Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 89
________________ (८१) पुष्पवन्तपदम्.] शक्तिवादः। कतापर्याप्तिग्रहस्य हेतुत्वात्, प्रकृते तूभयप्रकारकबोधत्वांशे शक्तिनिरूपकतावच्छेदकत्वपर्याप्त्यभ्युपगमात्. तादृशस्य 'चन्द्रत्वंप्रकारकज्ञाने शक्तम्' इत्यादिज्ञानस्य भ्रमत्वनियमादित्याहुः। ईश्वरेच्छारूपस्य संकेतस्य शक्तित्वमङ्गीकर्तृसिद्धान्तिपक्षे- 'पुष्पवन्तपदाचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकशाब्दबोधो भवतु' इत्याकारक एव तादृशपदे भगवत्संकेतः केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधश्च न तत्पदजन्यत्वेन तद्विषय इति तादृशपदान्न तथाविधो बोधः । न च ताशपदजन्यत्वेन केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधस्य संकेताविषयत्वेपि चन्द्रत्वाद्यवच्छिन्नविषयकबोधविषयकत्वेन संकेतविषयकग्रहस्य चन्द्र वर्तते शक्तिनिरूपकतापि वर्तत इति बोधत्वे शक्तिनिरूपकतावच्छेदकता प्राप्ता तत्र केवलचन्द्रत्वप्रकारबोधस्य चन्द्रपदनिष्टशक्तिनिरूपकतावच्छेदकताया एव पर्याप्तिरस्ति न तु फुपयन्तपदनिष्ठशक्तिनिरूपकतावच्छेदकताया अपीति केवलचन्द्रत्यप्रकारकबोधश्चन्द्रपदादेव संभवति न तु पुष्पवन्तपदादपि, प्रकृते-पुष्पवन्तपदस्थले तूमयप्रकारकबोधत्वांशे-चन्द्रत्वसूर्यत्वोभयप्रकारकबोधावे एव पुष्पचन्तपनिष्ठशक्तिनिरूपकतावच्छेदकतापर्याप्तिरभ्युपगम्यते न तु केवलचन्द्रत्वादिप्रकारकबोधत्वपीति न घुष्पवन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिः यादृशबोधत्वे उक्तपर्याप्तिग्रहस्तादृशबोधस्यैव तेन पदेन स्वीकारादिति । तादृशस्य-उक्तरूपस्य 'पुष्पवन्तपदं चन्द्रावप्रकारकज्ञाने शक्तम्' इत्यादिज्ञानस्य भ्रमत्यनियमादेतादृशभ्रमात्मकशक्तिज्ञानाच्च भ्रमात्मक एवं केवलचन्द्रवप्रकारकबोधः संभवति न प्रमात्मक इत्यर्थः । “इत्याहुः” इत्यस्योक्तेन "ज्ञानशक्तिवादिनः' इत्यनेनान्वयः। पुष्पबन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिमाशङ्कितां संप्रति तर्कमतेन समाधत्ते-- ईश्वरेति । तादृशपदे-पुष्पवन्तपदे विषयत्वं सप्तम्यर्थः । तत्पदजन्यत्वेन पुष्पवन्तपदजन्यत्वेन रूपेण । तद्विषयः पुष्पवन्तपदविषयकभगवत्संकेतविषयः । तादृशपदात्-पुष्पवन्तपदात् । तथाविधः केवलचन्द्रत्वाद्यवच्छिन्नविषयको बोधः । चन्द्रत्वसूर्यत्वोभयप्रकारकस्यैव बोधस्य पुष्पचन्तपदजन्यत्वेन भगवन्संकेतविषयत्वात् पुष्श्वन्तपदादुमयप्रकारक एव बोधो जायते न तु केवलचन्द्रत्वादिप्रकारकोपि तस्य पुष्पवन्तपदजन्यत्वेन भगवत्संकेताऽविषयत्वादिति सारः ।.. ननु केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधस्य तादृशपदजन्यत्वेन=पुष्पबन्तपदजन्यावेन रूपेण भगवत्संकेताऽविषयत्वेपि सूर्यत्वाद्यवच्छिन्नविषयको यो बोधस्तादृशबोधविषयको यः 'पुष्पयन्तपदात् सूर्यत्वाद्यवच्छिन्नविषयको बोधो भवतु ' इत्याकारको भगवत्संकेतस्तादृशसंकेतग्रहादिघटिता या सूर्यत्वाद्यवच्छिन्नविषयकबोधसामग्री तस्यामसत्यामपि चन्द्रत्वादिप्रकारकबोधजनकस्य चन्द्रत्वाद्यवच्छिन्नविषयको यो बोधस्तादृशबोधविषयको य; 'पुष्पधन्तपदाच्चन्द्रत्वाद्यवच्छिन्नवि

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216