Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 82
________________ सादर्श: [विशेषकाण्डेदिप्रकारकबोधे केवलतद्धमें शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य हेतुत्वात, चन्द्रत्वसूर्यत्वोभयांशे शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य चोभयप्रकारकबुद्धित्वं कार्यतावच्छेदकम्. अतस्तादृशशक्तिज्ञानाञ्चन्द्रत्वाद्यवच्छिन्नाऽन्वयबोधौपयिकयोग्यताज्ञानाद्यसत्त्वे न सूर्यत्वाधवच्छिन्नान्वयबोधप्रसङ्गः । नानार्थपदाच्च प्रत्येकधर्मावच्छिन्नस्यापि प्रतीत्या तत्र प्रत्येकमेवाऽवच्छेदकतापर्याप्ते खश्योपगन्तव्यतया शक्यतावच्छेदकताभेदेन शक्तिभेदः। __ अथाऽवच्छेदकताग्राहकमाने कर्मिनिष्ठुकविशेष्यतानिरूपितविशेषणतापनेब्वेव नानाधर्मेष्यवच्छेदकत्वपर्याप्तिप्यतेऽतो 'महानसीयो नास्ति' 'वहिर्नास्ति' इत्याकारकं महानसीयत्ववद्वित्वादिविशेषणपुरस्कारेण पृथक् पृथक् प्रतियोगिकेवलसूर्यत्वादिप्रकारकबोधहेतुभूतस्य शक्तिज्ञानस्य स्वरूपमाह-केवलेति, केवलसूयत्वादिप्रकारकबोधं प्रति केवलतद्ध, एकस्मिन्नेव सूर्यत्वादिधर्मे शक्यतावच्छेदकतापर्याप्त्यवगाहि यच्छक्तिज्ञानं तस्यैव हेतुत्वमस्ति यथा सूर्यपदशक्तिज्ञानं केवलसूर्यत्वे एव शक्यतावच्छेदकतापर्याप्तिमवगाहते इति ताशशक्तिज्ञानेन सूर्यपदात् केवलसूर्यत्वप्रकारको बोधो जायते इत्यर्थः । केवलसूर्यत्वादिप्रकारकबोधहेतुभूतोक्तशक्तिज्ञानापेक्षया पुष्पवन्तपदशक्तिज्ञानस्य विशेषमाह-चन्द्रत्वेति, पुष्पवन्तपद शक्तिज्ञानं च चन्द्रयसूर्यत्वयोरुभयोरेवैकां शक्यतावच्छेदकतापर्याप्तिमवगाहते इति चन्द्रत्वसूर्यत्वोभयप्रकारक एव बोधस्तस्य कार्यमस्तीति तादृशशक्तिज्ञानात् चन्द्रत्वसूयत्वोभयांशे शक्यतावच्छेदकतापर्याप्त्यवमाहिशक्तिज्ञानात् चन्द्रत्वाद्यवच्छिन्नान्वयबोधौषयिकयोग्यताज्ञानाद्यसत्त्वे चन्द्रादिविषयकशाब्दबोधहेतुभूतयोग्यताज्ञानाद्यसत्त्वे न केवलसूर्यादिविषयकशाब्दबोधप्रसङ्गोस्तीत्यर्थः । पुष्पवन्तपदान्नानार्थपदानां विशेषमाह-नानार्थति, नानार्थाद् हर्यादिपदाच प्रत्येकधर्मावच्छिन्नस्यापि केवलविष्ण्वादेरपि प्रतीत्या-बोधात् तत्र नानार्थपदस्थले प्रत्येकमेव कपलविष्णुत्वादावेत. शायना छेदकतापर्याप्तरभ्युपगन्तव्यतया : विष्णुत्वादिशक्यतावच्छेदकनिष्ठशक्यतावच्छेदकतानां भेदेन शक्तिभेदः शक्तिभेदाच नानार्थत्वं सिद्धमित्यर्थः ।। ननु चन्द्रत्वसूर्यत्वयोरुभयोरेकशक्यतावच्छेदकतापर्याप्तिरवोक्ता न संभवति येन पुष्पवन्तपदस्थले शक्तिभेदो न स्याद् यतोऽवच्छेदकताप्राहकमानम् अवच्छेदकतासाधकमानमभावादिप्रतीतिरेव तया होकर्मिनिष्ठा यैका विशेष्यता तादृशविशेष्यतानिरूपितविशेषणतां प्राप्तेष्वेव नानाधर्मेध्ववच्छेदकत्वपर्याप्तिगृह्यते यथा 'महानसीयवह्निर्नास्ति' इत्यत्र महानसीयवहिरूपो य एको धर्मी विशेष्यस्तन्निष्ठा । विशेष्यताप्येकैवेति तादृशैकविशेष्यतानिरूपितविशेषणतां प्राप्तयोमहानसीयत्ववह्नित्वयोरभावीयप्रतियोगितावच्छेदकत्वस्य पर्याप्तिर्गृह्यते न तु नानाधर्मिनिष्ठनानाविशेष्यतानिरूपितविशेषणतापन्नेष्वपि नानाधर्मेषु अत एव 'महानसीयो नास्ति' 'वहिर्नास्ति' इत्याकारकं समूहालम्बनात्मकं महानसीयत्वविशेषणपुरस्कारेण पृथग् जायमानं वह्नित्वविशेषणपुरस्कारेण च पृथग् नायमानं प्रतियोगिविषयकं ज्ञानं महानसीयत्ववह्नित्वयोरुभयोः पर्याप्ता

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216