________________
(१६) सादर्श:--
[ सामान्यन च कार्यानुकूलशक्तेः स्वरूपसत्या एव कार्यानुकूलतया पदार्थोपस्थितौ शाब्दबोधे घ ज्ञातोपयोगिनोऽथै पदस्थ वृत्तिरूपशक्त्यन्तरस्य स्वीकार आवश्यक इति वाच्यम् , दाहादिकार्य वन्ह्यादिनिष्ठशक्तेः स्वरूपसत्या एवोपयोगित्वेपि शाब्दबोधानुकूलशक्तेः शाब्दबोधे पदार्थोपस्थितौ च ज्ञातोपयोगित्वोपगमे बाधकाभावात् ।
अतीतानागतपदज्ञानादपि शाब्दबोधोत्पत्त्या पदानामहेतुत्वेन तत्र हेतुतावच्छेदकशक्तयसंभव इति तु न शक्यम्, तन्मते पदानां नित्यत्वात् ।
अस्तु वा तज्ज्ञाननिष्ठशक्त्या तस्य वाचकत्वमिति मीमांसकमतविशेषः न चेति-- वह्रौ दाहानुकूला शक्तिरस्तीति ज्ञानाभावेपि वहिसंयोगेन दाहो भवति, पदनिष्ठ, शक्तश्च ज्ञानाभाचे तत्कार्यभूता पदार्थोपस्थितिनं भवतीति ज्ञाता सत्येव तादृशा शक्तिरुपयो. गिनी भवतीति पदे ज्ञातोपयोगिन्येव शक्तिः स्वीकार्येति पूर्वपक्षार्थः, “ ज्ञातोपयोगिनः । इति " वृत्तिरूपशक्तयन्तरस्य " इत्यस्य विशेषणम्, " अर्थे " इति सप्तम्यर्थों निरूपितत्वम्! " पदस्य " इति षष्ठ्यर्थो निष्ठत्वम्, उक्तं स्वीकरोति- दाहादिकार्ये इति । अत्र पूर्वोत्तरपक्षयोः सामानार्थत्वादयमभिप्राय:-यथा हि वन्ह्यादिनिष्ठा शक्तिः स्वरूपसत्येवोपयोगिनी पदनिष्ठा च शक्तिः ज्ञातासत्युपयोगिनीति वैषम्यमस्ति तथा वन्ह्यादिनिष्ठा शक्तिस्तु जन्यो यो दाहादिस्तन्निरूपिता भवतु पदनिष्ठा च शक्तिर्जन्यं यज्ज्ञानं तन्निरूपिता न भवतु किं तु जन्यं यज्ञानं तद्विषयो योऽस्तन्निरूपितास्तीत्यपि वैषम्यंकिं न स्यात्, पदनिष्टशक्तरर्थनिरूपितत्वस्वी, कारे हि " ज्ञाने पदानां शक्तिनत्वर्थे " इति सिद्धान्तहानिः स्यादिति पूर्वपक्षाशयः, परिहारस्तु- एकवैषम्ये प्राप्ते सकलधर्मवैषम्यं न युक्तमिति यथा वन्ह्यादिनिष्ठा शक्तिर्जन्यदाहादिनिरू पिता तथा पदनिष्ठापि शक्तिर्जन्यज्ञाननिरूपितैव तथा च " ज्ञाने पदानां शक्तिः ।" इति सिद्धमित्युत्तरपक्षाशयः ।
नन्वऽतीतानागतपदानामपि ज्ञानाच्छाब्दबोधो भवति अतीतानागतपदानां सत्याभावात्तेषु हेतुतावच्छेदकभूतशक्तः सत्त्वं न संभवति-सत्येव पदार्थे हेतुताया हेतुतावच्छेदकशक्तेश्च संभवादित्याशङ्कयाह-अतीतेति । उत्तरमाह-तन्मते इति, मीमांसकमते वर्णात्मकान्येव पदानि वर्णाश्च :नित्या इति पदानां नित्यत्वादुक्तशङ्काया अवसरो नास्तीत्यर्थः । अतीतपदानां ज्ञानाच्छाब्दबोधः पत्रपठनादौ विज्ञेयः--तत्र लेखकोच्चरितपदानामतीतत्वात्, भनागतपदानां ज्ञानाच शाब्दबोधो भविष्यत्कालिकराजाज्ञाप्रचारकपत्रपठनादौ विज्ञेयस्तत्र राज्ञोचार्यमाणपदानामनागतत्वात्, पत्रपठनं चैतत्पदोच्चारणहीनं मानसिकरूपं विज्ञेयम् ।
ननु वर्णानां नित्यत्वैपि पदानां नित्यत्वं न संभवति वर्णानुपूर्व्या एव पदरूपत्वाद् आनुपाश्च स्पष्टमनित्यत्वात् तस्माद् यथा पदार्थज्ञाननिरूपिता शक्तिर्न पदार्थनिरूपिता तथा पदज्ञाननिष्ठा शक्तिर्न पदनिष्ठा तथा च यथा पदार्थज्ञाननिरूपितशक्तिस्वीकारेपि पदार्थस्यैव याच्यत्वं न पदार्थ,