Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 59
________________ काण्डम् .] शक्तिवादः । शायां घटादिपदाच्छाब्दवोधानुपपत्तिः, तथा च केन रूपेण शक्तिधियो हेतुता?। अत्रोच्यते-तत्सम्बन्धेन तद्धर्मप्रकारकशाब्दबोधे तत्संबन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकस्वजन्यबोधविषयत्वप्रकारतानिरूपितेच्छाविशेष्यतात्वावच्छिन्न. संसर्गकतत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठमितावच्छेदकताकपदप्रकारकज्ञानत्वेन विषयताविशेषसंसर्गकाऽर्थविशेष्यकशक्तिज्ञानस्य हेतुता, ईदृशशक्तिग्रहे च संबच्छाब्दवोत्रानुपपत्तिः, तथा च तत्र-शाब्दबोधे=शाब्दबोधं प्रति शक्तिज्ञानस्य केन रूपेण हेतुतेत्यन्वयः । समवायस्य नित्यसंबन्धत्वं तार्किक एव जानातीति तार्किकातिरिक्तस्य नित्यसंबन्धस्वरूपेण समवायोपस्थितिरेव न संभवतीति भावः । समवायनिष्ठया विशेष्यतयापि सावच्छिन्नयैव भवितव्यं पदविशेष्यकशत्तिज्ञाने तु समवायः प्रकारतयैव भासते प्रकारता च जात्यखण्डोपाधिनिष्ट्रवाऽनवच्छिन्ना भवति समवायश्च न जातिवारखण्डोपाधिरिति समवायनिष्ठप्रकारतयापि सावच्छिन्नयैव भवितव्यमिति समवायस्य स्वरूपतः प्रकारत्वासंभवः प्रदर्शितः । घटपदे समवाय. वाचकतास्त्येवेति घटपदविशेष्यकं समवायभानप्रयोजकं शक्तिज्ञानं समवयवाचकताप्रकारक विज्ञेयम् ,समवायस्य प्रकारत्वं च वाचकतायां विज्ञेयम् । .. अर्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुतामाश्रित्य समाधत्ते- अत्रोच्यत इत्यादिना ! तसंबन्धन-व्यथा समवायसंबन्धेन तमप्रकारकशाब्दबोधे-घटत्वादिधर्मप्रकारकघटादिविशेष्यकशाब्दबोधं प्रति तत्संबन्धावच्छिन्ना=समवायसंबन्धावच्छिन्ना या तद्धर्मनिष्ठा घटत्वादिधर्मनिष्ठाऽवच्छेदकता बोधविषयतावच्छेदकता तादृशावच्छेदकताको यः स्वजन्यः घटादिपदजन्यो बोधस्तादृशबोधस्य घटादौ यद्विषयत्वं तादृशबोधविषयत्वनिष्टा या प्रकारता तादृशप्रकारतानिरूपिता या विशेष्यतात्वावच्छिन्ना भगवदिन्छीयविशेष्यता तादृशविशेष्यतासंसर्गकं तथा तत्संबन्धावच्छिन्नासमवायसंबन्धावच्छिन्ना या तद्धर्मनिष्ठा-घटत्वादिधर्मनिष्ठा धर्मितावच्छेदकता (विशेष्यतावच्छेदकता ) तादृशधर्मितावच्छेदकताकं यत् पदप्रकारकं 'उक्तविशेष्यतासंबन्धेन घटपदविशिष्टो घटः' इत्याकारकं ज्ञानम् =अर्थविशेष्यकशक्तिज्ञानं तादृशज्ञानत्वेन रूपेण विषयनाविशेषसंसर्गकस्य भगवदिच्छीयविशेष्यतासंसर्गकस्यार्थविशेष्यकशक्तिज्ञानस्य हेतुता स्त्रीक्रियते इत्यन्वयः, उक्तपदप्रकारकस्य विषयताविशेषसंसर्ग कार्थविशेष्यकशक्तिज्ञानस्य हेतुतेत्यर्थः। तत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकतत्पदजन्यबोधविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतासम्बन्धेन घटपदविशिष्टो घटः' इत्येवं शक्तिज्ञानस्वरूप वक्तव्यम, घटे उक्तविशेष्यताऽस्तीति तादृशविशेष्यतासम्बन्धन घटो घट्पदविशिष्टो विज्ञेयः । विष नाविशेषसंसर्गकार्थविशेष्यकशक्तिज्ञानस्य हेतुता स्वीकृता तादृशशक्तिज्ञानस्य स्वरूपं च तत्सम्बन्धविच्छिन्नत्यादिना प्रदर्शितम् । अर्थविशेष्यकशक्तिज्ञाने पदमर्थे विषयताविशेपेम-भावदिन्छीयविशेष्यतासम्बन्धेन प्रकारो भवतीति तादृशशक्तिज्ञानं विषयताविशेषसंसर्गकं विज्ञेयम् । एतदभिप्रायेणैव स्वरूपवाक्ये विशेष्यतात्वावच्छिन्नसंसर्गकेत्युक्तम् । समवायस्य समवायत्वेनोपस्थितेरपेक्षाभावमाह-दृशेति, ईदृशशक्तिहे

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216