Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 48
________________ (४०) सादर्श: [ सामान्यतच्छक्तिविरहात् तेषामुपलक्षणता घटत्वादौ तत्सत्त्वाच तेषां विशेषणता । एवं च प्रवृत्तिनिमित्तेपि शक्तेः सत्त्वात् तस्यापि वाच्यतया " वाच्यत्वे सति वाच्य वृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्” इतिप्रवृत्तिनिमित्तलक्षणे “ वाच्यत्वे सति" इतिविशेषणदानम् “जात्याकृतिव्यक्तयः पदार्थः " इतिन्यायसूत्रोक्तं गोत्वादिजातेर्गवादिपदार्थत्वं चाऽप्युपपद्यते। बन्धन तत्सत्त्वात् घटादिपदशक्तेः सत्त्वात् तेषाम् घटत्वादीनां विशेषणता सिद्धेत्यर्थः । बारपदाद् घटो बोद्धव्यः । 'घटपदं घटत्वावच्छिन्नवाचकम् ' इत्याद्याकारा भगवदिच्छारूपा शक्तिरस्ति तत्र घटो नाम समवायेन घटत्वावच्छिन्ना व्यक्तिरेवेति भगवदिच्छारूपशक्तौ पटो घटत्वं समवायश्चेति त्रितयमेव भासते न तु द्रव्यत्वमपि येन द्रव्यत्वादिविशिष्टे घटादिप दानां शक्तिः स्यादिति सारः । घटत्वादेर्घटादिपदवाच्यत्वे मानमाह-एवं चेति । घटादिपदानां बोधकत्वलक्षणा या घटादौ प्रवृचिरस्ति तत्र घटत्वादिकमेव निमित्त घटत्वादिविशिष्टे एव तादृशप्रवृत्तेः सत्त्वादिति घटत्वा. दिकं प्रवृत्तिनिमित्तं विज्ञेयम् । तस्य प्रवृत्तिनिमित्तलक्षणघटत्वादेः । यदि घटत्वादेर्घटादिपदवाच्यत्वं न स्यात्तदोक्तप्रवृत्तिनिमित्तलक्षणे प्रवृत्तिनिमित्तस्य घटत्वादेः “वाच्यत्वे सति" इति वाच्यत्वविशेषणं नोपपद्येत तथा “ जाल्याकृतिव्यक्तयः पदार्थः " इतिन्यायसूत्रोक्तं पदार्थत्वं च नोपपोत तस्माद् घटत्वादेरपि घटादिपदवाच्यत्वमावश्यकमेवेत्यर्थः । वाच्यत्वे इति-घटत्वादौ वाच्यत्वमप्यस्ति वाच्यभूतघटादिव्यक्तिवृत्तित्त्रमप्यस्ति वाच्यभूतघटादिव्यक्तिविषयकोपस्थितौ प्रकारतया भासमानत्यमध्यस्तीति विशेषणत्रयार्थः । प्रवृत्तिनिमित्तत्वमिति च शेषः । अत्र च लक्षणे "वाच्यत्वे सति" इत्यनुक्ते शब्दाश्रयत्वस्याकाशपदप्रवृत्तिनिमित्तत्वं स्यात्--शब्दाश्रयत्वस्याकाशवृत्तित्वादाकाशोपस्थितौ प्रकारतया भासमानत्वाच न चैतदिष्टमिति " वाच्यत्वे सति." इत्युक्तं तथा च शब्दाश्रयत्वस्याऽऽकाशपदवाच्यत्वाभावादाकाशपदप्रवृतिनिमित्तत्वापत्तिर्नास्ति एतच्चाकाशपदे द्रष्टव्यम् , 'वाच्यवृत्तित्वे सति" इत्यनुक्ते आकृतरपि गवादिपदप्रवृत्तिनिमित्तत्वं स्यात्-उक्तन्यायसूत्रप्रामाण्येनाकृतेरपि पदार्थत्वेन वाच्यत्वाद्वाप्योर-- स्थितिप्रकारत्वाच्च न चैतदिष्टमिति "वाच्यवृत्तित्वे सति" इत्युक्तं तथा चाकृतेरवयवसंयोगरूपखादवयवमात्रवृत्तित्वेन वाच्यभूतगवा दिव्यत्यावृत्तित्वाद् गवादिपदप्रवृत्तिनिमित्तत्वापत्तिर्नास्ति. भाकृतेर्वाच्यत्वं वाच्योपस्थितिप्रकारत्वं च "पिष्टकमय्यो गावः'' इत्यादौ द्रष्टव्यं पिष्टकमयीगोषु गोरखजातेरसंभवात्, "बाच्योपस्थितिप्रकारत्वम्" इत्यनुक्ते घटस्य मृत्पदप्रवृत्तिनिमित्तत्वं स्यात्-घटस्य मृत्पदवाच्यत्वाद् मृत्पदवाच्यकपालद्वयवृत्तिवाच न चैतदिष्टमिति “बाच्योपस्थितिप्रकारस्वम्" इत्युक्तं तथा च घटस्य मृत्पदवाच्यघटकपालाद्युपस्थितौ प्रकारत्वाभावाद् मृत्पदप्रवृत्तिनिमित्तत्वापत्तिर्नास्ति, नवीनतार्कितमते तु द्रव्यादिपदानां घटत्यादेः प्रवृत्तिनिमित्तस्ववारणाय "वा. च्यत्वे सति" इतिविशेषणमिति विशेषणत्रयसार्थक्यम् ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216