________________
तत्पदम् ]
शक्तिवादः। स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधायुपयोगी शक्तिग्रहः स्वरूपतो घटत्वादिप्रकारक एव, यदा स्वरूपतो यद्धर्मप्रकारकज्ञानसामग्री तदैव स्वरूपतस्तद्धर्मप्रकारेण शक्ति गृहीत्वा स्वरूपतस्तत्प्रकारेण धर्मिणं स्मरत्यानन्तरमऽनुभवति च । पदात् स्वरूपतो घटत्वादिप्रकारकबोधानुपपत्तिरित्यर्थः । बुद्धिस्थेति- बुद्धिस्थप्रकारो घटत्वादिस्तदवच्छिन्नविषयताकबोधमित्यन्वयः । अवच्छेयेति--- अवच्छेद्या बोधविषयता तदवच्छेदकत्वं घटस्वादौ विज्ञेयम् । अवच्छेद्यावच्छेदकभावप्रकारकोक्तसंकेते स्वीकृतेऽवच्छेदकतायाः प्रकारतयैव भानेन संसर्गविधया भानाभावात् तदादिपदस्थले उक्तनियमप्रवृत्त्यभावेन बुद्धिविषयतावच्छेद के त्वस्योपलक्षणत्वमुक्तमुपपन्नमिति भावः । ।
तदादिपदशक्तिस्वरूपमुपपाय संप्रति तदादिपदशक्तिज्ञानमुपपादयति- स्वरूपत इति । स्पष्टीयं ग्रन्थः । ज्ञानसामग्री-शक्तिज्ञानसामग्री । धर्मिणं घटादिकम् । स्मरणमुपस्थितिः । अनुभवः शाब्दबोधः ।
ननु 'बुद्धिविषयतावच्छेदकप्रकारवान् तत्पदशक्यः' इत्येवं बुद्धिवित्रयतावच्छेदकप्रकारकस्तु श-- क्तिग्रहो जायते तादृशशक्तिज्ञानादपि स्मरणशाब्दबोधौ तु घटत्वप्रकारकावेवेष्टौ न तु बुद्धिविषयतावच्छेदकप्रकारको तच्च न संभवति शक्तिज्ञानोपस्थितिशाब्दबोधानां समानप्रकारकत्वनियमादिति, अत्र तार्किकास्तु वदन्ति-- यथानुमितिस्थले 'धूमो वह्निव्यायः' 'धूमवान् पर्वतः' इतिज्ञानद्वयात् पक्षधर्मताबलातः 'वहिव्यायधूमवान् पर्वतः' इत्याकारकं तृतीयं परामर्शात्मकं ज्ञानमुत्पद्यते तथा प्रकृतेपि 'बुद्भिविश्यतावच्छेदकप्रकारवांस्तत्पदशक्यः' 'घटश्च बुद्धिविषयतावच्छेदकप्रकारवान्। इत्याकारकज्ञानद्वयात् पक्षधर्मताबलात् 'घटस्तत्पदशक्यः' इत्याकारकं घटत्वप्रकारकं शक्तिज्ञानं जायते तादृशघटत्वप्रकारशक्तिज्ञानाद् घटत्वप्रकारको स्मरणशाब्दबोधौ नानुपपन्नौ । मीमांसकस्वाह-- यथा 'वहिन्याप्यो धूमः' 'धूमवांश्च पर्वतः' इतिज्ञानद्वयादेवानुमितिजोयते न तु मध्ये तार्किकसंमतम् 'वहिव्यायधूमवान् पर्वतः' इतिपरामर्शात्मकं ज्ञानं जायते तथा प्रकृतेपि 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः' 'घटश्च बुद्धिविषयतावच्छेदकधर्मवान्' इत्याकारकज्ञानद्वयादेव घटत्वप्रकारकस्मरणशाब्दबोधौ संभवत इति मध्ये 'घटस्तत्पदशक्यः' इत्याकारकं तृतीयं ज्ञानं नैवोत्पद्यते किं तु 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः 'घटत्वं च बुद्धिविषयतावच्छेदको धर्मः' किंवा 'घटश्च बुद्धिविषयतावच्छेदकधर्मवान्' इत्याकारकबुद्धिविशिष्टबुद्धया 'घटस्तस्पदशक्यो न वा' 'घटस्तत्पदशक्यो न ' इत्याकारकसंशयविपर्ययोः प्रतिबन्धो भवतीत्यर्थादेव 'घटस्तत्पदशक्यः' इत्याकारकं घटत्वप्रकारकं मानसं शक्तिज्ञानं जायते तदनन्तरं घटत्वप्रकारकस्मरणशाब्दबोधयोन काचिदनुपपत्तिः ।
ननु शाब्दबोधं प्रति शक्तिशानं कारणं शक्तिज्ञानं च व्यवहारदर्शनेन जायते तथा च तदादिपदघटितवाक्याद् घटांदी व्यवहारे दृष्टे तेन व्यवहारदर्शनेन शक्तिमहे जाते घटादिबोधसंभवेषि