________________
(२६) सादर्शः
[ सामान्यभवात् अन्वयांशे शक्तिग्रहस्थापि शाब्दबोधेऽवश्यापेक्षणीयत्वात् । संसर्गताभिन्नविषयतायास्तादृशोपस्थितिजन्यतावच्छेदकत्वे गौरवात् । ___ अत्र वदन्ति-सामान्यतस्तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन न हेतुता-स्वतन्त्रवृत्तिज्ञानाद् विशृखलभावनैकपदोपस्थितयोः पदार्थतत्त्वाव. च्छेदकयोर्विशेष्यविशेषणभावक्रमेण शाब्दबोधापत्तेः, किं तु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतधर्मावच्छिन्नविषयकोपस्थितित्वेनैव हेतुता पदार्थान्तरसंसर्गस्य घटादिपदवान्यतापत्तिः स्यात् किं तु संसर्गभिन्नपदार्थान्तरविषयकशाब्दबो प्रत्येव वृत्तिज्ञानजन्योपस्थितेः कारणत्वं कल्पयिष्याम इत्याशझ्याह- संसर्गतेति । अत्र पर संसर्गतामेदनिवेशाद् गौरवमाह- गौरवादिति । तादृश वृत्तिज्ञानजन्य । संसर्गताभिन्न विषयतार इत्यस्य संसर्गताभिन्नविषयकत्वस्येत्यर्थः, वृत्तिज्ञानजन्योपस्थितौ हि संसर्गताभिन्न विषयकत्वं वृति ज्ञानजन्यत्वं च वर्तत एवेति तयोरबच्छेद्यावच्छेदकभाव इत्यवधेयम् । यदि च प्रकारतासंबन्ध शाब्दबोध प्रति विषयतासंबन्धन वृत्तिज्ञानजन्योपस्थितेः कारणत्वं विशेष्यतासंबन्धने च शाब्द बोधं प्रति विषयतासंबन्धेन वृत्तिज्ञानजन्योपस्थितेः कारणावं तत्र प्रथमकार्यकारणभावेन प्रकार भूतधर्माणां द्वितीयकार्यकारणभावेन च धर्मिणः शाब्दबोधे भानमुपपाद्यते सामान्यतस्तद्विषयः | शाब्दबोधं प्रति वृत्तिज्ञानजन्योपस्थितेः कारणत्वं न कल्प्यते येनोक्तरीत्या पदार्थान्तरसंसर्ग घटादिपदवान् एतापत्तिः स्पात् ? तदाप्येतादृशद्विविधकार्यकारणभावकल्पनेन गौरवं स्पादेव ।
उक्तान्वितामिधानवादं परिहर्तुमुपक्रमते- अत्रेति । वदन्तीत्यत्र तार्किका इतिशेषः । साम | न्यतस्तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्यतदुपस्थितेने हेतुता स्वीक्रियते येनो रीत्या पदार्थान्तरसंसर्गस्य वटपदवाच्यत्वमापद्यतेत्यर्थः । रते हतमाह-स्वतन्त्रेति । स्वतन्त्रात विशेष्यविशेषणभावानवगाहितो वृत्तिज्ञानाद् विशृङ्खलभायेन विशेष्यविशेषणभावाहिन्येनेकपदो पस्थितयोः एकवटादिदोपस्थितयोः पदार्थतत्त्वावच्छेदकयोः--घटघटत्वादिलक्षणपदार्थपदार्थता. वच्छेदकयो शेष्यविशेषणभावक्रमेण शाब्दबोधापत्तरित्यन्त्रयः । क्रमेण पुरस्सरम् । 'घटघटके घटपदवाच्ये ' इत्याकारकविशेष्यविशेषणभावरहितवृत्तिज्ञानाद् विशेष्यविशेषणभावरहितयोरेव घट. घटत्वयोरुपस्थितिशाब्दबोधौ भवतो न तु घटत्वप्रकारकवटविशेष्यकाबितिसिद्धान्तः, यदि च सामान्यतस्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्योपस्थितेः कारणत्वं स्यात्तदा या स्वतन्त्रवृत्तिज्ञानादुक्तविशृङ्खलभावेनापि घटधरत्वयोरुपस्थितिः सापि वृत्तिज्ञानजन्यैवेति तादृशोपस्थित्या विशृङ्खलभावनाप्युपस्थितयोर्घटघटत्श्योविशेष्यविशेषणभावेन घटत्वप्रकारकवटविशेष्यकः शाब्दबोध आपद्यतेति दोष इति न सामान्यतस्तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थिते: कारणत्वं संभवतीतिभावः । स्वमतेन कार्यकारणभावमाह-किं त्विति । तद्धर्मप्रकारकतद्वि. शेष्यकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतद्धर्मप्रकारकतद्विशेष्यकोपस्थितः कारणत्वं युक्तं यथा घटवप्रकारकवटविशेष्यकशाब्दबोध प्रति वृत्तिज्ञानजन्यघटत्वप्रकारकवटविशेष्यकोपस्थितेः कारणत्य