________________
काण्डम् .] शक्तिवादः ।
(२३) गाहित्वेपि बोधांशे स्वातन्त्र्येण तदवगाहित्वोपगमात् । तथा च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेनेश्वरेच्छावत्त्वस्य इच्छानिरूपिततादृशविशेष्यतावत्त्वस्यैव वा तत्पदशक्यतारूपतया नातिप्रसङ्गः ।
उक्तरीत्यैव च घटादिपदजन्यबोधविषयस्य घटान्वितकर्मत्वानयनादेर्घयादिसंसर्गस्य च तादृशबोधविषयत्वप्रकारकेश्वरेच्छाविषयत्वेपि घटादिपदावाच्यत्वमु. पपादनीयम् । तीरविषयको वोधो गङ्गापदजन्यो भवतु' इति वेश्वरेच्छास्वीकारे एव तादृशेच्छया गङ्गापदजन्यत्वस्य तीरनिष्टविशेष्यतानिरूपितप्रकारतावच्छेदकतयाऽवगाहनं संभवति नोक्ताविशकलितेच्छास्वीकारपक्षे इत्यवधेयम् । उपसंहरन् शक्यत्वस्वरूपमाह-तथा चेति, यथा-घटपदजन्यबोधविषयत्वं घटेरित तादृशबोधविषयत्वनिष्ठा बोधविषयत्वत्वावच्छिन्ना या प्रकारता तादृशंप्रकारतानिरूपितविशेष्यता घटेस्तीति तादृशविशेष्यतासंबन्धेन 'घटपदं घटं बोधयतु' इतीश्वरेच्छावत्त्वं घटे प्राप्तं तदेव घटपदशक्यत्वमस्तीति घटस्य वाच्यत्वं घटपदस्य च वाचकत्वं सिद्धम्, तीरे च शुद्धबोधविषयत्वमेव स्वीक्रियते न गङ्गापदजन्यबोधविषयत्वमिति तीरे गङ्गापदजन्यबोधविषयत्वत्यावच्छिन्नप्रकारतानिरूपितविशेष्यताया अभावेन तादृशविशेष्यतासंबन्धेनेश्वरेच्छावत्त्वमपि न संभवतीति न तीरस्य गङ्गापदराच्यत्वं न वा गङ्गापदस्य तीरवाचकत्वं वा प्राप्नोति । पक्षान्तरमाह-इच्छानिरूपितेति, भगवदिच्छानिरूपिता या तादृशविशेष्यतां तत्पदजन्यबोधविषयत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यता तादृशवशेष्यतावत्वमेव तत्पदशक्यत्वमिति घटादीनामेव घटादिपदवाच्यत्वं प्राप्तं न तीरादीनां गङ्गादिपदेवाच्यत्वमित्यर्थः । समन्वयः पूर्ववदेव । नातिप्रसङ्गः गङ्गादिपदानां लक्ष्यतीरादिवाचकत्वापत्तिनास्ति । अत्र हरिनाथभट्टाचार्य:-"ननु तादृशसंबन्धेन ( उक्तविशेष्यतारूपसंबन्धेन ) ईश्वरेच्छायाः शक्यतात्वे 'धरपदशक्यत्वं घंटे न तु पटे' इत्यादिव्यवहारानुपपत्तिः--वृत्त्यनियामकताह
संबन्धावच्छिन्न प्रतियोगिताकाभावाऽसिद्धेः, सम्बन्धान्तरावच्छिन्नतादृशशक्यत्वाभावस्य तु घटेपि सत्वेन 'घटे न घटपदशक्यत्वम्' इत्यादिव्यवहारापत्तरित्यत आह–इच्छानिरूपितत्यादि" इति ।
उक्तरीत्येति-यद्यपि 'घटमानय' इत्यत्र घटपदजन्यबोधविषयत्वं यथा घटस्यास्ति तथा घटा'न्वितकर्मत्वस्थ घटान्वितानयनस्य कर्मत्वादिभिर्घटादिसंसर्गस्य चाधेयत्वादेरप्यस्त्येव-एतादृशवाक्यजन्यबोधे भासमानत्वादिति कर्मवादी तादृशबोधविषयत्वप्रकारकेश्वरेच्छाविषयत्वं नामेश्वरेच्छानिरूपिता या घटपदजन्यबोधविषयत्यत्वावच्छिन्न प्रकारतानिरूपितविशेष्यतोक्ता तादृशविशेप्यतावत्वमस्त्येवेति कर्मत्वादीनां घटादिपदवाच्यत्वं स्यादेव तथापि 'कर्मत्वादिकं घटपदजन्यबोध विषयो भवतु' इत्याकारकविशिष्टेच्छा न स्वीक्रियते किं तु 'कर्मत्यादिकं बोधविषयो भवतु' 'घटपदजन्यश्च बोधो भवतु' इत्येवं विशकलितमिन्छाद्वयं स्वीक्रियते तथा चात्र घटपदजन्यस्वस्योक्तरीत्या कर्मत्वादिनिष्टविशेष्यतानिरूपितप्रकारतावच्छेदकतयाऽनवगाहनाट् वस्तुतो घटपदज