________________
काण्डम्. ] शक्तिवादः ।
(२७) शाच्या. एवं च तत्संसर्गकबोधस्य किंचिद्धर्मप्रकारेण तद्विषयकत्वाभावाद् वृत्ति ज्ञानात् तदनुपस्थितावपि सत्संसर्गकः शाब्दबोधः संभवत्येव ।
वस्तुतस्तु शक्त्या लक्षणया चोपस्थितस्य तत्तदर्थस्य शाब्दबोधे भानादुभयविधतत्तदर्थोपस्थितेरेव तत्तद्विषयकशाब्दबोधहेतुता वाच्या, तादृशोपस्थित्यो श्वाऽनुगताऽनतिप्रसक्तकारणतावच्छेदकस्याऽगुरोर्दुवचतया व्यभिचारवारणाय शक्त्यादिज्ञानजन्यतदुपस्थितेर्जन्यतावच्छेदककोटी तत्तत्कारणाव्यवहितोत्तरत्वनित्यन्वयः । उपसंहरति-एवं चेति । एवं च-तद्धर्मप्रकारेणेत्याद्युक्तकार्यकारणभावे स्वीकृते च संसर्गकबोधस्य पदार्या तरसंसर्गकवोधस्य किंचिद्धर्मप्रकारेण तद्विषयकत्वाभावात्-संसर्गविकत्वाभावाद् वृत्तिज्ञानात् तदनुपस्थितावपिपदार्थान्तरसंसर्गानुपस्थितावपि तत्संसर्गकः पदा.
रसंसर्गविषयकः शाब्दबोधः संभवत्येवेत्यन्धयः । यस्य घटादिपदार्थस्य घटकादिकिंचिद्धर्मकारण शाब्दबोधो भवति तस्यैव शाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थितेः कारणत्वं |क्रियते न तु निष्प्रकारकपदार्थविषयकशाब्दबोधं प्रत्यपि पदार्थान्तरसंसर्गस्य च स्वरूपत
शाब्दबोधे भानं भवति न तु किंचिद्धर्मप्रकारेणेति न पदार्थान्तरसंसर्गस्य शाब्दबोधे जयं सद्विषयकवृत्तिज्ञानजन्योपस्थितेरपेक्षति न पदार्थान्तरसंसर्गस्य वृत्तिज्ञानविप्रयतातिर्न वा दिपदवाच्यतात्तिरितिसारः । सिद्धान्तमाह-वस्तुत इति । तत्तदर्थस्य-शक्यार्थस्य घटादेर्लक्ष्यार्थस्य तीरादेश्च । उमयवि. तदर्थोपस्थितेः शक्तिज्ञानाधीनशक्यार्थोपस्थितेलक्षणज्ञानाधीनलक्ष्यार्थोपस्थितेः । एक्कारेण क्यलक्ष्यार्थातिरिक्तसंसर्गादिपदार्थस्य शाब्दबोधे भानार्थं तद्विषयकवृत्तिज्ञानाधीनोपस्थितेः शाब्द. गोधहेतुत्वं नास्तीतिप्राप्तम्- संसर्गादीनामाकाङ्क्षाबलेन भानसम्भवातू, तत्तद्विषयकशाब्बोध. तुता-शक्यलक्ष्यार्थविषयकशाब्दबोधहेतुता वाच्या। तादृशोपस्थित्योः शक्यार्थविषयकलक्ष्यार्थ. पयकोपस्थित्योश्वाऽन्यूनानतिप्रसक्तोऽवच्छेदकधर्मः कोप्पऽगुरुन संभवति यस्य तादृशोभयोपस्थतिनिष्ठकारणतावच्छेदकत्वं स्यात्, शक्यार्थविषयकशाब्दबोधस्थले लक्षणाज्ञानाधीनोपस्थितेरसवात् लक्ष्यार्थविषयकशाब्दबोधस्थले च शक्तिज्ञानाधीनोपस्थितेरभावात् परस्परं व्यभिचार:
त इत्येतादृशम्यभिचारस्य वारणाय शक्यादिज्ञानजन्यशक्याद्यर्थविषयकोपस्थिति निष्ठकारणतानिरूपितशाब्दबोधनिष्ठ कार्यतावच्छेदककोटो तत्तत्कारणाव्यवहितोत्तरत्वस्थ शक्तिज्ञानाधीनोपस्थियव्यवहितोत्तरत्वस्य लक्षणाज्ञानाधीनोपस्थित्यव्यवहितोत्तरत्वस्य च निवेशोऽवश्यं कर्तव्यः स्था- शक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरत्वविशिष्टशाब्दबुद्धित्वावच्छिन्नं प्रति शक्तिज्ञानाधीनो. पस्थितिः कारणं लक्षणाज्ञानाधीनोपस्थित्यव्यवहितोत्तरस्वविशिष्टशाब्दबुद्धित्वावच्छिन्नं प्रति लक्षगाज्ञानाधीनोपस्थितिः कारणमिति । यद्युक्तोभयविधोपस्थितिनिष्ठकारणताया अवच्छेदकधर्मः कोप्यगुरुः संभवेत्तदातादशधर्मगोपस्थित्योरनुगमसंभवादुक्तव्यभिचारापत्तिर्न स्यादित्युक्तरीत्या कारगाव्यवहितोत्तरत्वनिवेशेन विशेषरूपेण कार्यकारणभावकल्पनावश्यकता न स्यादितिभावः । उप