________________
(९२)
| विशेषकाण्डे
बच्छेदकत्वं भासते. एवं च 'बुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदाद् बो देव्यः' इत्याकारकस्य 'तत्पदं बुद्धिविषयतावच्छेदकरूपावच्छिन्नं बोधयतु' इत्याकारकस्य वा संकेतस्य विषयताया अननुगतघटत्व पटत्वादिनिष्ठाया अप्यऽनुगतस्वमयोगानुकूलवक्तृबुद्धिविषयतावच्छेदकत्वरूपावच्छिन्नतया शक्तेरैक्यम् । घटपटादिपदसंकेतविषयतानां नानाघटादिव्यक्तिनिष्ठानां घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन पश्वादिपदसंकेतविषयतानां प्रकारीभूतनानालोमादिव्यक्तिनिष्ठानां लोमत्वाद्यनुगतधर्मावच्छिन्नत्वेन तत्तत्पदशक्त्यैक्यवत् ।
सादर्श:
पदशक्तेरैक्यमुपपादयति- एवं चेति । अर्थविशेष्य कसंकेतमाह- बुद्धीति, तथा चात्र 'तदादिपदजन्यबुद्धिविपयतावच्छेदकधर्मावच्छिन्नविषयक योधविषयता निष्टप्रकारता निरूपितभगवदिच्छीयविशेष्यतावन्येन तदादिपदविशिष्टो बुद्धिविषयतावच्छेदकधर्मावच्छिन्नो घटादि:' इति शक्तिज्ञानस्वरूपमनुसंधेयम् । पदविशेष्यकसंकेतमाह- तत्पदमिति, अत्र च ' तदादिपद जन्यबोधजनकत्वनिष्टप्रकारता निरूपित भगवदिच्छीयविशेष्यतासंबन्धेन बुद्धिविषयतावच्छेदकधर्मावच्छिन्नविशिष्टं तदादिपदम्' इत्याकारकं शक्तिज्ञानस्वरूप मनुसंधेयम् । उक्तसंकेतविषयता यद्यप्यननुगतघटत्व पटत्वादिनिष्ठैव तथापि सा संकेतविषयता स्वप्रयोगानुकूला=तदादिपदप्रयोगकारणीभूता या वक्तुर्बुद्धिस्तद्विषयतावच्छेदकत्वं यदनुगतं रूपं तदवच्छिन्नास्तीति संकेतविषयतावच्छेदकताया : बुद्धिविषयतावच्छेदकत्वरूपैकधर्मपर्याप्ततया तदादिपदशक्तेरैक्यं शक्तयैवयाच न तदादिपदानां नानार्थत्वापत्ति:- नानाशक्तिमत एव नानार्थत्वस्वीकारादित्यर्थः । तदादिपदशक्तेरैक्ये दृष्टान्तद्वयमाह - घटादिपदेत्यादिना, यथा घटादिपदसंकेतविषयतानां नानाघटादिव्यक्तिनिष्ठत्वेपि घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन घटादिपदशक्तेरैक्यं यथा च पश्वादिपदसंकेतविषयतानां प्रकारीभूतनानालोमादिव्यक्तिनिष्ठत्वेपि लोमत्वाद्यनुगतधर्मावच्छिन्नत्वेन पश्वादिपद - शक्तेक्यं तथा तदादिपदसंकेतविषयतानामपि नानाघटत्व पटत्वादिनिष्टत्वेपि बुद्धिविषयतावच्छेदकत्वरूपानुगतधर्मावच्छिन्नत्वेन तदादिपदशक्तेरैक्यं युक्तमेवेत्यन्वयः । तत्तत्पदशत्तयैक्यवत् = घटादिपश्वादिपदशक्यैक्यवत् । अत्र च घटादिपदेन वटादिव्यक्तिविशेष्यकबोधो जायते तादृशघटादिव्यक्तिवृत्त्येव संकेतविषयतावच्छेदकं घटत्वादिकम् तदादिपदेनापि घटादिव्यक्तिविशेष्यक एव बोधो जायते संकेतविषयतावच्छेदकं बुद्धिविषयतावच्छेदकत्वं च न वटादिवृत्ति किं तु प्रकारीमूतघटत्वादिवृत्तीति वैषम्यमालोच्य पश्वादिपदशक्तिदृष्टान्तमुक्तं पशुपदेन पशुव्यक्तिविशेष्यक एव बोधो जायते तादृशव्यक्तिविशेषणी भूतलोम वृत्तिलोमत्वेनानुगतधर्मेण पश्वादिपदसंकेतविषयताया अवच्छिन्नत्वेन यथा पश्वादिपदशक्तेरैक्यं तथा प्रकृतेपि तदादिपदजन्यबोधविषयीभूतघटादिव्यक्तिविशेषणीभूतघटत्वादिवृत्तिबुद्धिविषयतावच्छेदकत्वेनानुगतधर्मेण तदादिपदसंकेतविषयताया अ नित्येन तदादिपदशक्तेरैक्यमित्यभिप्रायः ।