Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
स्फोटचन्द्रिकायां
केवलव्यवहारेण समुदायशक्तिग्रहस्तस्य स एवाखण्डपदस्फोटः । यतु रूढं पदं मणिनूपुरादि वः नः इत्यादि, तत्सर्वेषामपि अखण्डपद स्फोटत्वेनाभिमतम्, तत्र सर्वेषामपि अवयवार्थज्ञानाभावविशिष्टव्यव. हारेण समुदाये शक्तिग्रहात् । एवज्ञ रूढयौगिकपदयोः सखण्डाख ण्डस्फोटयोश्च पर्यायत्व नाममात्रे विवाद इति दिक् । एवञ्च तार्किकादीनां दूषणाभासा गर्भस्रावेणैव पराहता इति दिक् ।।
नहि तार्किकादितर्का एव सत्ती इति नियमः, तत्रापि बहुशो. उनुभवाविषयासतर्कदर्शनात् । तथा हि विशिष्टस्य कार्यत्वकारणत्वे नैव सिद्धौ निर्गुणघटोत्पत्तिरयुक्तति पूर्वमुक्तम् । तथा रूपस्य व्याप्य वृत्तित्वनियमाद् घटस्य प्रत्यक्षान्यथानुपपत्या स्वीक्रियमाणातिरिकं चित्रं रूपमिति कल्पनाऽव्ययुक्तैव, तादृशनियमे प्रमाणाभावात् । अस्तु वा नियमः, तथापि (१)तत्तद्रूपावच्छिन्नतत्तदवयवसत्रिकर्षसहितच रमरूपावच्छिन्नचरमावयवसनिकर्षेणैव घटसाक्षात्कारसिद्धौ अतिरिः कचित्ररूपस्वीकार गौरवात् । एवं विशिष्टबुद्धौ विशेषणशानस्य कार• णत्वात्तस्य चायं घट इत्यादावसम्भवात् घटघटत्वयोः सम्बन्धानवगा. हिनिर्विकल्पकज्ञानकल्पनाऽप्ययोग्यत्वादयुक्तैव । नित्यसम्बन्धातिरिक्त संयोगसम्बन्धादावेव तत्कल्पना 'दण्डी पुरुषः' इत्यादौ, न तु 'अयं घट:'इत्यादौ,तत्र विशिष्टज्ञानस्यैव जायमानत्वात् । एवञ्च निर्विकल्पक क्षानं न स्वीकार्यमिति महल्लाघवम् ।
एवमखण्डखण्डभेदेन कालद्वैविध्यकल्पनमध्ययुक्तमेव, अखण्डस्य व्यवहारानाधायकत्वात्। न च
जन्यानां जनकः कालो जगतामाश्रयो मतः । इति जगदाधारत्वेन जनकत्वेन च तत्स्वीकारः, ईश्वरस्यैव तत्प्र. सिद्धत्वात् । न च पदार्थखण्डने 'दिक्कालौ नेश्वरादतिरिच्यते' इत्या. दिनाऽस्माभिस्त दुक्कमिति वाच्यम्, तत्र दिक्कालयोरेवे विशिष्येश्व. रामेद उकः। स च "सर्व खल्विदं ब्रह्म' इति श्रुतिविरुद्धः। तथा "यतो वा इमानि भूतानि जायन्ते' "तस्मिन्सर्व प्रतिष्ठितम्" इत्यादि. श्रुतिभिर्जगत्कर्तृत्वं जगदाधारकत्वं चेश्वरस्यैव, न तु कालस्य । तेन "जन्यानां जनकः कालः" इत्यस्य पृथिव्यादिसप्तपदार्थानामपीश्वराभेदेन विशिष्योभयोरेव तदभेदप्रतिपादनस्य चायुक्तत्वात् ।
एवं खण्डकालोऽप्ययुक्तः। सूर्यगतिविशेषरूपोपाधिभेदेन हि खण्ड
(१) तत्तव्यावच्छिन्न' मुद्रिते ।

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510