________________
तत्पदम्.] शक्तिवादः।
(९१) सामान्यलक्षणप्रत्यासात्तिमनङ्गीकुर्वतां पुनरनिष्कृतिरेव-शक्तिमहाविषयस्याऽपूर्वधर्मस्य स्वरूपतः कथमपि भानासंभवातू, न हि बुद्धिविषयतावच्छेदकत्वेन धर्मान्तरविषयकज्ञानं स्वरूपतोऽपरधर्मप्रकारकं ज्ञानं जनयितुं प्रभवति. तथा सति समानप्रकारकत्वनियपस्यापि भङ्गप्रसङ्गादिति ।
मैवम् - भगवत्संकेतरूपायां शक्तौ शक्यतावच्छेदकाभूतघटत्वपटत्वादावुपलक्षणीभूतबुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने तदादिपदजन्यबोधविषयता
शिष्टधर्मप्रकारकमेव स्मरण जायते' ' स्वरूपतस्तद्धर्भप्रकारकसंबन्धिज्ञानात स्वरूपतस्तद्धर्मप्रकारक स्मरणं जायते' इति च नियमो न स्यात्तदा यत् कदाचित् स्वरूपतस्तद्धर्मप्रकारकं स्मरणं जायते कदाचिन धर्मान्तरावच्छिन्नधर्मप्रकारकं स्मरणं जायते तत्र किमपि नियामकं न स्यात्, यदा चोक्तनियमद्रयं स्वीक्रियते तदा तु किंचिद्धर्मविशिष्टधर्मप्रकारकसंबन्धिज्ञाने जाते किंचिद्धर्मविशिष्टधर्मप्रकारकमेव स्मरणं जायते स्वरूपतस्तद्धर्मप्रकारकसंबन्धिज्ञाने जाते च स्वरूपतस्तद्धर्मप्रकारकमेव स्मरण जायते इत्युपपद्यते इत्यर्थः । . सामान्यलक्षणप्रत्यासत्तिस्वीकारपक्षे तदादिसर्वनाम्नां बुद्धिस्थत्वेन रूपेण सकलघटत्वपटत्वा. दिधर्मेषु शक्तिबहसंभवेन तत्तत्स्थले तत्तदऽपूर्वधर्मप्रकारकोपस्थितिशाब्दबोधयोः संभवेपि स्वरूपतस्तत्तद्धर्मप्रकारकोपस्थितिशाब्दबोधौ न संभवत इति “अस्तु बुद्धिस्थत्वेनानुगतधर्मेण" इत्यादिनोपपाद्य सामान्यलक्षणप्रत्यासत्त्यऽस्वीकारपक्षे तु सर्वथाऽनुपरन्तिरेवेत्याह- सामान्येति । किंवा सामान्यलक्षणप्रत्यासत्तिम्वीकारपक्षे बुद्धिस्थत्वविषयकसंस्कारप्रमोषादिरूपेण येन केनाप्युपायेन शक्तिप्रहाविषयस्याप्य पूर्वधर्मस्य स्वरूपता भानसंभवेपि सामान्यक्षलगप्रत्यासत्यस्वीकारपक्षे तु कथमपि न तरसंभव इत्याह-सामान्येति, अनिष्कृतिः अनुपपत्तिरिति यावत् । ननु बुद्धिविषयतावच्छेदकत्वेन रूपेण घटत्वे यत् तदादिपदशक्तिज्ञानं जातं तेन स्वरूपतः पटत्वादिधर्मप्रकारकं स्मरणं भविष्य.. तीत्याशङ्क्याह- न हीति । विपक्षे बाधकमाह- तथा सतीति, यदि बुद्धिविषयतावच्छेदकत्वेन रूपेण धर्मान्तरविषयकं ज्ञानं स्वरूपतोऽपरधर्मप्रकारकं स्मरणं जनयेत्तदा शक्तिज्ञानोपस्थितिशाब्दबोधानां यः समानप्रकारकत्वनियमस्तस्यापि भङ्गः स्यात् न चैतदिष्टमित्यर्थः ।
अथेत्यादिनोपपादितामाशङ्कां तार्किकः स्वमतेन संप्रति परिहरति- मैवमित्यादिना । भगबत्संकेतरूपायां शक्तावुफ्लक्षणीभूतबुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने शक्यतावच्छेदकोभूतघटत्वपटत्यादौ तदादिपदजन्यबोधविषयतावच्छेदकत्वं भासते इत्यन्वयः, तथा च घटस्वपट. वादेरेव तदादिपदजन्यबोधविषयतावच्छेदकत्वाद् बुद्धिविषयतावच्छेदकत्वस्य च घटत्वाद्युपलधणस्वात् तदादिपदेन स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधयोर्न काचिदनुपपत्तिः- उपलक्षणीभूतधर्मस्य भानाऽनियमात्, बुद्धिविषयतावच्छेदकत्वेन रूपेण च सकलघटत्वपटत्वादिधर्मे तदादिपदशक्तिप्रहसंभवेन नापूर्वधर्मप्रकारकस्मरणशाब्दबोधयोरप्यनुपपंत्तिरित्यभिप्रायः । तदादि