________________
सादर्श:
[ विशेषकाण्डेदेकतररूपप्रकारकसंबंधिज्ञानादू अपरतद्रूपेणैव संबन्ध्यन्तरस्मरणम् ' इत्यनुभवस्त था 'याशरूपाभ्यां धर्मिणोः संबन्धग्रहस्तादृशैकधर्मप्रकारकज्ञानात् तादृशापरधर्मप्रकारेणैव धार्मस्मरणम्' इत्यपि तया च यत्र किंचिदिशेषितधर्मप्रकारक संबन्धिज्ञानं तत्राऽविशेषिततद्धर्मप्रकारकस्मरणस्याऽनुभवविरुद्धतया इष्टापत्तेरयोगाद, अन्यथा कदाचित् स्वरूपतस्तत्यकारिका कदाचिद् धर्मान्तरावच्छिन्नतत्यकारिका स्मृतिरित्यत्र नियामकाभावप्रसङ्गात् । हस्तिपकसंबन्धी ' इत्यत्र च हस्तिपकेन सह हस्तिनः स्वरूपतो हस्तित्वप्रकारकसंबन्धस्याग्रहणेन स्वरूपतो हस्तित्वप्रकारकहस्तिज्ञानस्याभावात् कालान्तरे हस्तिपकदर्शनेन हस्तिनः स्वरूपतो हस्तित्वप्रकारकस्मरणं न जायते किं तु जातित्वविशिष्टहस्तित्वप्रकारकमेव. एवम् ' बुद्धिस्थप्रकारवान् तत्पदशक्यः ' इत्यत्र तत्पदेन सह घटस्य बुद्धिस्थत्वविशिष्टघटत्वप्रकारकः संबन्धो गृहीत इति — अत्र घटोस्ति तमानय ' इत्यत्र तत्पदज्ञानेन घटस्य बुद्धिस्थत्वविशिष्टघटत्वप्रकारकावेव स्मरणशाब्दबोधौ संभवतः न तु स्वरूपतो घटत्वप्रकारकावित्यर्थः । ननु बुद्धिस्थत्व. विशिष्टघटत्वादिप्रकारकादपि 'बुद्धिस्थप्रकारवान् तत्पदशक्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ स्यातां तत्रेष्टापत्तिरेत्याशक्यतादृशेष्टापत्तेरसंभवमाह-यथेति. याभ्याम्-अनवच्छिन्नाभ्यां रूपाभ्यां धर्माभ्यां धर्मिणोः परस्परं संबन्धो गृहीतः स्यात् तदेकतररूपप्रकारकात--तदेकतराऽनवच्छिन्नधर्मप्रकारकात् संबन्धिज्ञानाद् अपरतद्रूपेणैवअनवच्छिनापररूपेणैत्र संबन्ध्यन्तरस्मरणं जायते इत्यनुभयो यथा ' हस्ती हस्तिपकसंबन्धी । इत्यत्र धर्मिणोर्हस्तिहस्तिपकयोः स्वरूपत एव हस्तित्वहस्तिपकत्वाभ्यां रूपाभ्यां नाम स्वरूपतो हस्तित्वेन हस्तिपकत्वेन च रूपेण परस्परं संबन्धो गृहीत इति हस्तिपकत्वप्रकारकहस्तिपकज्ञानेन हस्तिनः स्वरूपतो हस्तित्वप्रकारकं स्मरणं जायते न तु किंचिद्धर्मविशिष्टहस्तिस्वप्रकारकं तथा यादशरूपाभ्याम् किंचिद्धर्मावच्छिन्नरूपाभ्यां धर्मिणोः परस्परं संबन्धग्रहस्तादृशैकधर्मप्रकारकज्ञानात किंचिद्धर्मावच्छिन्नधर्मप्रकारकसंबन्धिज्ञानात् तादृशापरधर्मप्रकारेणैव-किंचिद्धर्मावच्छिन्नधर्मप्रकारकमेव धर्मिस्मरणं जायते इत्यप्यनुभवोस्ति यथा 'जातिमान् हस्तिपकसंबन्धी ' इत्यत्र हस्तिप-- केन सह हस्तिनो जातित्वावच्छिन्नहस्तित्वप्रकारकः संबन्धग्रहो जात इति हस्तिपकदर्शनेन हस्तिनों जातित्वावच्छिनहस्तित्त्रप्रकारकमेव स्मरण जायते न तु स्वरूपतो हस्तित्वप्रकारकम् । उपसंहरति- तथा चेति, तथा च 'बुद्धिस्थप्रकारवांस्तत्पदशक्यः ' इत्यत्र बुद्धिस्थत्वविशिष्टघटत्वादिप्रकारकघटादिविशेष्यकशक्तिज्ञाने जाते तादृशशक्तिज्ञानाद् बुद्धिस्थत्वविशिष्टवटत्वादिप्रकारकमेव घटादिस्मरणं संभवति न तु अविशेषिततद्धर्मप्रकारकम् स्वरूपतो घटत्वादिप्रकारकमपीति तत्रे. ष्टापत्तेरप्यसंभव एवेत्यर्थः । " याभ्यां रूपाभ्याम् , “ यादृशरूपाभ्याम्" इत्यायुक्तवाक्ययोः समानार्थकत्वसंभवेप्युक्त एवार्थो विज्ञेयः समानार्थकत्वे एकवाक्यस्य वैयर्थ्यापत्तेः । उक्तानुभवद्वयानङ्गीकारे बाधकमाह--अन्यथेति, यदि ' किंचिद्धर्मविशिष्टधर्मप्रकारकसंबन्धिज्ञानात् किंचिद्धर्मवि