Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 100
________________ (९२) | विशेषकाण्डे बच्छेदकत्वं भासते. एवं च 'बुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदाद् बो देव्यः' इत्याकारकस्य 'तत्पदं बुद्धिविषयतावच्छेदकरूपावच्छिन्नं बोधयतु' इत्याकारकस्य वा संकेतस्य विषयताया अननुगतघटत्व पटत्वादिनिष्ठाया अप्यऽनुगतस्वमयोगानुकूलवक्तृबुद्धिविषयतावच्छेदकत्वरूपावच्छिन्नतया शक्तेरैक्यम् । घटपटादिपदसंकेतविषयतानां नानाघटादिव्यक्तिनिष्ठानां घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन पश्वादिपदसंकेतविषयतानां प्रकारीभूतनानालोमादिव्यक्तिनिष्ठानां लोमत्वाद्यनुगतधर्मावच्छिन्नत्वेन तत्तत्पदशक्त्यैक्यवत् । सादर्श: पदशक्तेरैक्यमुपपादयति- एवं चेति । अर्थविशेष्य कसंकेतमाह- बुद्धीति, तथा चात्र 'तदादिपदजन्यबुद्धिविपयतावच्छेदकधर्मावच्छिन्नविषयक योधविषयता निष्टप्रकारता निरूपितभगवदिच्छीयविशेष्यतावन्येन तदादिपदविशिष्टो बुद्धिविषयतावच्छेदकधर्मावच्छिन्नो घटादि:' इति शक्तिज्ञानस्वरूपमनुसंधेयम् । पदविशेष्यकसंकेतमाह- तत्पदमिति, अत्र च ' तदादिपद जन्यबोधजनकत्वनिष्टप्रकारता निरूपित भगवदिच्छीयविशेष्यतासंबन्धेन बुद्धिविषयतावच्छेदकधर्मावच्छिन्नविशिष्टं तदादिपदम्' इत्याकारकं शक्तिज्ञानस्वरूप मनुसंधेयम् । उक्तसंकेतविषयता यद्यप्यननुगतघटत्व पटत्वादिनिष्ठैव तथापि सा संकेतविषयता स्वप्रयोगानुकूला=तदादिपदप्रयोगकारणीभूता या वक्तुर्बुद्धिस्तद्विषयतावच्छेदकत्वं यदनुगतं रूपं तदवच्छिन्नास्तीति संकेतविषयतावच्छेदकताया : बुद्धिविषयतावच्छेदकत्वरूपैकधर्मपर्याप्ततया तदादिपदशक्तेरैक्यं शक्तयैवयाच न तदादिपदानां नानार्थत्वापत्ति:- नानाशक्तिमत एव नानार्थत्वस्वीकारादित्यर्थः । तदादिपदशक्तेरैक्ये दृष्टान्तद्वयमाह - घटादिपदेत्यादिना, यथा घटादिपदसंकेतविषयतानां नानाघटादिव्यक्तिनिष्ठत्वेपि घटत्वाद्यनुगतधर्मावच्छिन्नत्वेन घटादिपदशक्तेरैक्यं यथा च पश्वादिपदसंकेतविषयतानां प्रकारीभूतनानालोमादिव्यक्तिनिष्ठत्वेपि लोमत्वाद्यनुगतधर्मावच्छिन्नत्वेन पश्वादिपद - शक्तेक्यं तथा तदादिपदसंकेतविषयतानामपि नानाघटत्व पटत्वादिनिष्टत्वेपि बुद्धिविषयतावच्छेदकत्वरूपानुगतधर्मावच्छिन्नत्वेन तदादिपदशक्तेरैक्यं युक्तमेवेत्यन्वयः । तत्तत्पदशत्तयैक्यवत् = घटादिपश्वादिपदशक्यैक्यवत् । अत्र च घटादिपदेन वटादिव्यक्तिविशेष्यकबोधो जायते तादृशघटादिव्यक्तिवृत्त्येव संकेतविषयतावच्छेदकं घटत्वादिकम् तदादिपदेनापि घटादिव्यक्तिविशेष्यक एव बोधो जायते संकेतविषयतावच्छेदकं बुद्धिविषयतावच्छेदकत्वं च न वटादिवृत्ति किं तु प्रकारीमूतघटत्वादिवृत्तीति वैषम्यमालोच्य पश्वादिपदशक्तिदृष्टान्तमुक्तं पशुपदेन पशुव्यक्तिविशेष्यक एव बोधो जायते तादृशव्यक्तिविशेषणी भूतलोम वृत्तिलोमत्वेनानुगतधर्मेण पश्वादिपदसंकेतविषयताया अवच्छिन्नत्वेन यथा पश्वादिपदशक्तेरैक्यं तथा प्रकृतेपि तदादिपदजन्यबोधविषयीभूतघटादिव्यक्तिविशेषणीभूतघटत्वादिवृत्तिबुद्धिविषयतावच्छेदकत्वेनानुगतधर्मेण तदादिपदसंकेतविषयताया अ नित्येन तदादिपदशक्तेरैक्यमित्यभिप्रायः ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216