________________
काण्डम्.] शक्तिवादः।
(३१) षयतापर्यन्तस्योपस्थितिनिष्ठकारणतावच्छेदके निवेशादनुगमसंभवादुक्तलक्षणाज्ञानहेतुतायामाप शक्तिविषयताया अवच्छेदकत्वेन प्रवेशादिति । । तन्न समीचीनम्- उक्तानुगतरूपेण पदार्थोपस्थितेर्हेतुत्वे 'घटकालीना या शक्तिस्तद्वत् पटपदम्' इत्यादिज्ञानजन्यघटायुपस्थितितोपि घटादिशाब्दबोधप्र. ङ्गात्, तत्कालीनशक्तिरूपपरम्परासंबन्धविषयतान्तःपातिन्याः शक्तिविषयताया
कि पटपदम्' इत्याकारकलक्षणाज्ञाननिष्टायामुपस्थितिनिष्टकार्यतानिरूपितकारणतायामपि शक्तिपयतायाः शक्तिविषयकत्वस्यावच्छेदकत्वेन निवेशान्नोक्तलक्षणाज्ञानजन्योपस्थितेरसंग्रह इत्याहकलक्षणेति । "शक्तिविषयत्वावच्छिन्न" इत्यादिना शक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरू
कार्यतावच्छेदकविषयताशाल्युपस्थितेः शाब्दबोधकारणत्वमुक्तं एतादृशविषयताशालित्वं च । शक्तिविषयकज्ञानजन्योपस्थितावस्ति तथा 'घटसंबन्धिशक्तं पटपदम्' 'तीरसंबन्धिप्रवाहशक्तं मापदम्' इत्याद्याकारकलक्षणाज्ञानजन्यलक्ष्यार्थविषयकोपस्थितावप्यस्त्येव-लक्षणाया: शक्यसं. धरूपत्वेन लक्षणाज्ञानस्यापि शक्तिविषयक त्यावश्यंभावादित्यभिप्रायः । लक्षणाशाने उपस्थितिनिकार्यतानिरूपितहेतुताप्यस्ति शक्तिविषयकत्वमप्यस्तीति तादृशशक्तिविषयतायास्तादृशहेतुतावदकत्वं प्राप्तम् । अनुगमसंभवाच्च न पूर्वोक्तविशेषकार्यकारणभावकल्पनापेक्षेति सामान्यत उक्तर्यकारणभावेन संसर्गस्यापि शाब्दबोधे भानार्थं वृत्तिज्ञानजन्योपस्थितेस्तदर्थं घटादिपदवाच्य. स्य चापेक्षा प्राप्तव । यत्त्वित्यादिनोक्तं पराचष्टे- तन्नेति, उक्तानुगतरूपेण-शक्तिविषयत्वावच्छिन्नेत्यादिरूपेण, र्थात् शक्तिविषयकज्ञानत्वावच्छिन्न कारणतानिरूपितकार्यतावच्छेदकविषयताशालित्वेन रूपेण दार्थोपस्थितेः शाब्दबोधहेतुल्वे हि ‘घटकालिका या शक्तिस्तद्वत् पटपदम्' इत्यादिज्ञानजन्यघटापस्थितेररि घटादिविषयकशाब्दबोधजनकत्वमायद्यत न चैतदिष्टमित्यर्थः । पटादिपदनिष्टा क्तिर्घटकालेपि वर्तते ईश्वरेन्छारूपशक्तनित्यत्वादित्युक्तम्- "घटकालीना" इति । उक्त हेतुह- तत्कालीनेति, घटकालिकशक्तिरूपो यः परम्परासंबन्धस्तादृशसंबन्धनिष्ठा या विषयता इन्तःपातिनी या शक्तिविषयता तस्या अपि ताशसंबन्धप्रयोज्या घटकालिकशक्तिमत्वसंबन्धगोज्या योपस्थिति निष्ठा घटादि विषयता तत्प्रयोजकत्यादित्यन्वयः । घटकालीनेत्यस्प 'घटलिकशक्तिमत्त्वसंबन्धेन घटविशिष्टं पटपदम्' इति पर्थवसितं स्यादित्यभिप्रेत्य शक्तः संबन्धमुक्तम्, तत्रापि घटस्य काले कालस्य च शक्तावन्वयेन शक्तः परम्परासंबन्धत्वमुक्तम् । तादृशन्यविषयता च संबन्धनिष्टा सांसर्गिक विषयता तदन्तःपातिनी शक्तिविषयतास्ति-शक्तरक्तपन्धस्वरूपे प्रविष्टत्वात्, शक्तिविषयता च शक्तिनिष्ठाऽवच्छेदकत्वरूपा विपयता विज्ञेया शक्तः न्धस्वरूप प्रवेशेन संबन्धनिष्टविषयतावच्छेदकत्वात्, तादृशशक्तिविषयताया उक्तसंबन्धप्रयोज्य - दिविषयताप्रयोजकत्वमस्त्येव-घटकालिकशक्तिमत् पटपदम्' इत्याकारकवृत्तिज्ञाने घ