________________
काण्डम्. ]
शक्तिवादः। घटादिपदस्य मितिमातृविषयकधीजनकत्वेपि न तद्वाचकत्वम्-तद्विषयकत्वाव च्छिन्नज्ञानशक्तपदस्यैव तदायकत्वात्, मितिमातृविषयकत्वेन च ज्ञानस्य न किंचित्पदशक्यता-ज्ञानसामान्यसामग्र्या एवं मितिमातृभासकतया पदान्तरस्य च तदर्थभासकतया तद्विषयकत्वस्य तत्पदजन्यतावच्छेदकत्वे मानाभावात् ।
ननु यदि तद्विषयकशाब्दधीजनकतावच्छेदकधर्मवत्त्वमेव तद्वाचकत्वं तदा तब प्राभाकरस्य मते प्रत्येकज्ञाने विषयस्येव मितेःतज्ज्ञानस्य मातुः-प्रमातुः ( आत्मनः ) च प्रकाशो भव. स्येवेति घटादिपदस्य मितिमातृविषयकधीजनकत्वेन=मितिमातृविषयकशाब्दधीजनकतावच्छेदक-. धर्म( शक्ति )वत्त्वेन तद्वाचकत्वम्-मितिवाचकत्वं मातृवाचकत्वं च स्यादेवेत्याशङ्कयाहघटादिपदस्येति । एवं घटादिपदजन्यबोधे नीलादीनां भासमानत्वेन नीलादिवाचकवापत्तिरपि ज्ञेया। घटादिपदस्य मितिमातृवाचकत्वाभावे हेतुमाह-तद्विषयकत्वेति, तद्विषयकत्वावच्छिन्नं यज्ज्ञानं तादृशज्ञानशक्तपदस्य तद्वाचकत्वमुच्यते तद्विषयकत्वावच्छिन्नेल्यत्र तद्विषयकत्वनिष्ठ ज्ञाननिरूपि, जमवच्छेदकत्वं चाऽन्यूनानतिप्रसक्तं ग्राह्य मितिमातृविषयकत्वं च सकलज्ञानसाधारणत्वादतिप्रसक्तवति न तस्य घटादिपदजन्यज्ञानावच्छेदकत्वमिति न घटादिपदस्य मितिमातवाचकत्वापत्तिः, लादिविषयकत्वं च नीलपटादिविषयकबोधेप्यस्तीत्यतिप्रसक्तं पीतघटपदजन्यवोधे नास्तीति यूनवृत्त्यपीति न नीलादिविषयकत्वस्यापि घटादिपदजन्यबोधावच्छेदकत्वं येन घटादिपदस्य नीलावाचकत्वं स्यात् , घटादिविषयकत्वं च घटादिपदजन्यबोधस्याऽन्यूनानतिप्रसक्तत्वादवच्छेदकं वीति घटादिपदस्य घटादिवाचकत्वं च प्राप्तम्, तथा च तद्विषयकत्वावच्छिन्नशाब्दबुद्धित्वावच्छिजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्रं तद्वाचकत्वम्' इति वक्तव्यम् । मितिमातृविषयकत्वस्य घटादिपदजन्यतावच्छेदकत्वाभावमुपपादयति-मितिमातृविषयकत्वेनेति,ज्ञानस्य मितिमातृविषयकत्येन रूपेण किंचित्पदशक्यता नाम मितिमात्रादिपदभिन्नं यद् घटादिपदं तच्छक्यता नास्ति यतो ज्ञानसा. मान्यसामाग्या मितिमातृभानं भवति तथा पदान्तरस्य=मितिमात्रादिपदस्य च तदर्थभासकतया मि. तिमातभासकतया मितिमातृविषयकत्वस्यातिप्रसक्तत्वात् तत्पदजन्यतावच्छेदकत्वे घटादिपदजन्य. तावेच्छेदकस्वे( घटादिपदजन्यज्ञानावच्छेदकत्वे ) मानं नास्तीति न घटादिपदस्य मितिमातृवाचकस्वम्- यद्विषयकत्वस्य यत्पदजन्यतावच्छेदकत्वं तत्पदस्यैव तद्वाचकत्वस्वीकारादित्यर्थः । ननु यद्यऽ. तिप्रसक्ताया विषयताया घटादिपदजन्यतावच्छेदकत्वं न स्वीक्रियते तदा घटपदस्य घटवाचकत्वमपि न स्याद् यतो यत्र घटपदजन्यता नास्ति कलशपदजन्यतास्ति तत्रापि शाब्दबोधे घटत्वावच्छिन्नविषयतायाः सत्त्वेनातिप्रसक्तत्वादितिचेन्न यत्रैकं कार्य प्रत्यनेकानि कारणानि भवन्ति तत्र कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेश आवश्यक एव तथा च घटपदज्ञानाव्यवहितोत्तरजा. यमानघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति घटपदज्ञानं कारणं कलशपदज्ञानाव्यवहितो. तरजायमानघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति कलशपदज्ञानं कारणमित्येवं विशिष्य कार्यकारणभावो वक्तव्यस्तथा च घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा घटत्वावच्छिन्न विषयता