________________
( १४ )
सादर्श:
x2
[ सामान्य-
'कार्यान्वितस्वार्थे पदानां शक्तिः' इति वादिनां साक्षात्परम्परासाधारणकार्यत्वविषयतानिरूपितत्वेन घटादिविषयताया घटादिपदजन्यतावच्छेदकत्वेपि न घटादिपदस्य कार्यावाचकत्वम् अपि तु लिङादिपदस्यैव तद्विषयकत्वावच्छिनेत्यत्र साक्षात्परम्परासाधारणनिरूपितत्वाऽविशेषणतयाऽवच्छेदकत्वस्यैव निवेशात् ।
घटपदजन्यताया अतिप्रसक्ता नास्ति कलशपदजन्यतास्थले कलशपदज्ञानाव्यवहितोत्तरत्वविशिष्टाया एवं घटत्वावच्छिन्नविषयताया सत्त्वादिति न घटपदस्य घटवाचकत्वानुपपत्तिरित्यवधेयम् ।
ननु त्वया हि 'तद्विषयकत्वावच्छिन्नशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्वं तद्वाचकत्वम् इत्युक्तं तत्र घटपदजन्यशाब्दबोधे यथा घटविषयकत्वमस्ति तथा तत्र प्रभाकरस्य मते कार्यान्वितस्वार्थे पदानां शक्तिस्वीकारात् कार्यत्वविषयकत्वमप्यस्त्येव कार्यत्व - स्यापि तादृशशाब्दबोधे मासमानत्वादिति घटपदस्य घटवाचकत्वमिव कार्यस्ववाचकत्वमपि स्यादित्याशङ्कयाह - कार्यान्वितेति । कार्यत्वविषयतानिरूपिता आनयनादिरूपकार्यनिष्ठा विष. यता, कार्यनिरूपिता व घटादिनिष्ठा विषयता ( विशेष्यताख्यविषयता ) भवतीति ' घट मानय' इत्यादी साक्षात् कार्यत्वविषयतानिरूपिता हि कार्यनिष्ठा विषयता, परम्परया कार्यस्वविषयतानिरूपिता च घटनिष्ठा विषयता- कार्यनिष्ठविषयताद्वारे घटविषयतायाः कार्यत्वविषयतानिरूपितत्वात्, निरूपितत्वेनेति तृतीयार्थी वैशिष्ट्यमितिपदार्थाः तथा च साक्षात्य रम्परासाधारणं यत् कार्यत्वविषयतानिरूपितत्वं तद्विशिष्टा या घटनिष्ठा विषयता ( घटतिषयकत्वमितियावत् ) सा घटपदजन्यशाब्दबोधनिष्ठजन्यतायाः सामानाधिकरण्येनावच्छेदिका भवतीति यद्यपि घटादिपदस्य कार्यत्ववाचकतापत्तिरस्ति शाब्दबोधनिष्ठघटादिपदजन्यतावच्छेदकीभूताया घटादिविषयतायाः परम्परया कार्यत्वविषयतानिरूपितत्वात् कार्यत्वस्यापि शाब्दबोधे भासमानत्वाद् अन्यथा घटादिवाचकत्वमपि न स्यात् तथापि न घटादिपदस्य कार्यता • वाचकत्वं किं तु लिङादिपदस्यैव कार्यतावाचकत्वमस्तीत्यन्वयः । घटादिपदस्य कार्यस्ववाचकस्वाभावे हेतुमाह-तद्विषयकत्वावच्छिन्नेति, तद्विषयकत्वावच्छिन्नेत्यत्र नाम " तद्विषयकत्वावच्छि नज्ञानशक्तपदस्य " इत्यत्र ( उक्तवाचकत्वलक्षणे इति यावत् ) शाब्दबोधनिष्ठजन्यताया या तद्विषयकत्वनिष्ठा अवच्छेदकता सा यदि साक्षात्परम्परासाधारणीभूतनिरूपितत्वे विशेषणी - भूतापि गृहीता स्यात्तदा कार्यत्वविषयतानिरूपितघटत्वावच्छिन्न विषयताशालिशाब्दबोधेन कार्यत्वविषयकत्वनिष्ठावच्छेदकत्वस्यापि वाचकत्वव्यवहारप्रयोजकत्वापत्त्या घटादिपदस्य कार्य ववाचकत्वमापद्येतापि यदा च साक्षात्परम्परासाधारणीभूत निरूपितत्वे अविशेषणीभूतमेवाव च्छेदकत्वं गृह्यते तदा कार्यत्वविषयकत्वनिष्ठावच्छेदकत्वं तूक्तनिरूपितत्वांशे विशेषणमेवास्तीति तन ग्राह्यं घटविषयकत्वनिष्ठावच्छेदकत्वं च नोक्तनिरूपितश्ये विशेषणम् - विशेष्यभूतत्वाद् घट
"