Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 99
________________ तत्पदम्.] शक्तिवादः। (९१) सामान्यलक्षणप्रत्यासात्तिमनङ्गीकुर्वतां पुनरनिष्कृतिरेव-शक्तिमहाविषयस्याऽपूर्वधर्मस्य स्वरूपतः कथमपि भानासंभवातू, न हि बुद्धिविषयतावच्छेदकत्वेन धर्मान्तरविषयकज्ञानं स्वरूपतोऽपरधर्मप्रकारकं ज्ञानं जनयितुं प्रभवति. तथा सति समानप्रकारकत्वनियपस्यापि भङ्गप्रसङ्गादिति । मैवम् - भगवत्संकेतरूपायां शक्तौ शक्यतावच्छेदकाभूतघटत्वपटत्वादावुपलक्षणीभूतबुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने तदादिपदजन्यबोधविषयता शिष्टधर्मप्रकारकमेव स्मरण जायते' ' स्वरूपतस्तद्धर्भप्रकारकसंबन्धिज्ञानात स्वरूपतस्तद्धर्मप्रकारक स्मरणं जायते' इति च नियमो न स्यात्तदा यत् कदाचित् स्वरूपतस्तद्धर्मप्रकारकं स्मरणं जायते कदाचिन धर्मान्तरावच्छिन्नधर्मप्रकारकं स्मरणं जायते तत्र किमपि नियामकं न स्यात्, यदा चोक्तनियमद्रयं स्वीक्रियते तदा तु किंचिद्धर्मविशिष्टधर्मप्रकारकसंबन्धिज्ञाने जाते किंचिद्धर्मविशिष्टधर्मप्रकारकमेव स्मरणं जायते स्वरूपतस्तद्धर्मप्रकारकसंबन्धिज्ञाने जाते च स्वरूपतस्तद्धर्मप्रकारकमेव स्मरण जायते इत्युपपद्यते इत्यर्थः । . सामान्यलक्षणप्रत्यासत्तिस्वीकारपक्षे तदादिसर्वनाम्नां बुद्धिस्थत्वेन रूपेण सकलघटत्वपटत्वा. दिधर्मेषु शक्तिबहसंभवेन तत्तत्स्थले तत्तदऽपूर्वधर्मप्रकारकोपस्थितिशाब्दबोधयोः संभवेपि स्वरूपतस्तत्तद्धर्मप्रकारकोपस्थितिशाब्दबोधौ न संभवत इति “अस्तु बुद्धिस्थत्वेनानुगतधर्मेण" इत्यादिनोपपाद्य सामान्यलक्षणप्रत्यासत्त्यऽस्वीकारपक्षे तु सर्वथाऽनुपरन्तिरेवेत्याह- सामान्येति । किंवा सामान्यलक्षणप्रत्यासत्तिम्वीकारपक्षे बुद्धिस्थत्वविषयकसंस्कारप्रमोषादिरूपेण येन केनाप्युपायेन शक्तिप्रहाविषयस्याप्य पूर्वधर्मस्य स्वरूपता भानसंभवेपि सामान्यक्षलगप्रत्यासत्यस्वीकारपक्षे तु कथमपि न तरसंभव इत्याह-सामान्येति, अनिष्कृतिः अनुपपत्तिरिति यावत् । ननु बुद्धिविषयतावच्छेदकत्वेन रूपेण घटत्वे यत् तदादिपदशक्तिज्ञानं जातं तेन स्वरूपतः पटत्वादिधर्मप्रकारकं स्मरणं भविष्य.. तीत्याशङ्क्याह- न हीति । विपक्षे बाधकमाह- तथा सतीति, यदि बुद्धिविषयतावच्छेदकत्वेन रूपेण धर्मान्तरविषयकं ज्ञानं स्वरूपतोऽपरधर्मप्रकारकं स्मरणं जनयेत्तदा शक्तिज्ञानोपस्थितिशाब्दबोधानां यः समानप्रकारकत्वनियमस्तस्यापि भङ्गः स्यात् न चैतदिष्टमित्यर्थः । अथेत्यादिनोपपादितामाशङ्कां तार्किकः स्वमतेन संप्रति परिहरति- मैवमित्यादिना । भगबत्संकेतरूपायां शक्तावुफ्लक्षणीभूतबुद्धिविषयतावच्छेदकत्वप्रकारेण भासमाने शक्यतावच्छेदकोभूतघटत्वपटत्यादौ तदादिपदजन्यबोधविषयतावच्छेदकत्वं भासते इत्यन्वयः, तथा च घटस्वपट. वादेरेव तदादिपदजन्यबोधविषयतावच्छेदकत्वाद् बुद्धिविषयतावच्छेदकत्वस्य च घटत्वाद्युपलधणस्वात् तदादिपदेन स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधयोर्न काचिदनुपपत्तिः- उपलक्षणीभूतधर्मस्य भानाऽनियमात्, बुद्धिविषयतावच्छेदकत्वेन रूपेण च सकलघटत्वपटत्वादिधर्मे तदादिपदशक्तिप्रहसंभवेन नापूर्वधर्मप्रकारकस्मरणशाब्दबोधयोरप्यनुपपंत्तिरित्यभिप्रायः । तदादि

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216