Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 98
________________ सादर्श: [ विशेषकाण्डेदेकतररूपप्रकारकसंबंधिज्ञानादू अपरतद्रूपेणैव संबन्ध्यन्तरस्मरणम् ' इत्यनुभवस्त था 'याशरूपाभ्यां धर्मिणोः संबन्धग्रहस्तादृशैकधर्मप्रकारकज्ञानात् तादृशापरधर्मप्रकारेणैव धार्मस्मरणम्' इत्यपि तया च यत्र किंचिदिशेषितधर्मप्रकारक संबन्धिज्ञानं तत्राऽविशेषिततद्धर्मप्रकारकस्मरणस्याऽनुभवविरुद्धतया इष्टापत्तेरयोगाद, अन्यथा कदाचित् स्वरूपतस्तत्यकारिका कदाचिद् धर्मान्तरावच्छिन्नतत्यकारिका स्मृतिरित्यत्र नियामकाभावप्रसङ्गात् । हस्तिपकसंबन्धी ' इत्यत्र च हस्तिपकेन सह हस्तिनः स्वरूपतो हस्तित्वप्रकारकसंबन्धस्याग्रहणेन स्वरूपतो हस्तित्वप्रकारकहस्तिज्ञानस्याभावात् कालान्तरे हस्तिपकदर्शनेन हस्तिनः स्वरूपतो हस्तित्वप्रकारकस्मरणं न जायते किं तु जातित्वविशिष्टहस्तित्वप्रकारकमेव. एवम् ' बुद्धिस्थप्रकारवान् तत्पदशक्यः ' इत्यत्र तत्पदेन सह घटस्य बुद्धिस्थत्वविशिष्टघटत्वप्रकारकः संबन्धो गृहीत इति — अत्र घटोस्ति तमानय ' इत्यत्र तत्पदज्ञानेन घटस्य बुद्धिस्थत्वविशिष्टघटत्वप्रकारकावेव स्मरणशाब्दबोधौ संभवतः न तु स्वरूपतो घटत्वप्रकारकावित्यर्थः । ननु बुद्धिस्थत्व. विशिष्टघटत्वादिप्रकारकादपि 'बुद्धिस्थप्रकारवान् तत्पदशक्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ स्यातां तत्रेष्टापत्तिरेत्याशक्यतादृशेष्टापत्तेरसंभवमाह-यथेति. याभ्याम्-अनवच्छिन्नाभ्यां रूपाभ्यां धर्माभ्यां धर्मिणोः परस्परं संबन्धो गृहीतः स्यात् तदेकतररूपप्रकारकात--तदेकतराऽनवच्छिन्नधर्मप्रकारकात् संबन्धिज्ञानाद् अपरतद्रूपेणैवअनवच्छिनापररूपेणैत्र संबन्ध्यन्तरस्मरणं जायते इत्यनुभयो यथा ' हस्ती हस्तिपकसंबन्धी । इत्यत्र धर्मिणोर्हस्तिहस्तिपकयोः स्वरूपत एव हस्तित्वहस्तिपकत्वाभ्यां रूपाभ्यां नाम स्वरूपतो हस्तित्वेन हस्तिपकत्वेन च रूपेण परस्परं संबन्धो गृहीत इति हस्तिपकत्वप्रकारकहस्तिपकज्ञानेन हस्तिनः स्वरूपतो हस्तित्वप्रकारकं स्मरणं जायते न तु किंचिद्धर्मविशिष्टहस्तिस्वप्रकारकं तथा यादशरूपाभ्याम् किंचिद्धर्मावच्छिन्नरूपाभ्यां धर्मिणोः परस्परं संबन्धग्रहस्तादृशैकधर्मप्रकारकज्ञानात किंचिद्धर्मावच्छिन्नधर्मप्रकारकसंबन्धिज्ञानात् तादृशापरधर्मप्रकारेणैव-किंचिद्धर्मावच्छिन्नधर्मप्रकारकमेव धर्मिस्मरणं जायते इत्यप्यनुभवोस्ति यथा 'जातिमान् हस्तिपकसंबन्धी ' इत्यत्र हस्तिप-- केन सह हस्तिनो जातित्वावच्छिन्नहस्तित्वप्रकारकः संबन्धग्रहो जात इति हस्तिपकदर्शनेन हस्तिनों जातित्वावच्छिनहस्तित्त्रप्रकारकमेव स्मरण जायते न तु स्वरूपतो हस्तित्वप्रकारकम् । उपसंहरति- तथा चेति, तथा च 'बुद्धिस्थप्रकारवांस्तत्पदशक्यः ' इत्यत्र बुद्धिस्थत्वविशिष्टघटत्वादिप्रकारकघटादिविशेष्यकशक्तिज्ञाने जाते तादृशशक्तिज्ञानाद् बुद्धिस्थत्वविशिष्टवटत्वादिप्रकारकमेव घटादिस्मरणं संभवति न तु अविशेषिततद्धर्मप्रकारकम् स्वरूपतो घटत्वादिप्रकारकमपीति तत्रे. ष्टापत्तेरप्यसंभव एवेत्यर्थः । " याभ्यां रूपाभ्याम् , “ यादृशरूपाभ्याम्" इत्यायुक्तवाक्ययोः समानार्थकत्वसंभवेप्युक्त एवार्थो विज्ञेयः समानार्थकत्वे एकवाक्यस्य वैयर्थ्यापत्तेः । उक्तानुभवद्वयानङ्गीकारे बाधकमाह--अन्यथेति, यदि ' किंचिद्धर्मविशिष्टधर्मप्रकारकसंबन्धिज्ञानात् किंचिद्धर्मवि

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216