Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 92
________________ ( ८४ ) सादर्श: [ विशेषकाण्डे --. " एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ” इत्यमरकोशे उक्तिपदं शक्तिपरं पुष्पवन्तपदं तत्प्रतिपाद्यपरं तथा च 'सूर्याचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रति-पाद्यौ ' इत्यर्थः । उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वये तात्पर्याञ्चन्द्रत्वसूर्यस्वयोरेकशतयधीनप्रतिपत्तिविषयतावच्छेदकत्वलाभो नातस्तस्मान्नानार्थादिव ताह " कर्ममात्रकारको बोधः- नानार्थे शक्तिभेदेन विशेषादितिलभ्यते । अथ वा ' एकयोक्तया एकोच्चारणेन सूर्याचन्द्रमसौ पुष्पवन्तपदप्रतिपाद्य ' इत्यर्थः तथा च यथा नानार्थस्थले नाssवृत्तिमन्तरेण नानार्थबोधस्तथा न प्रकृते. अत्र शक्तेरेक्येन " सकृदुच्चरितात् सकृदर्थप्रत्यय एव" इत्यस्याऽविषयत्वादितिभावः ॥ काराद् यथा हर्यादिपदस्येत्यर्थः । समाधिः = समाधानम् । अत्र ' पुष्पवन्तपदजन्यचन्द्रत्वावच्छि नविषयक सूर्यत्वावच्छिन्न विषयक बोधविषयतानिष्ठ प्रकारता निरूपित भगवदिच्छीयविशेष्यतासंबन्धेन पुष्पवन्तपदविशिष्टौ चन्द्रसूर्यौ ' इत्याकारकं पदप्रकारकमर्थ विशेष्यकम् पुष्पवन्तपदजन्यबोधजनकत्वनिष्ठप्रकारता निरूपित भगवदिचीयविशेष्यतासंबन्धेन चन्द्रसूर्यवत् पुष्पवन्तपदम् ' इत्याकारकमप्रकारकं पदविशेष्यकं वा शक्तिज्ञानं कारणमित्यनुसंधेयम् । 66 "L पुष्पवन्तपदस्यैकशक्तिकत्वेऽमरकोशं प्रमाणयति - एकयेति । उक्तामरवाक्यं व्याचष्टे - उक्तिपदमिति, तथा च एकयोक्त्या इयनेन ' एकशक्त्या ' इतिलब्धम् । तत्प्रतिपायपरम्= पुष्पवन्तपदप्रतिपाद्य परम्, तथा च पुष्पवन्तौ " इत्यनेन 'पुष्पवन्तपदप्रतिपाद्यौ ' इतिलब्धम् । संकलितवाक्यार्थमाह - तथा चेति । ' उद्देश्यतावच्छेदकावच्छेदेन विधेयस्यान्ययो भवति ! इति नियमस्ति यथा 'शङ्खः पाण्डुर एव' इत्यत्रोद्देस्यः शङ्ख उद्देश्यतावच्छेदकं शङ्खवं तदवच्छेदेन पाण्डुरत्वस्य विधेयस्यान्त्रयो जायते एवम् " सूर्याचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रतिपाद्यौ " इत्यत्रोदेश्य सूर्याचन्द्रमसौ उद्देश्यतावच्छेदके च सूर्यचन्द्रत्वे तदवच्छेदेनैकशक्तया पुष्पवन्तपदप्रतिपाद्यत्वस्य विधेयस्यान्वयो जायते नया च चन्द्रत्वसूर्यवयोरेकशक्त्यधीना या पुष्पवन्तपदजन्या प्रतिपत्ति: बोधस्तदीया या चन्द्रसूर्ययोर्विषयता तादृशविषयतावच्छेदकत लभ्यतेऽतः कारणात् नानार्थादिव यथा नानार्थपदादेकधर्ममात्र प्रकारको बोधो जायते तथा तस्मात् = पुष्पवन्तपदात् तादृशैक धर्ममात्रप्रकारकः केवलचन्द्रत्वादिप्रकारको बोधो न जायते, नानार्थे = नानार्थपदे शक्तिभेदेन = प्रत्येकपदार्थ निरूपिता शक्तिर्भिन्ना भिन्नैव भवतीति विशेषान्नानार्थपदेनैकधर्ममात्र प्रकारको दोधो जायते, पुष्पवन्तपदे तु चन्द्रसूर्योभयनिरूपिता शक्तिरेकैवास्तीति पुष्पवन्तपदाचन्द्रस्य सूर्यवोभयधर्मप्रकारक एव वोधो जायते नेकधर्मप्रकारक इनि लभ्यते । पुष्पवन्तपदशक्तेरेकत्वे च " एकयोक्त्या " इत्यमरवाक्यमपि प्रमाणमित्यर्थः । उक्तामरवाक्यस्यार्थान्तरमाह - अथ वेति । स्वाभिप्रायमाह तथा चेति, " सकृदुच्चरितात् ! पदात् ) सकृदर्थप्रत्ययः " इतिनियमेन यथा नानार्थपदस्यले आवृत्तिम् = पुनरुच्चारणं विना द्वितीयार्थ 27

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216