________________
(९५)
सादर्श:
[ विशेषकाण्डेयद्यपि घटादिपदसंकेतस्य घटत्वादिविशिष्टविषयकत्ववत् सर्वनामसंकेतेन बुद्धिविषयतावच्छेदकत्वे तत्पदजन्यबोधविषयतावच्छेदकत्वानवगाहनेपि संकेतस्प तद्विशिष्टविषयकत्वमक्षतमेवेति संकेतविषये तद् विशेषणमेव. एवं शक्यविशेषणघटत्वादिनिष्ठे बोधविषयतावच्छेदकत्वरूपबोधविषयतानिष्ठसंकेतायविषयतानिरूपितविषयतारूपशक्यत्वे तदऽवच्छेदकमपि तथापि बोधविषयतया संकेतविषयत्वरूपशक्यतायास्तत्राऽसत्त्वेन शक्ये न तद् विशेषणम्- शक्यत्वे सति तावच्छेदकत्यस्योक्तमुपलक्षणत्वमुपपादयति- यद्यपीत्यादिना । यद्यपि यथा ' घटपदेन घटत्वाचच्छिन्नो बोद्धव्यः' इत्याकारकस्वीकृतघटादिपदभगक्संकेतो घटत्वादिविशिष्टविषयक एव न तु 'घटत्वाग्रुपलक्षितविषयकस्तथा तदादिसर्वनामसंकेतेन बुद्धिविषयतावच्छेदकावे तदादिसर्वनामजन्यबोधविषयतावच्छेदकत्वस्याऽनवगाहनेपि तदादिसर्वनामसंकेतोपि बुद्धिविषयतावच्छेदकत्वविशिष्टविषयक एवेति संकेतविषये घटत्वपटत्यादौ तत्-बुद्धिविषयतावच्छेदकत्वं विशेषणमेव, एवं शक्यं यद् बटादि तद्विशेषणीभूतं यद् घटत्वादि तनिष्ठ यन्छक्यत्वं नादृशे घटत्वादिनि
शक्यत्वे तत्-बुद्धिविषयतावच्छेदकत्वमवच्छेदकमपि नाम घटत्वादिनिष्ठशक्यताया अवच्छेदक-- मपीत्यन्वयः, घटत्वादिनिष्ठशक्यत्वस्य स्वरूपमाह- बोधविषयतेति, बोधविषयतावच्छेदकत्वरूपा या घटत्वादिनिष्टा बोधविषयता तादृशबोधविषयतानिष्ठा या संकेतीयविषयता-संकेतीयप्रकारताख्यविषयता तादृशप्रकारताख्यविषयतानिरूपिता या विषयता-विशेष्यताख्यविषयता तादृशविषयतारूपमेव घटत्वादौ शक्यत्वमस्तीत्यन्वयः, घटत्वादौ या बोधविषयतास्ति सा बोधविषयतावच्छेदकत्वरूपैव विज्ञेया सा च बोधविषयता भगवत्संकेते घटत्यादौ प्रकारतया भासते इति तस्यां संकेतीयप्रकारताख्यविषयता प्राता तादृशप्रकारताख्यविषयतानिरूपिता विशेष्यताख्यविषयता घटत्यादी प्राप्तेत्यर्थः । स्वाभिप्रायमाह- तथापीति, यथा ' घटो बोधविषयो भवतु '' घटत्वादिकं बोधविषयो भवतु ' इत्येवं भगवत्संकेतस्वीकाराद् घटघटत्यादौ बोधविषयत्वेन रूपेण संकेतविषयतारूपा शक्यतास्ति तथा तत्र-बुद्धिविषयतावच्छेदकत्वे बोधविषयतया बोधविषयत्वेन रूपेण संकेतविषयत्वरूपा शक्यता नास्ति- ' बुद्धिविषयतावच्छेदकत्वं तदादिपदजन्यबोधविषयो भवतु ' इत्याकारकभगवत्संकेताभावादिति तृत्-बुद्धिविषयतावच्छेदकत्वं शक्ये घटत्वादौ न विशेषणं किं तुपक्षणमेव । विशेपणत्वाभावे हेतुमाह- शक्यत्व इति, यच्छक्यं सच्छक्यव्यावर्तकं भवति तदेव शक्यविशेषगं भवति यथा घटत्वादिकं बुद्धिविषयतावच्छेदकत्वे च बोधविषयतया संकेतविषयत्वरूपशक्यत्वं नास्तीत्युक्तमेव, एवं घटत्वादौ यथा शक्यघटादिव्यावर्तकत्वमस्ति घटत्वादिरूपेण घटबोधस्य संभवात् तथा बुद्धिविषयतावच्छेदकत्वे शक्यव्यावर्तकत्वमपि नास्ति. बुद्धिविषयतावच्छेदकत्वेन रूपेण सकलबद्वत्वपटत्वादीनां वोधासंभवादिति न शक्ये विशेषणम् , तथा च यथोपलक्षणीभूतस्य शमाश्रयत्वम्याकाश रद जन्यबोधे