________________
काण्डम् . ] शक्तिवादः ।
(१९) यत्वानुपगमे तदुपरागेण 'शृणोमि' इत्यनुव्यवसायानुपपत्तिरितिवाच्यम्, इष्टत्वाद् विधेयोपरागेणैव तथाप्रत्ययात्, लक्ष्यार्थस्य शाब्दबोधविषयत्वेपि तस्य विधेयतया भानानभ्युपगमात् "विधौ न परः शब्दार्थः" इति सिद्धान्तादितिचेत ?
न-'मश्चाः कोशन्ति' इत्यादी लक्ष्यार्थमश्वस्थपुरुषादेः शाब्दबोधविषयताया आवश्यकत्वात्. अन्यथा पूर्वाननुभूतस्य पुरुषादेः प्रतीत्यनिर्वाहात्. अननुभूतस्प स्मरणासम्भवात् । समानप्रकारकत्वमात्रेण शाब्दबोधपदार्थोपस्थित्योः कार्य
विषयकत्वेन ( लक्ष्यार्थप्रकारत्वेन वा ) 'शृणोमि तीरं शृणोमि' इत्यायनुव्यवसायो न स्यात्, अनुव्यवसायस्य स्मृतिरूपत्वात् स्मृतेश्चानुभूतार्थविषयकस्वनियमात्, 'शृणोमि' इति च शाब्दोनुव्यवसायः शाब्दानुभवविषयविषयक एव सम्भवति लक्ष्यार्थस्य च त्वया शाब्दबोधविषयत्वं न स्वीक्रियते इति तद्विषयकानुव्यवसायानुपपत्तिरित्याशझ्याह-न चेति, उक्ते इष्टापत्तिमाह-इष्टस्वादिति, लक्ष्यार्थविषयकानुव्यवसाय एव न स्वीक्रियते येन तदनुपपत्तिर्दोषः स्यादित्यर्थः । उक्त हेतुमाह--विधेयेति, विधेयोपरागेण विधेयविषयकत्वेन, तथाप्रत्ययात् अनुव्यवसायविषय. ताप्रत्ययात्, विधेयस्यैवानुव्यवसायो भवतीत्यर्थः । स्वाभिप्रायमुद्घाटयति-लक्ष्यार्थस्येति, लक्ष्यार्थस्य शाब्दबोधविषयत्वस्वीकारेपि तस्य लक्ष्यार्थस्य विधेयतया भानं नाम विधेयत्वं न स्वीक्रियते, शक्यसम्बन्वित्वेन गृहीतो हि लक्ष्यार्थों भवति "विधिरत्यन्तमप्राप्तौ" इति प्रमाणात् प्रमाणान्तरेण गृहीतस्य च विधेयत्वं न भवतीति न लक्ष्यार्थस्य विधेयत्वसम्भवः, प्रमाणमाह-विधाविति, विषयत्वं सप्तम्यर्थस्तथा च परः शक्यार्थभिन्नः शब्दार्थः लक्ष्यार्थो विधिविषयः ( विधेयः ) न भवतीति विधेयत्वाभावादेव लक्ष्यार्थस्यानुव्यवसायविषयत्वमपि न भवति न तदनुपपतिर्दोष इत्यर्थः ।
अथेत्यादिनाशङ्कितं परिहरति-नेति, 'मञ्चा: क्रोशन्ति' इत्यत्र मञ्चपदस्य मञ्चस्थपुरुषे लक्षणास्ति मचानां क्रोशनकर्तृत्वासम्भवाद् मञ्चस्थत्वस्य मार्जारादौ सम्भवेपि क्रोशनकर्तृत्वस्य तत्राप्यसम्भवादिति मञ्चपदेनात्र लक्षणावृत्त्या लक्ष्यार्थस्य मञ्चस्थपुरुषस्य प्रतीयमानस्य शाब्दबोधविषयत्वमावश्यकमेवेत्यर्थः । विपक्षे बाधकमाह-अन्यथेति, यदि मञ्चस्थपुरुषे लक्ष्यार्थभूते शाब्दबोधविषयता न स्यात्तदा तादृशमञ्चस्थपुरुषस्य पूर्वाननुभूतत्वाद् अननुभूतस्य च स्मृतेरप्यसम्भवात् प्रतीतिनिर्वाहो न स्याद् भवति च प्रतीतिरिति शाब्दबोधविषयताऽत्रश्यं स्वीकार्येत्यर्थः । 'गङ्गायां घोषः' इत्यादौ तु लक्ष्यार्थस्य तीरादेः पूर्वानुभूतत्वेन स्मृतिरूपा प्रतीतिः सम्भवतीति तत् त्यक्त्वा 'मञ्चा: क्रोशन्ति' इत्युदाहृतम् । ननु शाब्दबोधविषयतायां वृत्यधीनोपस्थितेः कारणत्वात् मञ्चस्थपुरुषस्य च पूर्वमननुभूतत्वादुपस्थितिरेव न सम्भवतीति कथं तस्य शाब्दबोधे भानं स्यादित्याशक्य गुरुमतेन मञ्चस्थपुरुषस्य पूर्वाननुभूतस्यापि शाब्दबोधविषयतामुपपाइयति -- समानेति, अयमर्थः-तर्फमते शक्तिग्रहकाले घटत्वेन रूपेण सकलघटानां सामान्यलक्षणाप्रत्त्यास