________________
( ९८ )
सादर्श:
भाववान्' इत्याकारकव्यापकतावच्छेदकत्वोपलक्षितवह्नित्वाद्यवच्छिन्नाभावप्रतीत्यनुपपत्तेः । प्रकृते च ' तत्पदं बुद्धिस्यप्रकारावच्छिन्नविषयताकवोधं जनयतु' इत्याकारकोऽवच्छेद्यावच्छेदकभावप्रकारक एव संकेतोऽङ्गीकार्य इत्यनुपपत्तेरभावात् ।
[ विशेषकाण्डे --.
धर्मे" इत्याकारको नियमः स्वीक्रियते यथा ' जातिमान्नास्ति ' इत्यत्रावच्छेद्यं यत् प्रतियोगित्वं तदाश्रयीभूतघटे विशेषणतापन्ने घटत्वे जातित्वप्रकारेण भासमाने प्रतियोगितावच्छेदकत्वं संसर्गवियैव भासते पदेनानुपस्थितत्वादिति जातित्वप्रकारेण भासमाने घटत्वे यत् प्रतियोगितावच्छेदकत्वं भासते तजातित्वविशिष्टे एव भासते न तु जातित्वोपलक्षिते तथा च जातित्वस्य घटले विशेषणत्वं प्राप्तं न तूपलक्षणत्वम् । विपक्षे बाधकमाह - अन्यथेति, यदि " किंचित्प्रकारेण भासमाने धर्मे " इति नियमः सर्वत्रैव प्रवर्तेत तदा 'दो धूमव्यापकतावच्छेदक रूपावच्छिन्न प्रतियोगिताकाभाववान्' इत्याकारा या धूमत्र्यापकतावच्छेदकत्वोपलक्षितवहित्वावच्छिन्नाभावस्य प्रतीतिर्जायते सा नोपपततो धूमव्यापकतावच्छेदकत्वप्रकारेण भासमाने एवं वह्नित्वं प्रतियोगितावच्छेदकत्वं भासते इत्युक्त नियमेन धूमव्यापकतावच्छेदकत्व विशिष्ट एव वह्निवे प्रतियोगितावच्छेदकत्वं भासेत न तु सदुपलक्षितेपि तथा चोक्तस्थळे धूमव्यापकतावच्छेदकत्व विशिष्टवह्नित्वावच्छिन्नप्रतियोगिताकाभावस्थैव प्रतीतिः स्यान्न तु धूमव्यापकतावच्छेदकत्वोपलक्षितवह्नित्याच च्छिन्न प्रतियोगिताकाभावस्य तथा च धूमव्यापकतावच्छेदकत्वस्य वह्नित्वे विशेषणत्वप्राप्त्या शाब्दबोधे नियमेन मानं स्यादेव न चैवमस्ति किं तुक्तस्थले धूमव्यापकतावच्छेदकत्वोपलक्षितवह्नित्यावच्छिन्नप्रतियोगिताकाभावस्य प्रतीतिर्जायते एव तदुपपत्त्यर्थमुक्तनियमस्योक्तरीत्या संकोचः कर्तव्यस्तथा चावच्छेदकतायाः संसर्गविधया भानस्थले एवोक्तनियमस्वीकारे 'धूमव्यापकतावच्छेद करूपावच्छिन्नप्रतियोगिताकाभाववान्' इत्यत्र प्रतियोगितावच्छेदकता संसर्गविधया न भासते किं तु प्रकारतयैव- पदेनोपपस्थितत्वादित्यत्रोक्त नियमस्य प्रवृत्त्यभावेन धूमव्यापकतावच्छेदकत्वोपलक्षिते एव वह्नित्वे प्रतियोगितावच्छेदकत्वं भासते न तु धूमव्यापकतावच्छेदकत्वविशिष्टे तथा चोक्तस्थले धूमव्यापकतावच्छेदकत्वोपलक्षितत्र द्विश्वावच्छिन्नप्रतियोगिताकाभावप्रतीतेरनुपपत्तिर्नास्तीत्यर्थः । धूमेति-धूमव्यापकता वहौ धूमव्यापकतावच्छेदकरूपं वहित्वं तादृशवह्नित्वावच्छिन्नप्रतियोगिताकाभाववानित्यन्वयः । धूमव्यापकतावच्छेदकत्वस्योपलक्षणत्वाच्छान्दबोधे मानापत्तिरपि नास्ति । उपसंहरति- प्रकृते चेति, प्रकृते = तदादिपदस्थले च 'तत्पदं बुद्धिस्थप्रकारावच्छिन्नविषयताकत्रोधं जनयतु' इत्याकारकोऽवच्छेद्यावच्छेदकभावप्रकारक एव संकेत: स्वीकार्यस्तथा चात्र घटत्वादी या बोधविषयतावच्छेदकतां मासते सा संसर्गविधया न भासते किं तु प्रकारतयैव - पदेनोपस्थितत्वादित्यत्रोक्तनियमस्य प्रवृत्त्यभावेन बुद्धिविषयतावच्छेदकत्वोपलक्षिते एव घटत्वादौ तदादिपदजन्यबोधविषयतावच्छेदकत्वं भासते न तु बुद्धिविषयतावच्छेदकत्वविशिष्टे तथा च बुद्धिविषयतावच्छेदकत्वं घटत्वादावुपलक्षणमेव न विशेषणमिति न तदादिपदजन्यबोधे घटत्वादिप्रकारतया तद्भानापत्तिरिति न तदादि -.