________________
... सादर्शः
[ सामान्यअपि तादृशसंबन्धप्रयोज्यघटादिविषयताप्रयोजकत्वात् । तादृशशक्तिविषयकधियश्च घटादिनिरूपितत्वोपरागेण तत्संबन्धिनिरूपितत्वोपरागेण च पदे शक्तयन वगाहितया शाब्दबोधप्रयोजकतच्छक्तपदज्ञानतल्लाक्षणिकपदज्ञानानात्मकतया तजन्योपस्थितेः शाब्दबोधजनकत्वोपगमासंभवात् ।
न च यत्किचिन्निरूपितत्वोपरक्तशक्तिविषयताप्रयोज्यतत्तदर्थविषयताकोपस्थि तित्वेनैव शाब्दधीजनकत्वोपगमानायमतिप्रसङ्ग:- उक्तज्ञानीयशक्तिविषयताया
स्यापि विषयत्वेनैतादृशवृत्तिज्ञानात् पटवद् घटस्याप्युपस्थितेरवश्यंभावाद् एतादृशघटोपस्थितेरस्य क्तशक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकविषयताशालित्वात् तादृशोपस्थि, तेः शाब्दबोधजनकत्वस्वीकारात् 'घटकालिकशक्तिमत् पटपदम्' इत्याकारकज्ञानजन्यधटोपस्थि घटविषयकशाब्दबोधस्यापत्तिरस्त्येव न चैतदिष्टम्-नित्याया ईश्वरेच्छारूपशक्तेः पदार्थमात्रसमा कालिकत्वेन सकलविषयकशाब्दबोधप्रसङ्गादित्यर्थः। नन्वस्तु 'घटकालिकशक्तिमत् पटपदम्' इत्यो दिज्ञानजन्यघटोपस्थिते: घटविषयकशाब्दबोधजनकत्वमित्यत्र वाधकमाह-तादृशशक्तीति । ताई शक्तिविषयकधियः='घटकालिकशक्तिमत् पटपदम्' इत्याकारकज्ञानस्य घटादिनिरूपितत्वोपरागेघटादिनिरूपितत्वेनापि पदे शक्त्यवगाहिरवं नाम घटादिशक्यनिरूपितपदनिष्ठशक्तिविषयकत्व म पनास्ति येन शाब्दबोधप्रयोजकतच्छक्तपदज्ञानात्मकत्वप्राप्त्या तज्जन्योपस्थितेः शक्यार्थविषयक
शाब्दबोधजनकत्वमुपपद्येतं तथा ' घटकालिकशक्तिमत् पटपदम् ' इतिज्ञानस्य तत्संबन्धिनिरू: • पितत्वोपरागेण लक्ष्यार्थसंबन्विशक्यार्थनिरूपितत्वेनापि पदे शतववाहित्वं नाम लक्ष्यार्थ संबन्धिशक्यार्थनिरूपितपदनिष्ठशक्तिविषयकत्वमपि नास्ति येन शाब्दबोधप्रयोजकतल्लाक्षणिक पदविषयकज्ञानात्मकत्वमाया तज्जन्योपस्थितेः लक्ष्यार्थविषयकशाब्दबोधजनकत्वमुपपद्यतेति । 'घटकालिकशक्तिमत् पटपदम्' इत्यादिज्ञानजन्यघटोपस्थितेः घटविषयकशाब्दबोधजनकत्वोपगम संभवतीत्यर्थः। उपरागणवैशिष्ट्येन । पदे इति सप्तम्यर्थी निष्ठत्वम् । शक्तयनवगाहितया शक्तयऽविषयकतया शक्तिविषयकत्वाभावात् । एवं हि शक्यार्थनिरूपितपदनिष्ठशक्त्यवगाहि ज्ञानजन्योपस्थितेः शक्यार्थविषयकशाब्दबोधजनकत्वं लक्ष्यार्थसंबन्धिशक्यार्थनिरूपितपदनिष्ठश क्यवगाहिज्ञानजन्योपस्थितेश्च लक्ष्यार्थविषयकशाब्दबोधजनकत्वमितिप्राप्तम् ।
ननु यत्किंचित् ( शक्यार्थ ) निरूपितत्वविशिष्टा या शक्तिस्तन्निष्ठा या विषयता तादृश विषयताप्रयोज्या या तत्तदर्थविषयकोपस्थितिस्तादृशोपस्थितेरेव शाब्दबोधजनकत्वं स्वीक्रिया अर्थात् 'यत्किचिनिरूपितत्वविशिष्टशक्तिविषयकज्ञानत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदि कीभूतविषयताशात्युपस्थितिः शाब्दबोधकारणम् ' इत्युच्यते, तथा च नायमतिप्रसङ्गः= घट कालिकशक्तिमत् पटपदम्' इत्याकारकज्ञानजन्यघटोपस्थितेः शाब्दबोधजनकत्वापत्ति स्ति-'घटः कालिकशक्तिमत् पटपदम्' इत्याकारकज्ञाने या शक्तिविषयतास्ति तस्याः किंचिन्निरूपितत्वविषयता