________________
सादर्श:
[सामान्य--
न च तथा सति बोधाशे गङ्गापदजन्यत्वानवगाहितया सर्वविषयकत्वानुपपत्तिरितिवाच्यम्, तीरादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकघटकतया तदनवबोधविषयत्वत्वेन रूपेण तत्प्रकारकत्वम् बोधविषयत्वप्रकारकत्वमीश्वरेच्छाया नोपगम्यते येन गङ्गापदस्थ तीरवाचकत्वं स्यादित्यर्थः । अत्र 'गङ्गापदजन्यो बोधो भवतु' 'तीरं च बोधविषयो भवतु' इत्येवं विशकलिताया एव भगवदिच्छायाः स्त्रीकारान गङ्गादिपदानां तीरादिवाचकत्यापत्तिन वाऽरभ्रंशानां वाचकत्वात्तिरितिसारः । नन्वमीश्वरेच्छायाः सर्वविषकत्वं न स्यात्-तोरे गङ्गापदजन्यबोधविषयवस्थावगाहनाभावादित्याशझ्याह-तदनभ्युपगमेपीति, तदनभ्युपगमे-'तीरं गङ्गापदजन्यवोधविषयो भवतु' इत्याकारकविशिष्टेच्छाया अस्वीकारेपि तस्याः ईश्वरेन्छाया: सर्व विषयकत्वव्याघातो नास्ति यत उक्तविशकलितेच्छास्वीकारपक्षेपि तीरे बोधविषयत्व बोधे च गङ्गापदजन्यत्वमवगाहितमेव न च तदधिकं किंचिदस्ति यस्यानवगाहनेन सर्वविषयकत्वव्याघातः स्यात् । उक्तविशिष्टछाया वाच्यवाचकमावस्थ ले एष स्वीकारादिति सर्व सुस्थम् । ___ ननु यदि तीरं बोधविपयो भवतु' इत्येवेश्वरेच्छा स्वीक्रियते तदा गङ्गापदस्य तीरवाचरुत्वाभावेपीश्वरेच्छायास्तीराशे गङ्गापदजन्यबोधविषयकत्वाभावेन बोशेि गङ्गापदजन्यवानवगाहितया च सर्व विषयकत्वव्याघातः स्पादेव यदि च बोधांशे गङ्गापदजन्यवावगाहनार्थम् 'तीरं गङ्गापदजन्यवोधविषयो भवतु' इतीश्वरेच्छां स्वीकृत्य तीरांश गङ्गापदजन्यबोधविषयत्वं स्त्रीक्रियते तदा गङ्गापदस्य तीरवाचकत्वं स्पादित्युभयतः पाशारज्जुरित्याशङयाह- न चेति । तथा सति उक्तरीत्या तीरांशे शुद्धबोधविषयत्वत्वेनैव रूपेण गङ्गापदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः स्वीकारे सति 'तीरं बोधविषयो भवतु' इत्याकारकेश्वरेच्छास्वीकारे सतीतियावत् । 'तीरविषयको बोधो गङ्गा पदजन्यो भवतु' इत्याकारकेश्वरेच्छाया अस्वीकारादितिसारः । परिहारमाह- तीरादिति, उत्तरीत्या द्विविधविशकलितेच्छास्त्रीकारेण 'बोधो गङ्गापदजन्यो भवतु' इतीच्छायाः स्वीकृतत्वाद् बोधांश गङ्गापदजन्यत्वावगाहनमपि जातमेवेति नेश्वरेच्छाया: सर्वविषयकत्वव्याधातः, 'तीरं बोधविषयो भवतु' इत्येवं तीरांशे शुद्धबोधविषयत्वेनेश्वरेच्छायाः स्वीकारान्न गङ्गापदस्य तीरवाचकत्यापत्तिरपीतिसारः । 'तीरं बोधविषयो भवतु' इत्यत्र तीरमेव विशेष्यं तीरनिष्ठविश. व्यतानिरूपितप्रकारता बोधे वर्तते तस्मिश्च बोधे गङ्गापदजन्यत्वमप्यस्तीति प्रकारतावच्छेदक गङ्गापदजन्यत्यमितिप्राप्तं तथा च तीरनिष्ठविशेष्यतानिरूक्तिप्रकारतावच्छेदकघटकतया नाम तीरनिष्ठविशेष्यतानिरूपितपकारतावच्छेदकतया तदनवगाहित्येषि-गङ्गापदजन्यत्वानवगाहित्येपि ( ईश्वरेच्छाया इतिशेषः ) बोधांशे स्वातन्त्र्येण नाम तीराशं त्यक्त्या किं वोक्तप्रकारतानवच्छेदकतया 'बोधो गङ्गापदजन्यो भवतु' इत्येवं तदवगाहित्योपगमात् गङ्गापदजन्यस्वावगाहित्योपगमादेव न सर्वविषयकत्वव्याघातापत्तिः, गङ्गारदजन्यतायां तीरनिष्ठविशेष्यतानिरू. पितप्रकारतावच्छेदकत्वं न स्वीक्रियते इत्यन्वयः । 'तीरं गङ्गापदजन्यबोधविषयो भवतु' इति वा