________________
शक्तिवादः ।
( ३३ )
किंचिन्निरूपितत्वविषयतानिरूपितत्वविरहादिति वाच्यम्, एवमापे 'घटकालीना या पटनिरूपिता शक्तिस्तद्वत् पटपदम्' इत्यादिज्ञानप्रयोज्यघटाद्युपस्थितेरव्यावृत्तेः ।
अथ किंचिनिरूपितत्वविषयतानिरूपितत्वेन शक्तिविषयता यादृशकारणतावच्छेदिका तादृशकारणताप्रतियोगिक प्रकृतार्थविषयतावच्छिन्न कार्यताशालित्वेन निरूपितत्वाभावात्, अर्थात् 'घटकालिकशक्तिमत्पटपदम्' इत्याकारकज्ञाने या शक्तिः प्रविष्टास्ति तस्याः किंचिनिरूपितत्वेन रूपेण प्रवेशाभावान्नैतादृशज्ञानजन्योपस्थितः शाब्दबोवजनकत्वापतिरित्याशङ्क्याह - न चेति । परिहारहेतुमाह - एवमपीति, एवमपि = उक्त यत्किंचिनिरूपितत्वोपरक्तशक्तिविषयताप्रयोज्यतत्तदर्थविषयताकोपस्थितित्वेन रूपेणोपस्थितः शाब्दबोधजनकत्बोपगमेपि' घटकालिका या पटनिरूपिता शक्तिस्तद्वत् पटपदम्' इत्याकारकज्ञानजन्यघटाद्युपस्थितेस्तु भव्यावृत्तेः = शाब्दबोधजनकत्वमापद्येतैव एतज्ज्ञानीयशक्तिविश्यतायाः पटनिरूपितत्वविषयतानिरूपितत्वात्, अर्थात् 'घटकालिकपट निरूपितशक्तिमत्पटपदम् ' इत्लाकारकज्ञाने या शक्तिः प्रविष्टास्ति तस्याः पट निरूपितत्वेनैव रूपेण प्रवेशादेतादृशज्ञानजन्यघटाद्युपस्थितेर्घटादिशाब्दबोधजनकत्वं स्यादेव न चैतदिष्टम् - ईश्वरेच्छारूपतेर्नित्यत्वेन पदार्थमात्रसमानकालिकत्वात् सकल विषय कशाब्दबोधप्रसङ्गादित्यर्थः ।
"
या
$
शङ्कते -- अथेति, किंचिन्निरूपितत्वविपयतानिरूपितत्वेन नाम किंचिन्निरूपितत्वनिष्टा या विपयता तादृशविषयतानिरूपिता या शक्तिज्ञाननिष्ठा शक्तीयविषयता सा यादृशकारणतावच्छेदिका = यथा पटविषयको पस्थितिनिष्ठकार्यतानिरूपिताया: 'वटकालिकपटनिरूपितशक्तिमत्पटपदुम् ' इत्याकारकशक्तिज्ञाननिष्टकारणताया अवच्छेदिका भवति तादृशकारणताप्रतियोगिका== तादृशपटविषयको पस्थितिजनकोक्तशक्तिज्ञाननिष्टकारणतानिरूपिता प्रकृतार्थविषयत्वावच्छिन्ना=पटरूपार्थविषयत्वावच्छिन्ना कार्यता= उपस्थितिनिष्ठा कार्यता तादृशकार्यताशालित्वेन नाम तादृशकार्यतावती या पदार्थोपस्थितिस्तस्या एव शाब्दबोधं प्रति हेतुत्वं स्वीक्रियते इति नायमतिप्रसङ्गो नाम " घटकालीना या पटनिरूपिता शक्तिस्तद्वत्पटपदम् " इत्याकारकज्ञानप्रयोracter acविषयक शाब्दबोधापत्तिर्नास्तीत्यन्वयः । घटकालीनेत्याद्युक्तशक्तिज्ञानजन्यपटोपस्थितौ उक्तशक्तिज्ञाननिष्ठकारणतानिरूपितकार्यताप्यस्ति पटरूपार्थविषयकत्वमप्यस्तीति उपस्थितिनिष्टा कार्यता पटलक्षणप्रकृतार्थविषयत्वावच्छिन्ना जतेति विज्ञेयम् । अयमर्थ:-- ' वटकालिकपटनिरूपित शक्तिमत्पटपदम् इत्याकारकोक्तशक्तिज्ञानेन घटोपस्थितिरपि जायते पटोपस्थितिरपि जायते इत्युभयविधोपस्थितिं प्रति कारणं तूक्तशक्तिज्ञानमेकमेव यद्यपि तथापि कारणतावच्छेदकं पृथक् पृथगेव यथा घटोपस्थितेस्तु घटकालिकशक्तिविषयकत्वं पटोपस्थितेश्च पटनिरूपितशक्तिविषयकत्वम्, तथा च किंचिन्निरूपितत्वविषयतानिरूपितत्वेन " इत्यायुक्तकार्यकारणभावे स्त्रीकृते घटकालीनेत्यादिशक्तिज्ञाने पदे शक्तेर्विशेषणत्वेन शक्तावपि विषयतास्ति सा च शक्तिविषयता पटनिरूपितत्वविषयतानिरूपिता सती तादृशशक्तिज्ञाननिष्ठकार -
1
16
काण्डम् ]