Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 79
________________ धेनुपदम् ] शक्तिवादः । कथमप्यसंभवात् तथापि गोनिष्ठधानकर्मताव्यक्तीनामनतिप्रसक्तानुगतरूपाभावान्न शक्यत्वसंभवः । ( ७१ ) न च सामानाधिकरण्यसंबन्धेन गोत्वमेव धानकर्मत्वसहितं धानकर्मत्वविशेपाणामनुगमकमिति वाच्यम्, अशक्येन शक्यानुगमे सर्वत्रैव विशेषणे शक्त्युच्छेदप्रसङ्गात् । अतिप्रसक्तेनापि धानकर्मतात्वेन विशिष्टे धानकर्मताविशेषे शक्तिग्रहोपगमे लाघवाद् गोत्वविशिष्टे एव गोविशेषे शक्तिर्धानकर्मत्वमेव शक्त्युपाधिरित्येवोचितम् | अननुगतेन तत्तदानकर्मतात्वेन शक्तिप्रहोपगमे चाऽपूर्वव्यक्त्य लाभप्रसङ्ग इत्यनुपपत्तिश्चिन्त्या ॥ अपि संभवाभावात् तादृशं गौरवं च मीमांसकैरीश्वरस्वीकारगौरवमयेनेष्टापत्त्या स्वीकृतमिति न बाधकम् = बाधकत्वेन दोषत्वेन वा प्रदर्शयितुं युक्तं तथापि गोनिष्ठधानकर्मताव्यक्तीनामनतिप्रसक्तानुगतरूपाभावाच्छक्यत्वं न संभवति:- अनतिप्रसक्तानुगतरूपे सत्येव शक्यत्वसंभवाद् यथा गोव्यक्तीनां गोत्वं गोत्वस्य च गोत्वत्वमनतिप्रसक्तानुगतरूपमस्तीति गोव्यक्तीनां गोत्वस्य च गोपदशक्यत्वम् । धानकर्मतात्वं च महिष्यादिवृत्तिधानकर्मताव्यक्तिष्वप्यस्तीव्यऽतिप्रसक्तमेवेति न धानकर्मतात्वेनापि गोनिष्ठधानकर्मतानामनुगमः संभवति येन धेनुपदक्यत्वं स्यादित्यर्थः । ननु सामानाधिकरण्यसंबन्धेन धानकर्मत्वसहितं नाम धानकर्मत्वसमानाधिकरणं गोraha मानकर्मत्व विशेषाणाम् - गोनिष्ठधानकर्मताव्यक्तीनामनुगमकं भविष्यति - धानकर्म त्यसमानाधिकरणगोत्वस्यानुगतत्वादनतिप्रसक्तत्वाच्च तथा च गोनिष्ठधानकर्मताव्यक्तीनां न धेनुपदशक्यत्वानुपपत्तिरित्याशङ्कयाह - न चेति, तत्र मते धेनुपदशक्यत्वं गोवे नास्ति तत्र यदि धेनुपदाशक्येनापि गोत्वेन धेनुपदशक्यानां धानकर्मत्वानामनुगमः स्यात्तदा सर्वत्रैवाशक्पेनापि घटत्वादिना घटादिपदशक्यघटादिव्यक्तीनामनुगमः स्यादिति विशेषणे घटत्वादो घटादिपदशक्तिस्वीकारो पर्थ एव स्यात् न चैवमस्तीति न धानकर्मत्वसमानाधिकरणगोत्वेनापि गोनिष्ठधानकर्मत्वानामनुगमः संभवति येन धेनुपदशक्यत्वं स्यादित्यर्थः । धानकर्मतात्वं च महिष्यादिवृत्तिधानकर्मतासु वृत्तित्वादतिप्रसक्तमेव तंत्र यद्यतिप्रसक्तेनापि धानकर्मतात्वेनानुगमाद् धानकर्मतात्वविशिष्टे मानकर्मताविशेषे = गोनिष्ठधानकर्मतासु धेनुपदशक्तिग्रहः स्वीक्रियते तदा लाघवाद गोरखवि -. शिष्टे एव गोविशेषेधानकर्मत्वो पल क्षितगोव्यक्तिषु धेनुपदशक्तिर्धानकर्मस्वमेव शक्त्युपाधिरित्येमोचितमित्याह- अतिप्रसक्तेनति । लाघवं च गोत्वस्यैकत्वप्रयुक्तम् । धानकर्मत्वस्य शक्त्युपाधि-. वेन न धेनुपदाद् वृषभादिबोधापत्तिरपि । ननु धानकर्मतात्वमपि स्वाश्रयतत्तद्धानकर्मता व्यक्तिमेदेन भिन्नं भिन्नमेव न सकलधानकर्मताव्यक्तिवृत्त्येकं येनातिप्रसक्तं स्यादित्याशङ्क्याह- अननुलतेनेति, एवं हि तत्तद्वानकर्मतात्वमननुगतमेव स्याद् अननुगतेन च तत्तद्दानकर्मतान तिचदानकर्मतासु धेनुपदशक्तिमहोपगमे ह्यपूर्वव्यक्तेः यस्यां धानकर्मताव्यक्तौ शक्तिग्रहो न •

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216