्परासंबन्धविषयकपदज्ञानस्य घटादिस्मारकतया तत्स्मृतिजनकतायां पटादिनिरूपितत्वविषयतानिरूपितत्वस्य शक्तिविषयकत्वेऽनिवेशादितिचेत् ?
एवमपि यत्र ज्ञाने घटादेः शक्तत्वसंबन्धेन पदांशे प्रकारता तजन्योपस्थिर तितोपि घटादेः शाब्दबोधोत्पत्या तदनुपपत्तिदुर्वारैव-तत्र पदांशेऽर्थसंसर्गतया भासमानशक्तावर्थस्य निरूपितत्वरूपसंबन्धान्तराऽभानात् । णतानिरूपितपटमात्रविषयकत्वावच्छिन्नकार्यताशाल्युपस्थितेरेव कारणतावच्छेदिका भगति न तु वटोपस्थितेरपीत्युक्तशक्तिज्ञानजन्यपटोपस्थित्या पटविषयकशाब्दबोधो जायते घटोपस्थित्या च घटविषयकशाब्दबोधापत्तिर्नास्त्येव- वटोपस्थितिनिष्टकार्यतानिरूपितोक्तशक्तिज्ञाननिष्ठकारणतावच्छेदिका या शक्तिविषयता तस्या घटनिरूपितत्ववषयतानिरूपितत्याभावाद् घटकालिकशक्तिविषयतारूरत्वात् घटस्य कालमाने विशेषणत्वाद् निरूपितत्वे च विशेषणत्याभावात् । उक्तशक्तिज्ञानजन्यपटोपस्थित्या पटविषयकशाब्दबोधस्त्विष्ट एव ! उक्तातिप्रसङ्गाभावे हेतुमाह--- शक्त्यंश इति, शक्त्यंशे= 'घटकालीनपटनिरूपितशक्तिमत्पटपदम् ' इत्याकारकशक्तिज्ञानघटकशक्तौ पटनिरूपितत्वादेरुदासीनस्य-उदासीनतया भानेपि । घटकालीनशक्तिसंबन्धन घटविशिष्टं पटपदम् ' इत्यत्र घटकालीनशक्तिको यो घटस्य पटपदे परम्परासंबन्धस्तादृशसंबन्धविषयकं यत् ‘घटकालीनपटनिरूपितशक्तिमपटपदम् ' इत्याकारकं पदज्ञानम् पदविशेष्यकं शक्तिज्ञानं तस्यैव घटादिस्मारकतया= बटोपस्थितिजनकतया तत्स्मृतिजनकतायाम् उक्तपदज्ञाननिष्ठा या घटोपस्थितिजनकता ताई शजनकतायां कारणतावच्छेदकत्वेन प्रविष्टं यच्छक्तिविषयकत्वं तस्मिन् पटादिनिरूपितत्वविष ! यतानिरूपितत्वस्य=किंचिन्निरूपितत्वविषयतानिरूपितत्वस्याऽनिवेशादित्यन्वयः । घटोपस्थितिजनकं हि घटकालिकशक्तिविषयकमेव ज्ञानं न तु किंचिन्निरूपितशक्तिविषयकं घटकालिकशक्तिविषयकज्ञानीयशक्तिविषयकत्वे चावन्छेदकत्वेन किंचिन्निरूपितत्वविषयतानिरूपितत्वस्य नि. वेशो नास्त्येवेति न तादृशघटोपस्थित्या घटविषयकशाब्दबोधापत्तिरित्यर्थः । भगवदिच्छारूपशक्तौ पटादिनिरूपितत्वस्याऽनवच्छेदकत्वेनोदासीनत्वम्-, घटस्य काले कालस्य शक्ती शक्तेश्व पदेऽन्वय इति घटस्य साक्षाच्छक्तावन्वयाभावेन शक्तेर्घटीयपरस्परासंबन्धत्वमुक्तम् । " भानपि " इत्यत्र "अभानेपि" इत्यपि पाठस्तस्य च 'अमानेन ' इत्यर्थः, तन्वाभानमनिवशे हेतुः। अभाने चोदासीनत्वं हेतुः शेषं पूर्ववदेव ।
अनापि दोषमाह-एवमपीति, यत्र-यस्मिन् ज्ञाने-शक्तिज्ञाने घटादेः शक्तत्वसंबन्धेन पदारे प्रकारता यथा 'शक्तत्वसंबन्धेन घटविशिष्टं घटपदम् ' इत्याकारकशक्तिज्ञानेनापि घटोपस्थितिर्जायते तया च घटोपस्थित्या घटविषयकशाब्दबोध इष्ट एव स चोक्तकार्यकारणभावे स्वीकृत