________________
तत्पदम्.] शक्तिवादः ।
(९५) शक्यव्यावर्तकस्यैव शक्यविशेषणत्वादिति तस्य शक्योपलक्षणतयाऽऽकाशपदजन्यशान्दबोधे शब्दाश्रयत्वभानानियमवत् तदादिपदजन्यबोधे तदभाननिर्वाहः ।
एतद्बीजं तु- तदुपलक्षितघटत्वादिविषयकत्वेन तदविषयकघटत्वादिबोधस्यापि संकेतविषयत्वम् । घटादिपदसंकेतस्य च घटत्वादिविशिष्टविषयकबोध एव विषय इति तज्जन्यबोधे तादृशधर्मभाननियमः । यथा यद्विशिष्टविशेष्यकबोधविषयत्वं संकेतविषयस्तच्छक्यतावच्छेदकतया व्यवाहियते तथा यद्विशिष्टप्रकारविशिष्टविषयकत्वं तथातच्छक्यतावच्छेदकतावच्छेदकमित्युच्यते प्रकृते बुद्धिविषयतावच्छेदकत्वं न तथेति न तच्छक्यतावच्छेदकं न वा तत्त्वावच्छेदकमिति । माननियमो नास्ति तथा तदादिसर्वनामपदजन्ययोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमो नास्ति-- उपलक्षणत्वादित्याह- तस्येति । यदि केन चित्पुरुश्रेण बुद्धिविषयतावच्छेदकत्वे घटत्वादिविशेषणत्वं गृह्येत तदा तदादिपदजन्यबोधे तस्य भानमपि संभवति ।
तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमाभावे कारणमाह- एतदिति, 'बुद्धिविषयतावच्छेदकत्वोपलक्षितघटत्यादिविषयकबोधस्तदादिपद्जन्यो भवतु' इत्याकारकबोधविशेष्यकभगवत्संकेते तदुपलक्षितघटत्वादिविषयकत्वेन बुद्धिविषयतावच्छेदकत्वोपलक्षितघटत्वादिविषयकत्वेन रूपेण तदविषयकघटत्वादिबोधः बुद्धिविषयतावच्छेदकत्वाऽविषयकत्वे सति घटत्वादिविषयको बोधो विषयोस्तीति न तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य भाननियमः, यदि घटत्वादिविषयकबोधो बुद्धिविषयतावच्छेदकत्वविषयकः सन्नेव संकेतविषयः स्यातदा तदादिपदजन्यबोध बुद्धिनिषयतावच्छेदकत्वस्य भाननियमः स्यादपि न चैवमस्तीत्यर्थः । घटादिपदजन्यबोधे घटत्वादेर्भाननियमे हेतुमाह-वटादिषदेति, घटादिपस्थले ' घटत्वादिविशिष्टविषयकबोधो घटादिपदजन्यो भवतु । इत्याकारकभगवत्संकेते घटत्वादिविशिष्टविषयक एव बोधों विषयो भवति न तु घटत्वाद्युपलक्षितविषयक इति तजन्यबोधे घटादिपदजन्यबोधे तादृशधर्मभाननियमः घटत्वादिलक्षणधर्माणां भाननियमः । बुद्धिविषयतावच्छेदकत्वं हि न शक्यतावच्छेदकं न वा शक्यतावच्छेदकतावच्छेदकं येन तदादिपदजन्यबोधे नियमेन भासेतेल्याह-- यथेति, 'घटत्वविशिष्टो घटपदजन्यबोधविषयो भवतु ' इत्याकारकसंकेते घटत्वविशिष्टो यो घटस्तद्विशेष्यको यो बोधस्तद्विषयत्वं विषयोस्तीति तत्-घटत्वादिकं शक्यतावच्छेदकमित्युच्यते एवं पश्चादिपदस्थले 'लोमत्वावच्छिन्नलोमविशिष्टविषयको बोधः पशुपदजन्यो भवतु ' इत्याकारकभगवत्संकेते लोमत्वविशिष्टं यत् प्रकारीभूतं लोम तद्विशिष्टो यः पशुस्तद्विषयकत्वं पशुपदजन्यबांधवृत्ति विषयोस्तीति तत्लोमत्वं शक्यतावच्छेदकतावच्छेदकमित्युच्यते, अत्र शक्यता पशी शक्यतावच्छेदकता लोमसु शक्यतावच्छेदकतावच्छेदकं लोमत्व मिति प्राप्तम् , तथा संकेतविषयः । प्रकृते तदादिपदस्थले च बुद्धिविषयतावच्छेदकत्वं न तथा घटत्वादितुल्यं शक्यविशेषणमिति न शक्यतावच्छेदकं न वा लोमत्ववत् शक्यप्रकारविशेषणमिति न तत्त्वावच्छेदकम् =