Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 95
________________ तत्पदम्. ] शक्तिवादः। (८७) सकलधर्मविषयक एवंति नाऽपूर्वधर्मप्रकारेण बोधानुपपत्तिः, सामान्यप्रत्यासत्यइनभ्युपगमे तु शक्तिग्रहविशेष्यतावच्छेदकप्रकाराश्रयस्याऽपूर्वधर्मिणः शक्तिग्रहा. विषयत्वेपि शाब्दबोधे भानवत् शक्तिमहर्मितावच्छेदकतावच्छेदकानुगतरूपाश्रयस्याऽपूर्वधर्मस्यापि शक्तिहविषयतां विना शाब्दबोधे न भानानुपपत्तिःशक्तिधियः शाब्दज्ञानसमानविषयकत्वस्थाऽतन्त्रत्वादिति वाच्यम् , बुद्धिस्थत्वस्य शक्यतावच्छेदकतानवच्छेदकत्वेन शक्यतावच्छेदकानुगमकत्वायोगात्,तदवच्छेदकत्वे च तस्यापि शाब्दबुद्धौ शक्यतावच्छेदकघटत्वादिविशेषणतया नियमतो इति अपूर्वधर्मप्रकारेण यादृशधर्मप्रकारकबोधजनकत्वं तदादिपदे न गृहीतं तादृशापूर्वधर्मप्रकारकबोधस्यानुपपत्ति स्ति- बुद्धिस्थत्वेन रूपेण तादृशधर्मेपि शक्तिप्रहस्य जातत्वादेव, प्राभाकरादिभिः सामान्यप्रत्यासत्तेरस्वीकारे तु शक्तिमहकाले घटत्वेन रूपेण सकलघटानामुपस्थित्यभावेन शक्तिमहाविषयत्वेपि शक्तिज्ञानीया या घटे विशेष्यता तादृशविशेष्यताया योऽवच्छेदकप्रकार:=अवच्छेदको धर्मो घटत्यं तदाश्रयस्याऽपूर्वस्यापि धर्मिणो घटस्य यथा शाब्दबोधे मानं भवति तथा प्रकृते शक्तिमहाविषयत्वेपि शक्तिग्रहधर्मितावच्छेदकं यद् घटत्यादिकं तन्निष्ठा या शक्तिग्रहधर्मितावच्छेदकता तदवच्छेदकं यदनुगतरूपं बुद्धिविषयतावेच्छेदकत्वं बुद्धिस्थत्वं वा तदाश्रयस्याऽपूर्वस्यापि-शक्तिमहाविषयस्यापि घटत्वादिधर्मस्य शाब्दबोधे भानं संभवतीति तादृशापूर्वधर्मप्रकारकशाब्दबोधानुपपत्तिर्नास्ति-- शक्तिधियः शाब्दज्ञानसमानविषयकत्वस्याऽतन्त्रत्वात अनियमात् . यदि शक्तिज्ञानशाब्दबोधयोः समानविषयकत्वनियमः स्यात्तदा शक्तिमहाविषयस्य धर्मस्य धर्मिणो वा शाब्दबोधविषयत्वं न स्यादपि न च समानविषयकत्वनियमोस्ति किं तु समानप्रकारकत्वस्यैव नियमस्तथा च यद्धर्मप्रकारकः शक्तिमहो भवति तद्धर्मप्रकारक एव शाब्दबोधो जायते इति घटत्वप्रकारकशक्तिप्रहे जाते यथा घटत्यप्रकारकोऽपूर्वघटविषयकः शाब्दबोधो जायते तथा प्रकृते बुद्धिस्थत्वप्रकारकतत्पदशक्तिग्रहे जाते बुद्धिस्थत्वप्रकारकेऽपूर्वघटत्वादिविषयकशाब्दबोधेपि न काचिदनुपपत्तिरित्याशङ्कयाह- न चेति । परिहारमाह- बुद्धिस्थत्वस्येति, शक्यतावच्छेदक यद् घटत्वादिक तदनुगमकत्वं बुद्धिस्थत्वस्य यदुक्तं तदेव न संभवति-- शक्यतावच्छेदकताऽनवच्छेदकत्वात् शक्यतावच्छेदकतावच्छेदकस्यैव च शक्यतावच्छेदकघटत्वाद्यनुगमकत्वसंभवादित्यर्थः । ननु बुद्धिस्थत्वस्य शक्यतावच्छेदकतावच्छेदकत्ने को दोषः । इत्याशङ्कचाह- तदवच्छेदकत्वे चेति, बुद्धिस्थत्वस्य सदवच्छेदकत्वे शक्यतावच्छेदकतावच्छेदकत्वे हि तस्य-बुद्धिस्थत्वस्यापि शक्यतावच्छेदकं यद् घटत्वादिकं तद्विशेषणतया तत्पदजन्यशाब्दबोधे नियमेन भानं स्यात् तथा च स्वरूपतो घटत्यादिप्रकारकशाब्दबोधो न स्याद् नाम तत्पदजन्यशाब्दबोधे प्रकारीभूतघटत्वादेः स्वरूपतो भानं न स्यात् किंतु बुद्धिस्थत्वविशिष्टत्वेनैव भानं स्यात् . विशेषणस्य स्वाश्रयप्रकारतया भाननियमेन घटत्वादिविशेषणीभूतबुद्धिस्थत्वस्यापि स्वाश्रयघटत्वादिप्रकारतया भानप्रसङ्गादित्यर्थः । ननु बुद्धिस्थत्वे

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216