________________
तत्पदम्.] शक्तिवादः ।
(९७) अथ 'किंचित्प्रकारेण भासमाने धर्मेऽवच्छेदकत्वभाने तद्विशिष्टे एव भासते न तदुपलक्षिते ' इतिनियमः कथमन्यथा स्वरूपतो घटत्वावच्छिन्नाभावस्य न 'जातिमानास्ति' इत्याकारिका प्रतीतिः, एवं च बुद्धिविषयतावच्छेदकत्वोपलक्षिते कथं बोधविषयतावच्छेदकत्वं संकेतेनाऽवगाहनीयमितिचेतू ?,
न-अवच्छेदकताया अवच्छेद्याश्रयविशेषणतापन्ने संसर्गविधया भाने एवं तथाविधनियमात्. अन्यथा 'धूमव्यापकतावच्छेदकरूपावच्छिन्नप्रतियोगिताकाविशेषणमेव स्यात् न तूपलक्षणे तेन च तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकत्वस्य घटत्वादिविशेषणतया नियमेन भानं प्राप्तमिति तदादिपदात् स्वरूपतो घटत्वादिप्रकारकबोधो न स्यादिति सिद्धं तथा च "मैवम्९१" इत्यादिना बुद्धिविषयतावच्छेदकत्वस्य यदुपलक्षणत्वमुक्तं तन्न युक्तमित्याशयेनाशङ्कते--अधेति । उक्तनियमानङ्गीकारे बाधकमाह- कथमन्यथेति, ययुक्तनियमो नस्यातदा घटामावमुद्दिश्य जातिमान्नास्ति' इत्युक्ते जातित्वोपलक्षिते एव घटस्वेऽभावीयप्रतियोगितावच्छेदकत्वं मासेत उपलक्षणस्य च शाब्दबोचे भानं न भवतीति 'जातिमानास्ति' इत्यत्र स्वरूपत एव घटत्वस्य प्रतियोगितावच्छेदकत्वं प्राप्त तथा च ' जातिमान्नास्ति' इत्यत्र खरूपतो घटत्वावच्छिन्नामावस्थ वटत्वात्रच्छिन्न प्रतियोगिताकाभवस्य प्रतीतिः स्यादिति स्वरूपतो घटत्वावच्छिन्नाभावस्य 'जातिमान्नास्ति' इत्या कारापि प्रतीतिः स्यादेव तथा च 'घटो नास्ति' इत्यत्रापि स्वरूपतो घटत्वावच्छिन्नाभावस्य प्रतीतिर्भवतीति ' घटो नास्ति , जातिमानास्ति' इतिवाक्ययोः समानार्थको प्राप्ते घटशून्यपटवति देशे काले च यथा ' घटो नास्ति' इत्याकारा प्रतीतिर्भवति तथा ' जातिमानारित ' इत्यःकारापि प्रतीति स्यादेव न चैवं भवति तत्र विद्यमानस्य पटस्यापि जातिमत्त्वात्, उक्तनियमस्वीकारे तु जानिमान्नास्ति' इत्यत्र जातित्वविशिष्टे एव घटत्वे प्रतियोगितावच्छेदकत्वं भासते इति जातित्वविशिष्टघटत्वावच्छिन्नप्रतियोगिताकाभावस्यैव प्रतीतिसंभवात् स्वरूपतो घटत्वावच्छिन्नाभावस्य 'जातिमान्नास्ति' इत्याकारेण प्रतीतिर्न जायते 'घटो नास्ति ' इत्यत्र च स्वरूपतो घटत्वावच्छिन्नाभावस्य प्रतीतिर्जायते तथा च 'घटो नास्ति । 'जातिमान्नास्ति' इतिवाक्ययोविभिन्नार्थकत्व प्राप्ते घटशून्ये पटवति देशे काले च 'घटो नास्ति' इतिप्रतीतिसंभवेपि ' जातिमान्नास्ति' इतिप्रतीतिर्न संभवति । स्वाभिप्रायमुद्घाटयति-एवं चेति, 'घटत्वादी' इतिशेषः । किं तु बुद्धिविषयतावच्छेदकत्वविशिष्टे एक घटत्वादी बोधविषयतावच्छेदकत्वं संकेतेनावगाहनीयं तथा च घटलादौ बुद्धिविषयतावच्छेदकत्वस्य विशेषणत्वं प्राप्तं न तूपलक्षणत्वं विशेषणलाच तदादिपदजन्यबोधे बुद्धिविषयतावच्छेदकृत्वस्य घटत्वादिप्रकारतया नियमेन मानं स्यादिति तदादिपात् स्वरूपतो घटत्वादिप्रकारकबोधानुपपत्तिरित्यर्थः।
परिहरति-नेति, अवच्छेयं यत् प्रतियोगित्वादिकं तदाश्रयो यो घटादिस्तत्र विशेषणतापने घटत्नादौ यत्रावच्छेदकता संसर्गविधयैव भासते तत्रैव तथाविधः " किंचित्प्रकारेण भासमाने