________________
(२०) सादश:
[सामान्यकारणभावमभ्युपगच्छतां मीमांसकानां शाब्दबोधे योग्यताबलादपूर्वपदार्थस्य भानेन लक्ष्यार्थस्य शाब्दानुभवोपगमे पूर्वस्यापि तस्य प्रतीत्युपपत्तेः।
तद्विषयकशाब्दत्वावच्छिन्नं प्रति शक्तिविशेषपुरस्कारेण तद्वाचकपदस्य तज्ज्ञानस्य वा न हेतुतासंभवः-विशिष्य तत्वदान्विततत्तत्पदार्थबोधे तत्तत्पदसाकाङ्क्षतत्तत्पदज्ञानत्वेनाऽवश्यक्लप्तकारणतयैवोपपत्तौ ईदृशकार्यकारणभावस्य नियुक्तिकत्वात् । त्योपस्थितिर्भवतीति शब्दबोधे आनन्त्यव्यभिचारौ न भवतः प्राभाकरेण च सामान्यलक्षणाप्रत्यासत्तिर्न स्वीक्रियते इति शक्तिग्रहस्तु तद्घटव्यक्तावेव भवति तदनन्तरमन्यत्र घटादिशाब्दबोधकाले शक्तिग्रहविषयीभूतघटव्यक्तेयः प्रकारो घटत्वं तेन घटत्वेनैव रूपेण घटस्योपस्थितिर्भवति घटत्वेनैव रूपेण घटस्य शाब्दबोधोपि भवतीत्ययमेष समानप्रकारकत्वेन शाब्दबोधपदार्थोपस्थित्योः कार्यकारणभावाभ्युपगमः, तथा च घटत्वेन रूपेण घटविषयकशाब्दबोधे जाते योग्यताबलादेवाऽपूर्वघटव्यक्तेः ( पूर्वाननुभूतघटव्यक्तेः ) शाब्दबोधे भानं भवतीति गुरुमतम्, योग्यता चात्रोपस्थितत्वादिरूपा प्रकरणादिरूपा वा विज्ञेया तथा च यथा शक्यार्थस्यापूर्वस्य योग्यताबलाच्छाब्दबोधे भानं भवति तव मते तथा तस्य लक्ष्यार्थस्यापूर्वस्यापि मञ्चस्थपुरुषायोग्यताबलाच्छाब्दबोधे भान सम्भवतीति प्रतीत्युपपत्तिा, एवं लक्ष्यार्थतीरादीनामपि शाब्दबोधविषयत्वं स्वीकार्य तादृशती. रादिविषयकशाब्दबोधजनकतावच्छेदकशक्तिमत्त्वमपि गङ्गादिपदे स्वीकार्य तादृशशक्तिमत्त्वमेव च मीमांसकमते वाचकत्वमिति गङ्गादिपदानां तीरादिवाचकत्वापत्तिः प्राप्तैवेल्यर्थः । 'मञ्चाः क्रोशन्ति' इत्यत्र तर्कमते तु सामान्यलक्षणाप्रत्यासत्तिस्वीकारात् पूर्वाननुभूतस्यापि पुरुषस्य मञ्चपदेन मुख्यार्थबाधादिना मञ्चस्थत्वेन रूपेणोपस्थितिः संभवतीति न शाब्दबोधानुपपत्तिः । प्रभाकरमते तु मञ्चपदाद् मञ्चस्थत्वेन रूपेण मञ्चस्थपुरुषस्योपस्थितिर्न संभवति-सामान्यलक्षणाप्रत्यासत्तरस्वीकारात् ।
मीमांसकेन यत् तद्विषयकशाब्दबुद्धित्वावच्छिन्नं प्रति शक्तिमत्पदस्य वा शक्तिमत्पदज्ञानस्य वा कारणत्वमुक्तं तत् पराचष्टे-तद्विषयकेति, शक्तिविशेषपुरस्कारेण शक्तिमत्त्वेन रूपेण । मीमांसकमते शक्तस्त्र वाच्यवाचकभावरूपसामर्थ्यस्वरूपत्वादुक्तम्-शक्तिविशेषेति । उक्त हेतुमाहविशिष्येति, अयमर्थ:-भोजनप्रकरणे सैन्धवपदेन लवणस्यैव बोधो भवति नाश्वस्येति प्रतिपादनाय मीमांसकेनापि तत्तदर्थान्विततत्तदर्थबोधे-आनयनाद्यन्वितलवणाद्यर्थविषयकशाब्दबोधं प्रति तत्तत्पदसाकाङ्क्षतत्तत्पदज्ञानत्वेन शाकादिपदसाकाङ्क्षसैन्धवादिपदज्ञानत्वेन रूपेण तादृशपदज्ञानस्य कारणता स्वीकार्या यथा 'शाका) सैन्धवमानय' इत्यत्र शाकपदसांनिध्यात् शाकपदसाकाङ्क्षसैन्धवपदावणस्य बोधो भवति तथा चैवम् 'घटमानय' इत्यादावपि तत्तत्पदसाकाङ्क्षतत्तत्पदज्ञानत्वेन तत्तत्पदज्ञानस्याऽवश्यक्लप्तकारणतया शाब्दबोधोपपत्तौ सत्यामीदृशकार्यकारणभावस्य नाम शादिबोधशक्तिमत्पदज्ञानयोरुक्तकार्यकारणभावस्य नियुक्तिकत्वात् , शक्तेः पदार्थान्तरत्वस्वी.