Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 93
________________ तत्पदम् ] शक्तिवादः । पुष्पवन्तपदवत् सर्वनामपदानामपि शक्तेरैक्याल नानार्थता | अथ सर्वनामपदेन विशिष्प घटत्वपटत्वादिनैव बुद्धिस्था घटपटादयः प्रत्याय्यन्ते न तु बुद्धिस्थत्वेन- 'अत्र घटोस्ति तमानय' इत्यादिवाक्यजन्यघटकर्म : बोधो न भवति - पदार्थमेदेन शक्तिभेदात् अत एव वृद्धा द्वितीयार्थप्रतिपादनाय नानार्थवाक्यं पुनरुच्चारयन्ति तथा प्रकृते = पुष्पवन्तपदे नास्ति अत्र = पुष्पवन्तपदे उक्तरीत्या शक्तेरैक्येन पुष्पचन्तपदस्य सकृदुच्चरितात् " इत्युक्त नियमाविषयत्वादिति पुष्पवन्तपदात् सकृदुच्चरितादेव चन्द्रसूर्ययोर्बोधो जायते इति सर्वं "" सकृदर्थप्रत्यय एव इत्यस्य ' सकदेवार्थ' प्रत्यय: ' इत्यर्थः ॥ सुस्थम् । ॥ इति पुष्पवन्तपदम् ॥ " (८५) 15 6 भथ ॥ तत्पदम् || संप्रति सर्वनाम्नां शक्तिनिरूपणमारभमाणो मट्टाचार्यः प्रथमं तत्पदशक्ति निरूपयति- पुष्पवन्तपदवदित्यादिना । यथा पुष्पवन्तपदस्य चन्द्रसूर्यलक्षणानेकार्थबोधकत्वेप्युक्तरीत्या न नानार्थता पुष्पवन्तपदे चन्द्रसूर्योमयनिरूपितशक्तेरैक्यात् तथा सर्वनामयत्तदादिपदानामपि घटपटाद्यनेकतत्तत्पदार्थबोधकत्वेपि 'बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नस्तत्पदाहोद्धव्यः' 'तत्पदं बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नं बोधयतु' इत्याकारकस्य वा भगवत्संकेतस्य स्वीकारात् तदादिसर्वनामपदेषु बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ननिरूपिताया: शक्तेरैक्यान नानाता, बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मश्च कचिद् घटत्वादिकं कचित् पटत्वादिकमित्यन्यदेतत् तेषां सर्वेषां बुद्धिविषयतावच्छेदको पलक्षितत्वेनाऽनुगमः । तत्र घटोस्ति तमानय' इत्यत्र बुद्धिविषयता घटे बुद्धिविषयतावच्छेदकं घटत्वं बुद्धिविषयतावच्छेदकत्वं घटने वुद्धिविषयतावच्छेदकव्वोपलक्षितधर्मश्च चटत्वं तदवच्छिन्नो घटस्तद्बोधकत्वं तत्पदे प्राप्तम्, बुद्धिविषयतावच्छेदकत्वं च घटत्वस्योपलक्षणमेव न तु विशेषणम् शाब्दबोधे घटत्वस्य स्वरूपेणैव मानात्. एवमेवान्यत्रापि बोध्यमिति तर्कशास्त्र सिद्धान्तः । ८ शङ्कते -- अथेति, अस्य वक्ष्यमाणेन "मैचम्" इत्यनेनान्वयः । बुद्धिस्थत्वं च बुद्धिविषयतावच्छेदकत्वम् । 'अत्र घटोस्ति तमानय' इत्यादी घटादेर्बुद्धौ वर्तमानत्वेन तत्र वटादौ बुद्धिस्थत्वं प्राप्तम् । यदि तदादिसर्वनाम्ना घटादीनां बुद्धिस्थत्वेनैव रूपेण बोधः स्यान्न तु घटश्वादिरूपेण तदा यथा 'द्रव्यमानय' इत्युक्तेपि 'विशिष्टानयनं घटकर्मकं न वा इतिसंदेहो भवति द्रव्यत्वस्य घटपटाद्यनेकपदार्थसाधारणत्वात् तथा अत्र घटोस्ति तमानय इत्युक्तेषि विशिष्टानयनं घटकर्मकं न चा ' इतिसंदेहः स्यादेव -- बुद्धिस्थत्वस्य घटपटादिसकलपदार्थसाधारणत्वाद् न चैवं श्रोतुः संदेहो भवतीति तदादिसर्वनाम्ना घटादीनां घटत्वा दिरूपेणैव बोधो जन्यते इति प्राप्तं घटत्वादीनां घटाद्यसाधारणत्वेनोक्तसंदेहावकाशाभाचात् तथा च घटत्वादिनानाधर्मावच्छिन्नेषु घटपटादिषु सर्वनामतदादिपदानामेका शक्तिन ,

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216