Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 81
________________ 'पुष्पवन्तपदम् , ] शक्तिवादः। पदवन्नानार्थत्वग्रहदशायां भ्रान्तस्य केवल सूर्यत्वादिप्रकारकबोधस्याप्युत्पत्तेः । एवं तत्पदस्य हर्यादिपदवन्नानाधर्मावच्छिन्नवाचकतया नानार्थत्वप्रसङ्गोपि दुर्वारः । न चार्थद्वये तस्यैकस्या एव शक्तरुपगमान नानार्थता- नानाशक्तिमत एक नानार्थत्वोपगमादिति वाच्यम्, शक्यतावच्छेदकभेदेन शक्तिभेदस्यावश्यकत्वाद् अवच्छेदकभेदस्यावच्छेद्यभेदनियतत्वात्,अन्यथा हर्यादिपदेष्वपि शक्त्यैक्यापत्तेः। ___ अत्र शक्त्याख्यपदपदार्थसंबन्धान्तरवादिमीमांसकानुयायिनः-यथा धानकर्मत्वगोत्वादिरूपशक्यतावच्छेदकभेदेपि धेन्वादिपदानां न शक्तिभेदः-अवच्छेदकताया व्यासज्यवृत्तित्वात तथा प्रकृतेपि चन्द्रत्वसूर्यत्वयोर्यासज्यवृत्तिशक्यताव. च्छेदकतास्वीकारान्न शक्तिभेदो न वैकं परित्यज्याऽन्यप्रतीतिः । केवलमूर्यत्वापुष्पबन्तपदात् केवलसूर्यादिविषयकबोधो भ्रान्तस्य स्यादेवेत्यर्थः । यद्यपि भ्रान्तस्यात्र केवलसूर्यत्वादिप्रकारकबोधो नेष्टस्तथापि पूर्वपक्षग्रन्थोयमित्यनुसंधेयम् । एवमिति- तत्पदस्प= पुष्पबन्तपदस्य । ननु हर्यादिपदानां तु प्रत्येकस्मिन् विष्वाद्यर्थे पृथक् पृथगेव शक्तिरस्तीति युक्तं तेषां नानाथत्वं तस्य-पुष्यवन्तपदस्य त्वर्थद्रये चन्द्रसूर्ययोरेकैच शक्तिरिति कथं नानार्थत्वं स्यादित्याशङ्क्याह--न चेति । परिहारहेतुमाह--शक्यतेति, चन्द्रवसूर्यत्वयोः शक्यतावच्छेदकयोर्यदा भेदोस्ति तदा शक्तिभेदोप्यावश्यक एव । ननु शक्यतावच्छेदभेदेपि शक्तयैक्ये को दोष इत्याशक्याहअवच्छेदकेति- अवच्छेयायाः शक्तेर्भेदे सत्येव शक्यतावच्छेदकभेदः संभवति अस्ति चात्र चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकयोर्भेद इति शक्तिभेदोप्यावश्यक एव तथा च नानार्थत्वप्रसङ्गो दुर्वार एवेत्यर्थः । विपक्षे बाधकमाह--अन्यथेति, यदि शक्यतावच्छेदकभेदेपि शक्तिभेदो न स्यात्तदा विष्णुत्वादिरूपशक्यतावच्छेदकानां भेदेपि हर्यादिपदशक्ते दो न स्यात् तेन च हर्यादिपदानां नानार्थत्वमपि न स्यादित्यर्थः । __ अथेत्यादिना प्रदर्शिताशङ्का मीमांसकमतेन प्रथमं समाधत्ते–अत्रेत्यादिना : “ शक्तयाख्यपदपदार्थसंबन्धान्तर' इत्यत्र 'पदपदार्थसंबन्धाख्यपदार्थान्तरशक्ति' इत्येवं पाठो युक्तः, मीमांसकमते वाच्यवा चकभावसंबन्धस्यैव शक्तित्वस्वीकारात् शक्तिमात्रस्य पदार्थान्तरत्वस्वीकारादिति । यथेति-अत्र धानकर्मत्वगोत्वयोरुभयोरेव धेनुपदशक्यतावच्छेदकत्वं प्राप्त पूर्व च प्राभाकरमतेन धानकर्मत्वस्यैव तर्कमतेन च गोत्वस्यैव शक्यतावच्छेदकत्वमुक्तं न तूभयोरपीति पूर्वापरविरोधःप्राप्त इत्यत्रैकशक्तिज्ञानजन्योपस्थितिविषयत्वरूपमेव शक्यतावच्छेदकत्वं विज्ञेयम् अस्ति च धेनुपदजन्योपस्थितौ धानकर्मत्वगोत्वयोरुभयोर्मासमानत्वम् , एकस्यावच्छेदकतयाऽपरस्योपाधित्वेन भानं भवतीत्यन्यदेतत् । व्यासज्यवृत्तित्वादिति-धानकर्मत्वगोत्वोभयव्यासक्तत्वादित्यर्थः । प्रकृते-पुष्पचन्तपदस्थलेपि चन्द्रत्वसूर्यत्वयोरुभयोरेव व्यासक्तैवैका शक्यतावच्छेदकता स्वीक्रियते न तु प्रत्येकपर्याप्तेति न शक्तिभेदो येन नानार्थत्वं वा स्यात् केवलसूर्यत्वादिप्रकारकबोधो वा स्यादित्यर्थः ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216