Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 103
________________ तत्पदम्.] शक्तिवादः । (९५) शक्यव्यावर्तकस्यैव शक्यविशेषणत्वादिति तस्य शक्योपलक्षणतयाऽऽकाशपदजन्यशान्दबोधे शब्दाश्रयत्वभानानियमवत् तदादिपदजन्यबोधे तदभाननिर्वाहः । एतद्बीजं तु- तदुपलक्षितघटत्वादिविषयकत्वेन तदविषयकघटत्वादिबोधस्यापि संकेतविषयत्वम् । घटादिपदसंकेतस्य च घटत्वादिविशिष्टविषयकबोध एव विषय इति तज्जन्यबोधे तादृशधर्मभाननियमः । यथा यद्विशिष्टविशेष्यकबोधविषयत्वं संकेतविषयस्तच्छक्यतावच्छेदकतया व्यवाहियते तथा यद्विशिष्टप्रकारविशिष्टविषयकत्वं तथातच्छक्यतावच्छेदकतावच्छेदकमित्युच्यते प्रकृते बुद्धिविषयतावच्छेदकत्वं न तथेति न तच्छक्यतावच्छेदकं न वा तत्त्वावच्छेदकमिति । माननियमो नास्ति तथा तदादिसर्वनामपदजन्ययोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमो नास्ति-- उपलक्षणत्वादित्याह- तस्येति । यदि केन चित्पुरुश्रेण बुद्धिविषयतावच्छेदकत्वे घटत्वादिविशेषणत्वं गृह्येत तदा तदादिपदजन्यबोधे तस्य भानमपि संभवति । तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमाभावे कारणमाह- एतदिति, 'बुद्धिविषयतावच्छेदकत्वोपलक्षितघटत्यादिविषयकबोधस्तदादिपद्जन्यो भवतु' इत्याकारकबोधविशेष्यकभगवत्संकेते तदुपलक्षितघटत्वादिविषयकत्वेन बुद्धिविषयतावच्छेदकत्वोपलक्षितघटत्वादिविषयकत्वेन रूपेण तदविषयकघटत्वादिबोधः बुद्धिविषयतावच्छेदकत्वाऽविषयकत्वे सति घटत्वादिविषयको बोधो विषयोस्तीति न तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमः, यदि घटत्वादिविषयकबोधो बुद्धिविषयतावच्छेदकत्वविषयकः सन्नेव संकेतविषयः स्यातदा तदादिपदजन्यबोध बुद्धिनिषयतावच्छेदकत्वस्य भाननियमः स्यादपि न चैवमस्तीत्यर्थः । घटादिपदजन्यबोधे घटत्वादेर्भाननियमे हेतुमाह-वटादिषदेति, घटादिपस्थले ' घटत्वादिविशिष्टविषयकबोधो घटादिपदजन्यो भवतु । इत्याकारकभगवत्संकेते घटत्वादिविशिष्टविषयक एव बोधों विषयो भवति न तु घटत्वाद्युपलक्षितविषयक इति तजन्यबोधे घटादिपदजन्यबोधे तादृशधर्मभाननियमः घटत्वादिलक्षणधर्माणां भाननियमः । बुद्धिविषयतावच्छेदकत्वं हि न शक्यतावच्छेदकं न वा शक्यतावच्छेदकतावच्छेदकं येन तदादिपदजन्यबोधे नियमेन भासेतेल्याह-- यथेति, 'घटत्वविशिष्टो घटपदजन्यबोधविषयो भवतु ' इत्याकारकसंकेते घटत्वविशिष्टो यो घटस्तद्विशेष्यको यो बोधस्तद्विषयत्वं विषयोस्तीति तत्-घटत्वादिकं शक्यतावच्छेदकमित्युच्यते एवं पश्चादिपदस्थले 'लोमत्वावच्छिन्नलोमविशिष्टविषयको बोधः पशुपदजन्यो भवतु ' इत्याकारकभगवत्संकेते लोमत्वविशिष्टं यत् प्रकारीभूतं लोम तद्विशिष्टो यः पशुस्तद्विषयकत्वं पशुपदजन्यबांधवृत्ति विषयोस्तीति तत्लोमत्वं शक्यतावच्छेदकतावच्छेदकमित्युच्यते, अत्र शक्यता पशी शक्यतावच्छेदकता लोमसु शक्यतावच्छेदकतावच्छेदकं लोमत्व मिति प्राप्तम् , तथा संकेतविषयः । प्रकृते तदादिपदस्थले च बुद्धिविषयतावच्छेदकत्वं न तथा घटत्वादितुल्यं शक्यविशेषणमिति न शक्यतावच्छेदकं न वा लोमत्ववत् शक्यप्रकारविशेषणमिति न तत्त्वावच्छेदकम् =

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216