Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
वाक्यस्फोटनिरूपणम् ।
वा लक्षणा, सा च जहल्लक्षणा । तया च विशेषणांशत्यागमात्रं न तु विशेष्येऽपि तस्या उपयोगः, शक्त्यैव तदुपस्थितिसम्भवात् । एवं 'सोऽयं देवदत्तः' इत्यत्रापि । तथा च जहदजहल्लक्षणोदाहरणमसङ्गतमिति दिक् !
एवम् 'एको वृक्षः पञ्च नौका भवन्ति' इति वाक्ये सखण्डाखण्डत्वे पूर्ववदेव बोध्ये | अत्र तार्किकाः
गृह्णाति वाचकः सङ्खयां प्रकृतेर्विकृतेर्नहि ।
इति वचनात्प्रकृत्यर्थवृक्षगतमेकवचनमेव भूधातूत्तरं भवतीत्याहुः । तदयुक्तम्, गृह्णातीत्यस्य व्यन्तविषयत्वात् । यथा 'संघीभवन्ति ब्राह्मणाः' 'त्वद्भवाम्यई' 'मद्भवसि त्वम्' इत्यादौ वचनपुरुषयोः प्रकृ तिगतयोरेव दर्शनात् । ननु सङ्कोचे किं मानम् ? ' सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवतः" इति भाष्यप्रयोग एव । उद्देश्यविधेयभावस्थले तु उद्देश्यगता सङ्ख्याऽऽख्यातप्रत्यये "शास्त्राणि चेत्प्रमाणं - स्युः" इत्यादिषु ।
पुनरपि वाक्यं द्विधा - काव्यात्मकमकाव्यात्मकं च । द्वितीयं तूक्तम् । आद्यन्तु " तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः कापि" इत्यनेन लक्षितम् । अत्र यावद्देोषाभावो वक्तुमशक्यः, असम्भवात् । यत्कि दोषाभावे अदोष्पदवैयर्थ्यम् । तस्मान्नञोऽल्प (१) त्वमर्थः 'अनुदरा कन्या' इतिवत् । अल्पत्वं च स्फुटप्रतीयमानदोषराहित्यम् ।
इदं काव्यलक्षणं रसगङ्गाधरे दूषितम्, शब्दार्थयोर्व्यासज्यवृत्तिकाव्यवे 'काव्यं श्रुतमर्थो न ज्ञातः' इति व्यवहारासम्भवात् । तदसमञ्जसम्, एकदेशे दग्धेऽपि 'पटो दग्धः' इतिवदेकदेशेऽपि प्रयोगसम्भवात् "समुदायवृत्ताः शब्दाः क्वचिदेकदेशेऽपि वर्तन्ते " इति भाष्यात् ।
a
तल्लक्षणमेव तु न समञ्जसम् । तथाहि, रमणीयार्थप्रतिपादकशव्दः काव्यम् । रमणीयत्वं च लोकोत्तराल्हादजनक ज्ञानविषयत्वमिति तल्लक्षणम् । इदञ्च 'तत्त्वमसि' इत्यादावतिव्याप्तम् । न चाल्हादे वैजात्यम् । किन्ततः ? लोकोत्तराल्हादजनकज्ञानविषयत्वस्योभयत्र तुल्य. त्वात् ब्रह्मानन्दत्वेन सर्वैर्वर्णितत्वाच्च । किञ्च रमणीयपदस्य रमणीयार्थप्रतिपादकत्वमस्ति न वा ? नाद्यः, रमणीयशब्दस्यापि रमणीया. प्रतिपादकशब्दत्वेन काव्यत्वापत्तेः । इदं च भाष्ये " अपशब्दार्थकः शब्दो ऽशब्द इति चेन्न, अपशब्दस्यापि अपशब्दत्वापत्तेः" इत्यनेन ( १ ) तः सादृश्यमभावश्च तदन्यत्वं तदल्पता । अमाशस्त्यं विशेष नजः षद् कोर्तिताः ॥ इत्युक्तेः

Page Navigation
1 ... 504 505 506 507 508 509 510