________________
(९६)
सादर्शः
[विशेषकाण्डेजातित्वादिविशिष्टघटत्वाद्यवच्छिन्नस्य तदादिपदावधीनबोधे तु बोधांशे बुद्धिविषयतावच्छेदकतावच्छेदकत्वोपलक्षितधर्मविशिष्टावच्छिन्नविषयकत्वावगाही संकेत: प्रयोजक इति तत्र जातित्वावच्छिन्नघटत्वादिनिष्ठप्रकारताक एव बोधो विषय इति न जातिमान् ' इत्याकारकबोधकाले 'घटा ' इत्याकारकबोधः।
शक्यतावच्छेदकतावच्छेदकं येन तदादिपदजन्यवोधे नियमेन भासेतेत्यर्थः । यथेत्यादिपाठश्च काचित्क एव। . तदादिपदेन स्वरूपतो घटत्वादिप्रकारकबोधमुपपाद्य संप्रति किंचिद्धर्मविशिष्टघटत्वादिप्रकारकबोधमुपपादयति-जातिवादीति, 'अत्र जातिमानस्ति तमानय ' इत्यादिवाक्यश्रवणेन जातित्वादिविशिष्टघटत्वादिप्रकारको बोधो जायते इति जातित्वादिविशिष्टं यद् घटत्वादिकं तदवच्छिन्नस्य घटादेस्तदादिपदावधीनबोधे-तदादिपदेन बोधे जायमाने तादृशबोधांशे-तादृशबोधस्य बुद्धिविषयतावच्छेदकतावच्छेदकत्वोपलक्षितधर्मविशिष्टावच्छिन्नविषयकत्वावगाही यः 'तदादिपदाद् बुद्धिविषयतावच्छेदकतावच्छेदकत्वोपलक्षितधर्मविशिष्टावच्छिन्नविषयको बोधो भवतु ' इत्याकारकः किं वा 'जातिमान् तत्पदादू बोद्रव्यः ' इत्याकारको भगवत्संकेतः स एव प्रयोजकस्तत्रतादृशसंकेते च जातित्वावच्छिन्नघटत्वादिनिष्ठप्रकारताक एव बोधो विषयोस्तीति 'जातिमान् । इल्याकारकबोधकाले अब जातिमानस्ति तमानय ' इत्याकारकवाक्यजन्यजातित्वविशिष्टघटत्या. वच्छिन्नविषयकबोधकाले किं वा ' जातिमान् तत्पदाद् बोव्यः' इत्याकारकोक्तसंकेतज्ञानकाले 'भत्र जातिमानस्ति तमानय' इत्यादिवाक्यबटकतत्पदात् 'घटः ' इत्याकारक: स्वरूपतो घटत्वप्रकारको बोधो न जायते किं तु जातित्वविशिष्टघटत्वप्रकारक एव बोधो जायते- संकेतेन यादशबोधोऽवगाह्यते तादृशसंकेतज्ञानेन तादृशबोधस्यैव संभवादित्यर्थः । 'अत्र जातिमानस्ति तमानय ' इत्यत्र तत्पदेन घटबोधकाले घटे घटस्वं घटत्वे च जातित्वं विशेषणं जातित्वे च बुद्धिविषयतावच्छेदकतावच्छेदकत्वमुपलक्षणम् , बुद्धीति-बुद्धिविषयतावच्छेदकं घटत्वं तच जातिरेवति घटत्वे यजातित्वं तदेव घटत्वनिष्ठबुद्धिविषयतावच्छेदकताया अवच्छेदकं जातित्वे यद् बुद्धिविषयतावच्छदकतावच्छेदकत्वं तदुपलक्षितो धर्मो जातित्वमेव तादृशजातित्वधर्मविशिष्टं घटत्वं तादृशघटत्वावच्छिन्नो घटस्तादृशघटविषयकत्वावगाहीत्यन्वयः । . ननु ‘किंचिद्धर्मप्रकारेण भासमाने धर्मे यद्यवच्छेदकत्वं भासते तदा तद्विशिष्टे एव भासते न तु तदुपलक्षितेपि ' इति नियमोस्ति यथा पशुपदस्थले लोमत्यप्रकारेण भासमानेषु लोमसु गच्छक्यतावच्छेदकल्लं भासले तल्लोमत्वविशिष्टेष्वेव लोमसु भासते न तु लोमत्वोपलक्षिलेषु लोमसु तथा च लोमसु लोमत्वं विशेषगमेव न तूपलक्षणमिति सिद्धम्, एवं बुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने घटत्यादौ यत् तदादिपदशक्यतावच्छेदकत्वं भासते तदपि बुद्धिविषयतावच्छेदकत्वेन विशिष्टे एव भासेत न तु तदुपलक्षिते तथा च घटत्वादी बुद्धिविषयतावच्छेदकत्वं