Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 34
________________ (२६) सादर्शः [ सामान्यभवात् अन्वयांशे शक्तिग्रहस्थापि शाब्दबोधेऽवश्यापेक्षणीयत्वात् । संसर्गताभिन्नविषयतायास्तादृशोपस्थितिजन्यतावच्छेदकत्वे गौरवात् । ___ अत्र वदन्ति-सामान्यतस्तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन न हेतुता-स्वतन्त्रवृत्तिज्ञानाद् विशृखलभावनैकपदोपस्थितयोः पदार्थतत्त्वाव. च्छेदकयोर्विशेष्यविशेषणभावक्रमेण शाब्दबोधापत्तेः, किं तु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानजन्यतधर्मावच्छिन्नविषयकोपस्थितित्वेनैव हेतुता पदार्थान्तरसंसर्गस्य घटादिपदवान्यतापत्तिः स्यात् किं तु संसर्गभिन्नपदार्थान्तरविषयकशाब्दबो प्रत्येव वृत्तिज्ञानजन्योपस्थितेः कारणत्वं कल्पयिष्याम इत्याशझ्याह- संसर्गतेति । अत्र पर संसर्गतामेदनिवेशाद् गौरवमाह- गौरवादिति । तादृश वृत्तिज्ञानजन्य । संसर्गताभिन्न विषयतार इत्यस्य संसर्गताभिन्नविषयकत्वस्येत्यर्थः, वृत्तिज्ञानजन्योपस्थितौ हि संसर्गताभिन्न विषयकत्वं वृति ज्ञानजन्यत्वं च वर्तत एवेति तयोरबच्छेद्यावच्छेदकभाव इत्यवधेयम् । यदि च प्रकारतासंबन्ध शाब्दबोध प्रति विषयतासंबन्धन वृत्तिज्ञानजन्योपस्थितेः कारणत्वं विशेष्यतासंबन्धने च शाब्द बोधं प्रति विषयतासंबन्धेन वृत्तिज्ञानजन्योपस्थितेः कारणावं तत्र प्रथमकार्यकारणभावेन प्रकार भूतधर्माणां द्वितीयकार्यकारणभावेन च धर्मिणः शाब्दबोधे भानमुपपाद्यते सामान्यतस्तद्विषयः | शाब्दबोधं प्रति वृत्तिज्ञानजन्योपस्थितेः कारणत्वं न कल्प्यते येनोक्तरीत्या पदार्थान्तरसंसर्ग घटादिपदवान् एतापत्तिः स्पात् ? तदाप्येतादृशद्विविधकार्यकारणभावकल्पनेन गौरवं स्पादेव । उक्तान्वितामिधानवादं परिहर्तुमुपक्रमते- अत्रेति । वदन्तीत्यत्र तार्किका इतिशेषः । साम | न्यतस्तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्यतदुपस्थितेने हेतुता स्वीक्रियते येनो रीत्या पदार्थान्तरसंसर्गस्य वटपदवाच्यत्वमापद्यतेत्यर्थः । रते हतमाह-स्वतन्त्रेति । स्वतन्त्रात विशेष्यविशेषणभावानवगाहितो वृत्तिज्ञानाद् विशृङ्खलभायेन विशेष्यविशेषणभावाहिन्येनेकपदो पस्थितयोः एकवटादिदोपस्थितयोः पदार्थतत्त्वावच्छेदकयोः--घटघटत्वादिलक्षणपदार्थपदार्थता. वच्छेदकयो शेष्यविशेषणभावक्रमेण शाब्दबोधापत्तरित्यन्त्रयः । क्रमेण पुरस्सरम् । 'घटघटके घटपदवाच्ये ' इत्याकारकविशेष्यविशेषणभावरहितवृत्तिज्ञानाद् विशेष्यविशेषणभावरहितयोरेव घट. घटत्वयोरुपस्थितिशाब्दबोधौ भवतो न तु घटत्वप्रकारकवटविशेष्यकाबितिसिद्धान्तः, यदि च सामान्यतस्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्योपस्थितेः कारणत्वं स्यात्तदा या स्वतन्त्रवृत्तिज्ञानादुक्तविशृङ्खलभावेनापि घटधरत्वयोरुपस्थितिः सापि वृत्तिज्ञानजन्यैवेति तादृशोपस्थित्या विशृङ्खलभावनाप्युपस्थितयोर्घटघटत्श्योविशेष्यविशेषणभावेन घटत्वप्रकारकवटविशेष्यकः शाब्दबोध आपद्यतेति दोष इति न सामान्यतस्तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थिते: कारणत्वं संभवतीतिभावः । स्वमतेन कार्यकारणभावमाह-किं त्विति । तद्धर्मप्रकारकतद्वि. शेष्यकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतद्धर्मप्रकारकतद्विशेष्यकोपस्थितः कारणत्वं युक्तं यथा घटवप्रकारकवटविशेष्यकशाब्दबोध प्रति वृत्तिज्ञानजन्यघटत्वप्रकारकवटविशेष्यकोपस्थितेः कारणत्य

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216