________________
कादम् ]
विषयतया विशेष्यतारूपत्वात् कार्यत्वविषपतानिरूपितवत्वावच्छिन्नविषयताकशाब्दबोधस्त्रीकारात् पूर्वपूर्वपदार्थस्य विशेषणत्वादुत्तरोत्तरपदार्थानां विशेष्यत्वादिति न घटादिपदस्य कार्यतावाचकत्वापत्तिरित्यन्वयः, तथा च 'निरूपितत्वांशे अविशेषणतापन्ना या तद्धर्मावच्छिना ( घटत्वाद्यवच्छिन्ना) विषयता तादृशविषयतानिष्टा याऽवच्छेदकता तादृशावच्छेदकतानिरूविका या शाब्दबोधनिष्ठा जन्यता तादृशजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वं तद्वाचकस्वम्' इति सिद्धम्, कार्यत्वविषयतानिरूपितले हि विशेषणतापन्ना कार्यत्यविषयतैवास्ति न तु घटविषयतेति घटपदस्य घटवाचकरवं प्राप्तं न तु कार्यतावाचकत्वमितिसारः । अविशेविणतया = अविशेषणत्वेन रूपेण । अवच्छेदकत्वस्यैवेत्येवकारो भिन्नक्रमस्तेन 'अविशेषणतयैवाऽवच्छेदकत्वस्य निवेशात्' इत्यन्वयः | "अवच्छेदकत्वस्य "" इत्यत्र 'अवच्छेदकस्य' इतिपाठे तु अवच्छेदकपदेन तद्विषयकत्वं ग्राह्यम्, अवच्छेदकीभूतं घटविषयकत्वं च कार्यत्वविषयतानिरूपितत्वांशे विशेषणं नास्ति कार्यत्वविषयकत्वं च तत्र विशेषणमेवेत्युक्तमेव । तद्विषयकत्वं तद्विषयता चेत्यनर्थान्तरम् । किं वा घटादिनिष्ठापि विषयता निरूपकत्वसम्बन्धेन शाब्दबोधत्तित्वाच्छाब्दबोधनिष्ठजन्यताया अवच्छेदिका भवत्येव ।
शक्तिवादः ।
1
( १५ )
ननु कार्यत्वविषयतापि 'पटमानय' इत्यादावपि सत्त्वादतिप्रसक्तैव अतिप्रसक्तधर्मस्य चात्रउदकत्वं न स्वीक्रियते इति घटादिपदस्य पूर्वोक्तमितिमा तृवाचकत्वपरिहारेणैव तद्रीत्या कार्यवाचकत्वपरिहारोपि संभवतीति किमर्थोयम् ( कार्यान्वितस्वार्थे इत्यादिः ) ग्रन्थ इति चेत् ? तरीत्यत्रापि कार्यतावच्छेदककोटौ कारणा व्यवहितोत्तरत्वनिवेश आवश्यक एव तथा च घटज्ञानाव्यवहितोत्तरजायमान कार्यत्वविषयतानिरूपितघटत्वावच्छिन्नविषयताकबोधं प्रति घटज्ञानं कारणमित्येवं विशेषरूपेणैव कार्यकारणभावो वक्तव्यः घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा कार्यत्वविषयता घटपदजन्यताया अतिप्रसक्ता नास्ति 'पटमानय' इत्यादिवाक्यजन्यशाब्दबोधस्थले पटादिपदज्ञानाव्यवहितोत्तरत्वविशिष्टाया एव कार्यत्वविषयतायाः सत्त्वादिति घटपदस्य कार्यतावाचकत्वं प्राप्तं तत्परिहारायायं ग्रन्थः । नन्वेवं घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा मितिमातृविषयताऽपि घटपदजन्यताया अतिप्रसक्ता न स्यादिति घटपदस्य मितिमातृवाचकत्वं पुनरापद्येतेति चेत् ? मितिमात्रोर्विषयतैव नास्ति येन मितिमातृविषयताया घटादि - दजन्यतावच्छेदकत्वेन घटादिपदस्य मितिमातृवाचकत्वं स्याद् मितिमात्रोर्विषयित्वात् तयो स्यिता स्वीक्रियते न विषयता तथा च न घटपदस्य मितिमातृवाचकत्वापत्तिः । 'ज्ञानमस्ति न वा' ' अहमस्मि न वा इत्याकारकसंशयव्यवच्छेदायैव मितिमात्रोर्विषयता स्त्रीक्रियते शशसंशयव्यवच्छेदस्तु मितिमात्रोर्भास्यतयापि संभवत्येव विषयतासम्बन्धेन संशयं प्रति विषतासंबन्धेन निश्वयस्य प्रतिबन्धकत्ववद् मास्यतासंबन्धेनापि निश्चयस्य प्रतिबन्धकत्वस्वीकारा - देति संक्षेपः, विस्तरस्तु गुरुमुखादेवावगन्तव्यः ।
१