Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 84
________________ (७६) सादर्शः [विशेयकाण्डे भयत्वावच्छिन्नाभावप्रतीतो घटपटादिरूपप्रतियोगिविषयताया भेदेप्यभावीयविषयताया ऐक्येन समूहालम्बनविलक्षणायामुभयत्वादिधर्मितावच्छेदकतया भासमानघटत्वपटत्वादिषु तादृशाभावप्रतियोगितावच्छेदकत्वपर्याप्तिभानम् ? । ___ एवं च ‘दिवाकरनिशाकरयोः शक्तमेतत्पदम् ' इत्याकोरकशक्तिग्रहे शक्तिविषयताया ऐक्येन समूहालम्बनविलक्षणे उभयत्वधर्मितावच्छेदकतापन्नचन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानमविरुद्धमिति न दोषः। न चैवमुभयाभावप्रतियोगितायामुभयत्वस्येव प्रकृते उभयत्वस्याप्यवच्छेदकन्तरधर्मितावच्छेदकतया धर्मद्वयादेर्भानं तत्रापि विभिन्नधर्मिविशेषणतापन्नेषु ताबद्धर्मेध्येकावच्छेद्यतानिरूपितावच्छेदकतापर्याप्तिन प्रतीयेत तदा 'घटपटौ न स्तः' इत्यत्र घटपटरूपप्रतियोगिनोविषयताया भेदेप्यभावीयविषयताया ऐक्येन 'घटो नास्ति' 'पटो नास्ति' इत्याकारकसमूहालम्बनात्मकप्रतीत्यपेक्षया वैलक्षण्यमस्ति-उक्तसमूहालम्बनात्मकप्रतीतावऽभावीयविषयताया अप्यैक्याभावात् तथा च समूहालम्बनविलक्षणायाम् 'घटपटौ न स्तः' इत्याकारकोभयत्वाव. च्छिन्नाभावप्रतीतो नाम घटत्वएटत्योभयधर्मावच्छिन्नप्रतियोगिताकाभावप्रतीतौ उभयत्वरूपधर्मनिरूपिता या घटपटोभयनिष्ठा धर्मिता तादृशधर्मितावच्छेदकतया भासमानयोर्घटत्व स्टत्वयोस्तादृशामावप्रतियोगितावच्छेदकत्वस्य-उभयत्वावच्छिन्नाभावप्रतियोगितावच्छेदकत्वस्य पर्याप्तिन भासेत न चैवमस्ति तथा च यथा 'घटपटौ न स्तः' इत्यत्र घटत्वपटत्वयोवटपटरूपविभिन्नधर्मिविशेषणतापन्नयोरप्यऽभावीयप्रतियोगितावच्छेदकत्वस्य पर्याप्तिर्मासते तयोरुभयत्वधर्मिताबच्छेदकतया भासमानत्वात् तथा 'दिवाकरनिशाकरशक्तं पुष्पवन्तपदम्' इत्याकारकशक्तिप्रहेपि चन्द्रसूर्यरूपविभिन्नधर्मिविशेषणतापन्नयोरपि चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतापयाप्तर्भानं युक्त मेव- अत्र चन्द्रत्वसूर्यध्वयोरप्युभयत्वधर्मितावच्छेदकतया भासमानत्वादिति न शक्तिभेदापत्तिर्न चकधर्मप्रकारकशाब्दबोधापत्तिवेत्यर्थः । उपसंहरति-एवं चेति । एतत्पदम्-पुष्पवन्तपदम् । 'दिवाकरशक्तं तत्पदम् । 'निशाकरशक्तं तत्पदम् ' इत्याकारकसमूहालम्बनात्मकशक्तिग्रहे तु शक्तिविषयताया ऐक्यं न भवति दिवाकरनिरूपितशक्तिविषयताया भिन्नत्वान्निशाकरनिरूपितशक्तिविषयतायाश्च पदनिष्ठाया भिन्नस्वात, 'दिवाकरनिशाकरयोः शक्तं पुष्पबन्तपदम् ' इत्याकारकविशिष्टशक्तिआहे तु दिवाकरनिशाकरोभयनिरूपितकैव शक्तिविषयता पुष्पवन्तपदे प्राप्तेति समूहालम्बनविलक्षणे विशिष्टशक्तिअहे उभयत्वधर्मनिरूपिता या चन्द्रसूर्योभयनिष्ठा धर्मिता तादृशधर्मिताया अवच्छेदकतापन्नयोश्चन्द्रल्यसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानं न विरुद्धमित्यन्वयः । ननु यदि चन्द्रत्वसूर्यत्वयोरत्रोभयत्वधर्मितावच्छेदकत्वं स्त्री क्रियते तदा यथा ' घटपदी न स्तः । इत्यत्रोभयत्वस्याप्युभयाभावप्रतियोगितावच्छेदकत्वमस्ति तथा प्रकृतेपि-पुष्पवन्तपदस्थलेप्युभयत्वस्याऽवच्छेदकंकोटिप्रवेशप्रसङ्गः शक्यतावच्छेदकावं स्यादित्याशङ्कयाह- न चैवमिति ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216