Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 503
________________ स्फोटचन्द्रिकायां परस्परमाकाङ्क्षासम्भवात् । उभयाकाङ्क्षायामेव तत्सम्भषेनान्यतरा कालायां तदसम्भवाच्च । न द्वितीयः, इतरनिरपेक्षतया सिद्धे. नैकवाक्येन सापेक्षतरवाक्यस्यान्वयो हि सा । प्रकृते च वाक्यसंदर्भ. रूपग्रन्थयोरेव सा, न तु वाक्ययोः। अनुमानस्थितवाक्यानां परामर्श जन्यं ज्ञानमनुमितिः' इत्यादिवाक्यानां प्रत्यक्षवाक्याकालामावाद् आ. सत्यभावाच्च । किञ्च वाक्यैकवाक्यता हि प्रकरणम् , अन्यतराका. का प्रकरणमिति तल्लक्षणात् । तस्याप्येकवाक्यत्वस्वीकारे वाक्यात्प्र. करणस्य दुर्बलत्वप्रतिपादकश्रुतिलिङ्गवाक्यप्रकरणत्यादिबलाबलाधि. करणविरोधः । न तृतीयः । प्रत्यक्षानुमानयोराकाला आर्थी, न तु शा. ब्दी। तस्मादत्र सूत्रलिखनं यत्किचिदर्थकल्पनमनुचितम, शिरोमणि. प्रन्थस्तु यद्यत्सङ्गतिमत्तदेकं वाक्यमित्यनेनैव सिद्धत्वादिति दिक्। प्रकृतमनुसरामः । व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव पाच.. कत्वाद्वाक्यस्फोटः । न च पूर्व गृहीताऽपि वाक्ये शक्तिरावापोद्वापा. भ्यां त्यक्त्वा पदे गृह्यते इति वाच्यम् ,एवं सति पदार्थज्ञामम्प्रति वा. क्यार्थज्ञानस्य हेतुतापत्तौ वाक्यार्थज्ञानम्प्रति पदार्थज्ञानस्य हेतुस्व. मिति सर्वसिद्धान्तमलापत्तेः । वाक्यस्फोटो विधा सखण्डो खण्डः श्व । अखण्डो विधा वर्णातिरिक्तोऽनतिरिक्तश्च । यदा वर्णा न स्वी. क्रियन्त गौरवात् , लाघवात् ध्वनिभिरेवाखण्डो वाक्यस्फोटो व्यज्यते इति मतं, तदाऽतिरिक्तः । अस्मिन्पक्षे वर्णाभावेन यावद्वर्णव्यङ्ग्य इत्यादिदूषणाभासा गर्भस्रावेणैव पराहताः। यदा तु ध्वनिभिर्वर्णा व्यज्यन्ते इति मतं तदा घटमानयेति सखण्डवाक्यस्फोटः, क्रियाकारका योविभागस्य कर्तुं शक्यत्वात्। हरेऽव विष्णोऽवेत्यादौ एकादेशे कृते प्रातिपदिकाख्यातयोविभागाशक्यतयाऽनतिरिक्तवाक्यस्फोटः । कि. याकारकज्ञानशुन्यस्यावैयाकरणस्य घटमानयेत्ययमपि अनतिरिकास्त्र. ण्डवाक्यस्फोट एव । पदे न वर्णा विद्यन्ते वर्णेववयवा न च । वाक्यात्पदानामत्यन्तं प्रविधेको न कश्चन ॥ इत्ययमखण्डातिरिक्तवाक्यस्फोटप्रकाशः । यथा वणे अवयवा न सन्ति तथेत्यर्थः । 'पश्य मृगो धावति' 'पचति भवति' इत्यादावपि अ. खण्डसखण्डातिरिकानतिरिक्तत्वं पूर्ववदेव बोद्धव्यम् । मृगकर्तृक वर्तमानधावनक्रियायाः दृशिक्रियायां कर्मतासम्बन्धेनान्वयः । देवद. त्तकर्तृकपचिक्रियाया वर्चमानभवनक्रियायामन्वयः । तदुक्तम् सुबन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम् ।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510