________________
काण्डम् . ] शक्तिवादः।
(२१) इदं तु तत्त्वम्-तीरादौ गङ्गापदजन्यबोधविषयत्वसत्त्वेपि तदंशे शुद्धबोधविषयतात्वादिनैव तादृशविषयत्वादिप्रकारकत्वमीश्वरेच्छाया उपगम्यते न तु गङ्गापदजन्यबोधविषतावादिनापि तत्प्रकारकत्वं मानाभावात् । तदनभ्युपगमेपि तस्याः सर्वविषयकत्वव्याघाताभावात् ।
कारण गौरवाच न युक्तत्वम् । यदि तद्विषयकशाब्दब्रोधं प्रति तत्पदस्य तत्पदज्ञानस्य वा कारणत्वं स्यात्तदा 'घटः कर्मवमानयनं कृतिः' इति वाक्यादरि घटकर्मकानयनविषयकशाब्दबोधः स्यादेव-तत्तदर्थबोधकपदानामत्र सत्त्वादेव 'घटः' इत्येकपदादपि शाब्दबोधः स्याद् न च भवतीति उक्तस्थलयोरुपस्थितेः स्वीकारात् पदज्ञानस्योपस्थितिं प्रत्येव कारणत्वं वक्तव्य में तु शाब्दबोधं प्रत्यपि तस्मात् ' 'आनयनत्वावच्छिन्नविशेष्यतानिरूपितकर्मत्वावच्छिन्न प्रकारतासमानाधिकरणविशेष्यतानिरूपितघटत्वावच्छिन्न प्रकारताकशाब्दबुद्धित्वावच्छिन्नं प्रति लोडाद्यन्त. नीपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणम्' इत्येवमेव कार्यकारणभावो वक्तव्य इत्यनेनैव कार्यकारणभावेन शाम्वोधोपपत्तिः संभवतीति मीमासकोक्तः कार्यकारणभावो नियुक्तिक एव ।
ननु यदि गङ्गादिपदानां लक्ष्यतीरादिबोधकत्वमस्ति तदा तर्कमते ईश्वरेच्छायाः सन्मात्र. विषयकत्वात् 'गङ्गापदं तीरं बोधयतु' इत्याकारकेश्वरेच्छा स्वीकार्या ईश्वरेच्छैत्र च तर्कमते शक्तिरिति गङ्गा दिपदानां तीरादिवाचकल्वं स्यात् 'गगरी' इत्याद्यपभ्रंशानामपि घटादिवाचकत्वं स्यादेव तत्रापि 'गगरीपदं घटं बोधयतु' इत्याकारकेश्वरेच्छायाः स्वीकार्यत्वादिल्याशय तर्कमतेन समाधत्ते-इदं तु तत्त्वमिति, अयमर्थः-ईश्वरेच्छा द्विविधास्ति एका विशिष्टवैशिष्टयावगाहिनी यथा 'घटपदं घटत्वावच्छिन्नं बोधयतु' इति अनयेवेच्छया वाच्यत्राचकत्वव्यवहारो भवति यथा घटस्य वाच्यत्वं घटपदस्य च वाचकत्वमिति, द्वितीया शुद्धबोधविषया विशकलितेतियावद् यया 'गङ्गापदं बोधयतु' 'तीरं च बोधविषयो भवतु' इति, तया च 'गङ्गापदं तीरं बोधयतु' किंवा 'तीरं गङ्गापदजन्यबोधविषयो भवतु' 'गगरीपदं घटं बोधयतु' इत्याकारकेश्वरेच्छाया अभावान गङ्गादिपदस्य लक्ष्यतीरादिवाचकत्वापत्तिर्न वा गगरीत्याद्यपभ्रंशानां , वाच. कत्वापत्तिः । एतदेवोपपादयति-तीरदाविति, यद्यपि 'गङ्गायां घोषः' इत्यत्र तीरे गङ्गापदजन्यबोधविषयत्वमस्ति तथापि तदेशे तीरांशे शुद्धबोधविषयत्वत्वेनैव रूपेण तादृशविषयत्वादिप्रकारकत्वम् गङ्गापदजन्यबोधविषयत्वप्रकारकत्वमीश्वरेच्छाया उपगम्यते अर्थात् 'तीरं बोधविषयो भवतु' इत्येवमीश्वरेच्छा स्वीक्रियते अत्र चेच्छायां तीरमेव विशेष्यतया बोधविषयत्वं च तीरप्रकारतया भासते इति बोधविषयत्वप्रकारकत्वमीश्वरेच्छायां प्राप्तं तच्च प्रकारभूतं बोधविषयत्वं शुद्धबोधविषयत्वरूपमेव स्वीक्रियते न तु गङ्गापदजन्यबोधविषयमरूपम्, एतदेवाह-नत्विति, 'तीरं गङ्गापदजन्यबोधविषयो भक्तु' इत्याकारकेश्वरेच्छाया अस्वीकारात् गङ्गापदजन्य