Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 403
________________ ३९४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्हिके अन्ये त्वाहुः-कग्रहणं विवक्षितमेव, 'गवा दुग्धं पय' इत्युदाहरण. सम्भवात्। अत्र हि गोः कर्मकर्तृत्वात् तत्र कर्मवदतिदेशे सति क्तः स्यात् । नात्र सिद्धान्ते “गत्यर्थाकर्मक" (पासु०३-४-७२) इत्येत. त्प्रवर्त्तते, पयोरूपेण कर्मणा सकर्मकत्वात् । न चैवं सकर्मकत्वादेव कर्मवदित्यतिदेशो न भविष्यतीति वाच्यम , दुहिपच्योर्षहुलं सकर्म कयोरिति प्रतिप्रसवात् । न च बहुलग्रहणादेव प्रवृत्तिः, तस्य भाष्ये प्रत्याख्यातत्वादिति दिक् । वतिग्रहणन्तु शक्यमकर्तुम् । तथाहि, लकारवाच्यस्य कर्तुः कर्मः संज्ञवास्तु । न च कर्मसंशया कर्तृसंज्ञाया बाधः, एकसंशाधिकाराद न्यत्र संज्ञानां समावेशात् । न चैवं सकर्मकत्वाभावे लो न स्यादिति पाच्यम् , आनुपा सिद्धत्वात । कर्मसंज्ञा हि लकारोत्पतिं प्रतीक्षते, लकारवाच्यस्यैव कर्तुस्तद्विधानात् । ततः प्राक् चाकर्मकत्वानपायेन "भावे चाकर्मकेभ्य"(पासू०ए०३-४-६१)इति भावे कर्तरि च लविधेर• प्रत्यहत्वात् । नन्वेवमपि यगात्मनेपदे न स्यातां, शुद्धयोः कर्मकों: सावकाशयोर्यशपोः परत्वात् शप्प्रसङ्गात , "भावकर्मणोः" (पा० सु०१-३-१३) इत्यात्मनेपदस्य "शेषात्कर्तरि" (पासु०१-३-७८) इति परस्मैपदस्य च विप्रतिषेधेन परत्वात्परस्मैपदप्रसङ्गाच्चति चेत्न, "भावकर्मणोर्विहितेन यका अपवादभूतेन आक्रान्तविषयं परिहत्य सार्वः धातुके शबिति उत्सर्गस्य प्रवृत्तिसम्भवात् करिशबिति सूत्रे कर्तृग्र. हणमतिरिच्यते । तस्यैतत्फलं-"कव यः कर्ता तत्र शबादयो यथा स्युः कर्मकर्तरि मा भूवन्" इति । नन्वस्मिन् हरदत्तपक्षे "न दुह" (पासू०३-१-८९) इत्यादिना यकि निषिद्धे शप् न स्यात् । तथा च लिलिटोरिव निर्विकरणप्रयोगापत्तिरिति चेत् ? एवं तर्हि कर्तरीति योगो विभज्यते, भावकर्मणोरित्यत्रापि भावे, कर्मणि चेति । ततः कर्मः णीत्यनुवर्त्य कर्मणि कर्तरि यक् भवति शपोऽपवादः। न दुहेत्यादौ अपवादाभावात्पुनरुत्सर्गस्य स्थितिः। एतच्च व्याख्यानं यग्विधावेव भाष्ये स्थितम् । एवन्तावद्यक सिद्धः, न दुहस्नुनमामिति लिङ्गाच। तथा "कर्तरि कर्म" (पासू०१-३-१४) इत्यतः "कर्तरि" इत्यनुवर्त्य "कतेवः यः कर्ता तत्र परस्मैपदं, न तु कर्मकरि"इति व्याख्यानादात्म. नेपदम् । तस्मादत्करणे त्यक्तेऽपि सर्वमिष्टं सिद्धयतीति स्थितम् । क्रियमाणे तु वत्करणे अतिदेशोऽयमिति स्पष्टमेव । स च षोढा-रूप. निमित्ततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदादिति "स्थानिवत्" (पा०स०१-१-५६) सूत्रे व्युत्पादितम् । इह तु आदितस्त्रयाणामसम्भ.

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510