________________
काण्डम् , ] शक्तिवादः ।
(२५) न चेतरान्वितघटस्य वाक्यप्रतिपाद्यतया शाब्दबोधात् प्राक् (तत्र) शक्तिग्रहएव दुर्घटः-अनुपस्थितत्वादितिवाच्यम्, विशेषतः पदार्थान्तरवाटतस्य तदन्वित. घटादिरूपवाक्यार्थस्य प्रागनुपस्थितावपि इतरपदार्थत्वादिना सामान्यधर्मे तद्घटितस्य तदन्वितवटादेः प्रागुपस्थितिसंभवेन तत्र शक्तिग्रहस्य सुघटत्वात् ।
वस्तुतस्तु पदार्थान्तरमनन्तर्भाव्य केवलाऽन्वयांशान्तर्भावेनैव शक्तिग्रहस्य शाब्दधीप्रयोजकतोपेयते-पदार्थान्तरस्य पदान्तरलभ्यतया तदंशान्तर्भावेन शक्तिग्रहस्यानुपयुक्तत्वात् ।
न चान्वयस्य पदवाच्यत्वे तदेशे शक्तिग्रहस्य शाब्दबोधोपयोगित्वे च मानाभाव इतिवाच्यम्, तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितिहेतुतायाः सामान्यत एव क्लप्ततया वृत्तिज्ञानादन्वयानुपस्थितौ तस्य शाब्दबोधविषयत्वाऽसं
यतया घटादिपदवाच्यत्वापत्तिनास्तीत्याशझ्याह- न चेति । परिहारहेतुमाह--विशेषत इति । "पदार्थान्तरघटितस्य' इतिपदं स्वयं व्याचष्टे-तदन्वितेति । "तद्घटितस्य इतिपदं व्याचष्टे-तदवतघटादरिति । विशेषतः आनयनादिविशेषरूपेणाऽऽनयनादिपदार्थान्तरघटितस्य वाक्यार्थभूतस्य टादेः शब्दबोधातु प्रागुपस्थित्यसंभवेपीतरपदार्थस्वादिरूपसामान्यधर्मेण रूपेण तद्घटितस्य आयनादिधटितवटादेः शाब्दबोधात् प्रागप्युपस्थितिसंभवेन तत्र इतरपदार्थत्वादिसामान्यधर्मरूपेणाधनाद्यन्वितघटादौ शक्तिग्रहस्य संमवात्, तथा च पदार्थान्तरसंसर्गस्य शक्तिग्रहविषयत्वाद् घटापदवाच्यत्वे न का चिदनुपपत्तिरित्यन्ययः । , वस्तुगत्याऽऽनयनादिपदार्थान्तरस्य — आनय ' इत्यादिपदान्तरेण बोधसंभवात् तत्र घटादिपदशक्तिग्रहविषयत्वस्वीकारस्यानुपयुक्तत्वात् प्राभाकरमतेन निष्कर्षमाह- वस्तुत इति । तथा च 'अन्वितो घटो घटपदशक्यः' इत्येवं शक्तिग्रहो जायते । तदंशान्तर्भावेन--पदार्थान्तरांशान्तविन।
नन्धऽन्वयस्य-पदार्थान्तरसंसर्गस्य घटादिपदवाच्यत्वे मानं नास्ति तथा तदंशे अन्वयांश घटादिपदशक्तिप्रहं विनाऽन्वयांशविण्यकशाब्दबोधो न संभवत्तीत्यत्र च मानं नास्ति-आकाङ्क्षाबलेनापि शाब्दबोधेऽन्वयांशस्य भानसंभवादित्याशङ्कयाह-न चेति । परिहारहेतुमाह-तद्विषयकेति । क्लुप्ततया नियततया । यस्य वृत्तिज्ञानजन्योपस्थितिर्भवति तस्यैव शाब्दबोधविषयत्वं भवति नाऽन्यस्यातिप्रसङ्गापत्तरिति कार्यकारणभावनियम एवान्वयस्योक्तघटादिपदवाच्यत्वेऽन्वयांशे शक्तिग्रहस्य शाब्दबोधोपयोगित्वे च मानमित्यर्थः । निष्कर्षमाहअन्वाशे इति । " पात्रे दातव्यम् " इत्यस्य 'पात्राय दातव्यम् ' इत्यर्थवत् "शाब्दबोधे” इत्यस्य शाब्दबोधार्थमित्यर्थः। तथा च जायमानाsन्यांशविषयकशाब्दबोधोपपत्त्यर्थमन्वयांशेपि घटादिपदशक्तिमहस्याऽवश्यमपेक्षास्तीत्यर्थः। ननु पदार्थान्तरसंसर्गविषयकशाब्दबोधं प्रति वृत्तिज्ञान जन्योपस्थितेः कारणत्वं न स्वीकारण्यामो येनोक्तरीत्या