________________
तत्पदम् ] शक्तिवादः।
(९३) इयांस्तु विशेषः- तत्र घटत्वलोमत्वादिषु तत्तत्पदजन्यबोधविषयतावच्छेदकत्वं भासते इति तानि विशेषणान्युच्यन्ते. प्रकृते च बुद्धिविषयतावच्छेदकत्वे सर्वनामपदजन्यबोधविषयतावच्छेदकत्वं संकेतेन नावगाह्यतेऽपि तु तादृशविषय. तासामानाधिकरण्यमात्रमिति तदुपलक्षणमिति गीयते । ___ अननुगतहरित्वसिंहत्वादिनिष्ठानां नानार्थहर्यादिपदसंकेतविषयतानामऽनुगतकिंचिद्धर्मावच्छिन्नत्वाभावान्न शक्तरेक्यम्, तत्रोपलक्षणीभूतकिञ्चिद्धर्मप्रकारेणाभासमानस्यैव हरिवादेर्भगवत्संकेतरूपायां शक्तों हांदिपदजन्यबोधविषयतावच्छेदकत्वं भासते इति न नानार्थमात्रोच्छेद इति ।
घटत्वलोमत्वाद्यपेक्षया बुद्धिविषयतावच्छेदकत्वस्य व्यतिरेकमाह- इयांस्त्विति, तत्र घटादिपश्चादिपदस्थले । तत्तत्पदजन्यबोधविषयतावच्छेदकल्वम्-घटादिपश्वादिपदजन्यवोधविषयतावच्छेदकत्वम् । तानि-घटत्वलोमत्वादीनि । प्रकृते तदादिपदस्थले । तादृशविषयतासामाना. धिकरण्यमात्रमतदादिसर्वनामपदजन्यबोधविषयतासामानाधिकरण्यमात्रम् । तत्-बुद्धिविषयतांवच्छेदकत्वम् । वदत्वपटत्वादिषु तदादिसर्वनामपदजन्यबोधविषयताप्यस्ति बुद्धिविषयतावच्छेदकत्वमप्यस्तीति तयोः सामानाधिकरण्यं तादृशसामानाधिकरण्यसत्वेप्यवच्छेद्यावच्छेदकभावो नास्तीति बुद्धिविषयतावच्छेदकत्वमुपलक्षणमेव न विशेषणमित्यन्ययः ।
उपलक्षणैक्येन शक्यैक्ये प्रदर्शितम् (पृ. ८९ , नानार्थमात्रोच्छेदप्रसङ्गं पराकरोति- अननुगतेति, तदादिपदस्थले यथाऽननुगतघटत्वपटत्वादिनिष्ठायाः संकेतविषयताया अवच्छेदकं बुद्विविषयतावच्छेदकत्वमनुगतधर्म उपलभ्यते तथा नानार्थहर्यादिपदस्थलेऽननुगतहारत्वसिंहत्वादि. निष्ठायाः संकेतविषयताया अवच्छेदकोऽनुगतधर्मः कोपि नोपलभ्यते इति न नानार्थपदशक्तेरैक्यं संभवति किं त्वर्थभेदेन शक्तिभेद एवेति नानाशक्तिमत्त्वान्नानार्थत्वं युक्तमेव । तदादिपदजन्यबोधविषयीभूतघटत्वपटत्वाद्यपेक्षया नानार्थहर्यादिपदजन्यबोधविषयीभूतहरित्वादेर्व्यतिरेकमाहतत्रंति, तत्रः-नानार्थहर्यादिपदस्थले हर्यादिपदजन्यबोधविषयतावच्छेदकानां हरित्वसिंहत्वादीनां नानात्वान्नानाशक्तिमत्वं तेन च नानार्थत्वम् । किं वा र्यादिपदजन्यबोधविषयतावच्छेदकत्वस्य नानाहरिस्वसिंहत्वादिधर्मपर्याप्ततया नानाशक्तिमत्त्वम्, तादृशावच्छेदकत्वस्य नानाहरित्वादिधर्मव्यासक्तत्वाभावादेकमात्रधर्मपर्याप्तत्वाभावाच्च न शक्तरेक्यमित्यर्थः । हरित्वादेर्भगवत्संकेतरूपायां शक्तौ यापलक्षणीभूतकिंचिद्धर्मप्रकारेण भासमानस्यैव हर्यादिपदजन्यबोधविषयतावच्छेदकत्वं भा. सेत तदा तादृशोपलक्षणीभूतधर्मस्यैक्येनापि हर्यादिपदशक्तरैक्यं सम्भवेत् न चैवमस्तीत्युक्तम्तत्रेत्यादिना ।
ननु यथा घटादिपदस्थले नानाघटादिव्यक्तिनिष्ठायाः संकेतविषयताया अवच्छेदकत्वेन घटवादेविशेषगत्वं तथा तदादिपदस्थले नानावटत्वपटत्वादिनिष्ठायाः संकेतविषयताया अवच्छेदकत्वेन बुद्धिविषयतावच्छेदकत्वस्यापि विशेषणत्वमेव युक्तं नोपलक्षणत्वमित्याशङ्कय बुद्धिविषय