________________
(२४) सादर्श:
[समान्यअन्विताभिधानवादिनस्तु पदार्थसंसर्गस्यापि वाच्यतां स्वीकुर्वन्ति तन्मत 'इतरांन्वितो घटो घटपदशक्यः' एतादृशमेव शक्तिज्ञानं शाब्दबोधप्रयोजकम् । 'घटने घटपदवाच्यः 'इत्याकारकस्याऽन्वयांशानन्तर्भावेन शक्तियहस्य तथात्वे
वृत्तिग्रहाविषयतया पदार्थसंसर्गस्य शाब्दबोधविषयतानुपपत्तेः । न्यबोधविषयत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाःकर्मत्वादावभावाञ्च न कर्मत्यादीनां घटादिपदवाच्यत्वापत्तिर्न वा घटादिपदानां कर्मवादिवाचकत्वापत्तिः, बोधांशे स्वातन्त्र्येण घटादिपदजन्यत्वस्याबगाहनाञ्च नेश्वरे छायाः सर्वविषयकत्वव्याघातोपीत्यर्थः । ___ सम्प्रति प्रभाकरमतमाह-अन्विताभिधानेति, भन्वितस्य-आनयनादिरूपेतरपदार्थेनान्वितस्य= विशिष्टस्याऽभिधानम् उपस्थापनम् उपस्थिति:-शक्तिग्रहविषयस्यैवोपस्थितिविषयत्वसम्भवात् शक्तिग्रहो हि बालस्य 'घटमानय' इत्यादिवाश्येन जायमान आनयनादिरूपेतरपदार्थेनान्वितविषयक एव भवतीत्यन्विताभिधानमेव युक्तं न त्वमिहितान्वय इति प्राभाकराणामभिप्रायः । अभिहिताना म्-वृत्त्योपस्थितानामेव घटादीनामितरपदार्थेनाऽन्ययो भवति--आनयेत्यादिपदावापोद्वापाभ्यां बार लस्य घटादिपदानां शुद्धघटादिपदार्थे शक्तिग्रहसंभवादित्यभिहितान्वयवादिनां प्राभाकरेतराणामभिः | प्रायः, शाब्दबोधस्तूभयत्रैवान्वितविषयक एवेत्यभिधेयम् ।
पदार्थसंसर्गस्य नाम नीलादिपदार्थान्तरस्य यः समवायादिलक्षणसम्बन्धस्तस्य वाच्यताम् घटादिपदवाच्यतां स्वीकुर्वन्ति-घटादिपदजन्यबोधविषयस्य घटादिपदवाच्यत्वमावश्यकमेवाऽन्यथ घटादेरपि घटादिपदवाच्यत्वं न स्याद् अस्ति च 'नीलो घटः' इत्यादौ नीलादिप्रतियोगिकसमवा यस्यापि घटादिपदजन्यबोधविषयत्वम् ' नीलसमवायवान् घटः । इत्याद्याकारकबोधस्य जायमा नत्वादिसि नीलादिसमवायस्यापि घटादिपदवाच्यत्वं प्राप्तमित्यभिप्रायः । उक्तवाच्यतामुपपादयः ति- तन्मते इति, तन्मते-प्राभाकरमते ' इतरान्वितो घटो घटपदशक्यः' इत्येतादृशमे | शक्तिज्ञानं शब्दबोधप्रयोजकमस्ति एतादृशशक्तिज्ञानविषयत्वं च घटवत् पदार्थान्तरसंसर्गस्याप्य स्त्येव शक्तिज्ञानविषयस्य च वाच्यत्वमावश्यकमऽन्यथा घटादेरपि घटादिपदवाध्यत्वं न स्यादिरि पदार्थान्तरसंसर्गस्यापि घटादिपदवाच्यत्वं प्राप्तमित्यर्थः । विपक्षे बाधकमाह-घट इति, यदि 'इतरान्वितः' इत्याकारकमन्वयांशमनन्तर्भाव्य-त्यक्त्वा केवलम् 'घटो घटपदशक्यः' इत्या कारक एष शक्तिमहः स्यात् तदा पदार्थान्तरसंसर्गस्य वृत्तिग्रहाऽविषयतया शाब्दबोधविषयत्वं न स्यात्-वृत्तिग्रहविषयस्यैत्र शाब्दबोधविषयत्वस्वीकाराद् अन्यथातिप्रसङ्गात् । तथात्वे-शाब्दबोषप्रयोजकत्वे ।
नवाऽऽनयनादीतरपदार्थघटितस्य घटादेः 'घटमानय' इत्यादिवाक्यप्रतिपाद्यतया तादृशवाक्यजन्यशाब्दबोधात् प्राक् तत्र-पदार्थान्तरघटितघटादी घटादिपदस्य शक्तिग्रह एव न संभवतिअनुपस्थितत्वाद् उपस्थित एव पदार्थे शक्तिग्रहसंभवात् तथा च पदार्थान्तरसंसर्गस्थ शक्तिमहावि