Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 499
________________ स्फोटचन्द्रिकायां क्षात्सम्बन्धसत्वेन केवलप्रत्यक्षसम्भवेऽपि रखगन्धयोस्तु संयुकस. मवायः सन्निकर्षः। स च द्रव्यसम्बन्धे घटते इति परम्परासम्बन्धः । तत्र द्रव्य साक्षात्कारसन्निकर्षसत्त्वेन द्रव्यं विना कंवलगुणस्यासत्त्वेन च केवलगुणलाक्षात्कारासम्भवः । तस्माद् द्रव्यविशिष्टगुणसाक्षात्का. रजनकत्वं तयोः , न तु गुणविशिष्टद्रव्यसाक्षात्कारजनकत्वम् ; अनु. मवन तथैव शक्युन्नयनात् । चक्षुरिन्द्रयत्वागन्द्रिययोस्तु गुणविशि. टद्रव्यं द्रव्यविशिष्टी वा गुण इत्युभयविधसाक्षात्कारजनकत्वम् । विस्त. रस्तु मत्कृतशब्दार्थतामृते द्रष्टव्यो गौरवभयान्नेह तन्यते इति दिक् । प्रकृतमनुसरामः ! असाधुशब्दस्य वाचकत्वेऽपि व्याकरणप्रतिपा. द्यत्वासोटत्वाभावः । तदन्तर्गतवर्णानां तु एकाक्षरकोशावधृत. शक्तिकान्तिरप्रकाशकत्वे पदस्फोट इति पदस्फोटे विवेचयिष्यते। अनुकरणशब्दानां तु अनुकार्यानुकरणयामेंदविवक्षयाऽनुकार्यरूपार्थप्र. तिपादकत्वात् स्फोटत्वम्। ननु साध्वनुकरणस्य साधुत्वेन स्फोटत्वेऽप्य. साध्वनुकरणस्यासाधुन्वात्कथं स्फोटव्यवहार इति चेत् ? न, असाध्व. नुकरणस्यापि साधुत्वस्वीकारात् । दैत्यैहे ऽरय इति प्रयोकव्ये हेऽलय इति प्रयुक्तं, तदनुकरणं हेलयो हेलय इति कुर्वन्तो न पराबभूवुरिति, न वाक्यऽपि तस्यासाधुत्वम, तथा यद्वानः तद्वानः भवतु इत्यर्थे यर्वा. णस्तर्वाणः भवतु इति प्रयुक्त, तदनुकरणं कुर्वन्तो यर्वाणस्तर्वाणो नाम ऋषयो बभूवुरिति, न वाक्येऽपि तस्यासाधुत्वं कस्यापि सम्म. तम् । तस्मादसाधोग्नुकरणस्य साधुत्वं सर्वसम्मतम् । तत्र यदा त. योरभेदविवक्षा तदाऽर्थप्रकाशकत्वाभावान स्फोटत्वम् । शुद्धब्रह्महानाय सर्वबहिर्भूतानमयकोशवदखण्डवाक्यबोधनाय वर्णस्फोट इति विक् । इति वर्णस्फोटः ॥ अथ पदस्फोटो वर्णस्फोटापेक्षया अन्नमयकोशापेक्षयाऽन्तरङ्गप्राणमा यकोशवदन्तरङ्गो निरूप्यते । अन्तरङ्गत्वं तु साक्षाद्वाक्यघटकत्वेन । व. र्णस्य बहिरङ्गत्वं पदनिष्पत्तिद्वारा तद्घटकत्वम् । पदस्फोटो द्विधा-स. खण्डोऽखण्डश्च । व्यवहारादिना पदे एव शकिग्रहाद । तत्र योऽस्माकं सखण्डपदस्फोटः 'पचति' 'रामः' . इत्यादिसुबन्ततिअन्तरूपः, शकं पदमिति मते स एव वाक्यस्फोटस्तार्किकाणाम् ॥ . अथाखण्डपदस्फोटो निरूप्यते । स च सर्वैः पदस्थितवणैय॑ज्यते । स चार्थप्रत्यायक इति शान्दिकसिद्धान्तः। न चे प्रतीतस्य प्रत्यायक.

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510