________________
काण्डम्, शक्तिवादः।
(१७) न चासौ विचारसहः, यतस्तन्मते लाक्षणिकस्याननुभावकत्वं दुर्घटम्-पदार्थोपस्थितिद्वारा शक्यार्थानुभवे शक्तस्येव लक्ष्यार्थबोधे लाक्षणिकस्यापि हेतुवाया दुर्वारत्वात् तत्रापि शक्तेरावश्यकतया वाचकतापत्तेः, पदार्थोपस्थित्याऽन्यथासिद्धत्वे शक्तस्यापि सथात्वापातात् ।
न चाऽनुभावकतावच्छेदकशक्त्यभावाल्लाक्षणिकस्य नाऽनुभावकत्वसंभव इति वाक्यार्थघटकीभूतार्थान्तरवाचकमेव पदं स्वार्थस्येव तदन्वयप्रतियोगिलक्ष्यार्थस्याप्यनुभावकमुपेयते इतिवाच्यम्, एवं सति — गङ्गायां घोषः' इत्यादौ घोषाज्ञानस्य तथा पदज्ञाननिष्ठशक्तिस्वीकारेपि पदस्यैव वाचकत्वं न पदज्ञानस्य, पदज्ञानं तु पदानामतीतानागतावस्थायामपि संभवतीति तत्र हेतुतावच्छेदकशक्तरनुपपत्तिर्नास्तीत्यभिप्रायेणाह-अस्तु वेति, तज्ज्ञाननिष्टशक्त्या पदज्ञाननिष्ठशक्त्या । तस्य पदस्य । मीमांसकमतमुपसंहरतिइतिमीमांसकमतविशेष इति । ___ मीमांसकमतस्याऽयुक्तत्वमाह-न चासाविति । अयुक्तत्वमुपपादयति-यत इत्यादिना। तन्मते= सीमांसकमते यद् लाक्षणिकस्य पदस्याऽननुभावकत्वम्-शाब्दबोधाजनकत्वमुक्तं तद् दुर्घटम दुरुखपादमित्यन्वयः । उक्तदुर्घटत्वे हेतुमाह-पदार्थेति, स्पष्टोयं ग्रन्थः । स्वाभिप्रायमुद्घाटयति-तत्रापीति, तत्रापि लाक्षणिकपदेपि, तव मते उक्तरीत्या शाब्दबोधजनकशक्तिमत्वमेव वाचकत्व लाक्षणिकपदे च तादृशशाब्दबोधानुकूलशक्तेः स्वीकारे लाक्षणिकपदस्य लक्ष्यार्थवाचकत्वं । त्यावे, लाक्षणिकपदस्य लक्ष्यार्थविषयकशाब्दबोधजनकत्वं तु सर्वप्रसिद्धमिति तदनुकूलशक्तस्तत्र स्वीकारोग्यावश्यक एवेत्यर्थः । ननु लाक्षणिकपदेन लक्ष्यार्थस्योपस्थितिमात्रं भवति तादृशोपस्थित्या च लक्ष्यार्थविषयकः शाव्दबोधो भवतीति लाक्षणिकपदस्य लक्ष्यार्थविषयकोपस्थित्या लक्ष्यार्थविषयकशाब्दबोधं प्रत्यऽन्यथासिद्धत्वेन कारणत्वमेव नास्ति येन त्र लक्ष्यार्थविषयकशाब्दबोधजनकशक्तिस्वीकारापत्तिः स्यादित्याशङ्कय प्रतिबन्दीमाह-पदा. होपस्थित्येति । एवं हि शक्तपदेन शक्यार्थविषयकोपस्थितिमात्रं तया चोपस्थित्या शाब्दबोध : त्यपि स्वीकार्य तथा च शक्तस्यापि पदस्य . शक्यार्थविषयकोपस्थित्या शक्यार्थविषयकशाब्दबोधं प्रत्यन्यबासिद्धरपेन कारणत्वं न स्यादिति कि शक्तिस्वीकारोव्यर्थरएको यादित्यर्थः । तर्कमते तु ' गङ्गापदं तीरं बोधयतु ' इत्याकारकविशिष्टेश्वरेच्छायाः स्वीकाराभा. हत् लाक्षणिकपदस्य लक्ष्यार्थवाचकत्यापत्तिर्नास्ति, अधिकमग्रे वक्ष्यति । । नन्वऽनुभावकतावच्छेदकशक्तिमतो ह्यनुभावकत्वम्-शाब्दबोधजनकत्वं संभवति यथा शक्त'पदस्य लाक्षणिकपदस्य चानुभावकताच्छेदकशक्तिरहितत्यान्नानुभावकत्यसंभवः, 'गङ्गायां घोषः' इत्यादिवाक्यार्थघटकीभूतं यदर्थान्तरं घोषपदार्थस्तद्वाचकं यद् घोषपदं तदेव स्वार्थस्येव-धोषप'दार्थस्येव तदन्ययप्रतियोगिभूतम् घोषान्वयप्रतियोगिभूतं यल्लक्ष्यार्थभूतं तीरं तस्यानुभावकमुपेयते इति लक्ष्यार्थविषयकशाब्दबोधस्याप्यनुपपत्तिर्नास्तीत्याशङ्कयाह-न चेति । घोषे तीरस्या