________________
(१८) सादर्श:
[सामान्यदिपदस्य गङ्गातीरादिरूपार्थाऽनुभावकतावच्छेदकशक्तिमत्त्वेन तद्वाचकत्वापतेः । लाक्षणिकस्याननुभावकत्वे शक्तपदाघटितात् ‘धूमात् ' इत्यादिहेतुवाक्यादन्वयानुपपत्तिः-तत्र धूमादिपदस्य ज्ञाने विभक्तेश्च ज्ञाप्यत्वे लाक्षणिकत्वात् ।
अथ लक्ष्यार्थस्य न शाब्दबोधे प्रवेशः अपि तु स्मृतस्य तस्य समभिव्याहृतपदार्थेऽसंसर्गाग्रहमानं तथा च नानुपपत्तिरिति, न च लक्ष्यार्थस्य शाब्दबोधविषधेयतासंबन्धनान्धयात् तीरस्य घोषान्वयप्रतियोगित्वं ज्ञेयम् । उक्त दोषमाह-एवमिति । एवं दि घोषपदस्य तीरवाचकावं प्राप्तं न चैतदिष्टमित्यर्थः । तद्वाचकत्वापत्तः तीरवाचकत्वापत्तः । ननु शक्तिर्हि द्विविधास्ति-पदार्थोपस्थित्यनुकूला शाब्दबोधानुकला च तत्र यत्रोभयविधैव शक्तिर्भवति तस्यैव वाचकत्वमिष्टं यथा शक्तवटादिपदस्य. 'गङ्गायां घोषः ' इत्यत्र गङ्गापदे तीरोपस्थित्यनुः कूलशक्तेः सत्त्वपि तीरविषयकशाब्दबोधानुकूलशक्तिर्नास्तीति न गङ्गापदस्य तीरवाचकत्यापत्तिः, घोषपदे च तीरविषयकशाब्दबोधानुकूलशक्तेः सत्त्वेपि तीरोपस्थित्यनुकूला शक्ति र्नास्तीति न घोषपदस्यापि तीवाचकत्वापत्तिः, गङ्गापदेन तीरोपस्थितिर्भवति घोषपदेन च तीरविषयकशाव्यबोधो भवतीति न काचिदापत्तिर्वाऽनुपपत्तिर्वा, वाचकत्वं तु तद्धर्मावछि. न्नविषयकोपस्थितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वे सति तद्विषयकत्यावच्छिन्नशा. ब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वम्, न च तीरनिरूपितैतादृशोमय शक्तिमत्त्वं गङ्गापदे वा घोषपदे वास्तीति न तयोस्तीरवाचकत्यापत्तिरित्याशङ्कय दोषान्तरमाहलाक्षणिकस्येति, 'गङ्गायां घोषः' इत्यादौ शतगङ्गाघोषादिपदसत्त्वेन तादृशपदेन लक्ष्यार्थविषयकशाब्दबोधसम्भवेपि पर्वतो वह्निमान् धूमात्' इत्यत्र 'धूमज्ञानज्ञाप्यवह्निमान् पर्वतः' इत्याकारकवोधोदयेन 'धूमात्' इतिवाक्ये धूमपदस्य धूमज्ञाने पञ्चमी विभक्तेश्च ज्ञाप्यत्वे लक्षणास्वीकारात् शक्तस्य पदान्तरस्य चाऽभावात् 'धूमात्' इतिहेतुवाक्यादऽन्वयानुपपत्ति: शाब्दबोधानुपपत्तिः स्यादिति लाक्षणिकपदस्याप्यनुभावकत्वं स्वीकार्यमित्यर्थः ।
ननु लक्ष्यार्थस्य शाब्दबोधे प्रवेश एव नास्ति नाम शाब्दबोधविषयत्वमेव न स्वीक्रियते इति लक्ष्यार्थविषयकशाब्दबोधानुपपत्तिर्न दोषः, इत्याशङ्कते-अथेति । नन्वेवम् 'गङ्गायां घोपः' इन्यत्र तीरबोधाभावे घोपार्थिनस्तीरे प्रवृत्तिः कथं स्यादित्याशङ्क्याह-अपि स्विति, लक्ष्यार्थस्य तीरादेगङ्गादिपदेनोपस्थितिस्तु भवत्येवेति स्मृतस्य तस्य लक्ष्यार्थस्य समभिव्याहते घोपादिप. दार्थेऽसंसर्गाप्रहमात्रेण तत्र प्रवृत्तिः संभवत्येवेति अनुपपत्तिःप्रवृल्यनुपपत्ति स्ति, यथा मीमांसकमते शुक्तिरजतज्ञानस्थले रजतप्रत्यक्षाभावेपि 'नेदं रजतम्' इत्याकारकबाधज्ञानाभावादेव रजताार्थन: शुक्तिग्रहणे प्रवृत्तिर्मवति तथा 'गङ्गायां बोपः' इत्यत्रापि तीरविषयकशाब्दबोधाभावेपि 'घोषस्तीरवृ. त्तिन' इत्याकारकबावज्ञानामावादेव घोषार्थिनस्तीरे प्रवृत्तिः सम्भवतीतिभावः, बाधज्ञानाभाव एवासंसर्गाऽग्रहपदेनोच्यते । ननु यदि लक्ष्यार्थस्य शाब्दबोधविषयावं न स्यात्तदा तदुपरागेण-लक्ष्यार्थ.